संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ६ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ६ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ६ Translation - भाषांतर उन्मादाः षट् पृथग्-दोष-निचयाधि-विषोद्भवाः ।उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः ॥१॥शारीर-मानसैर् दुष्टैर् अ-हिताअन्न-पानतः ।विकृता-सात्म्य-स-मलाविषमाउपयोगतः ॥२॥६.२ शारीर-मानसैर् दोषैर् ६.२ विकृता-सात्म्य-स-मल- ६.२ -विषमाउपयोगतः विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् ।क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात् ॥३॥६.३ व्याधि-वेग-समुद्भवात् ६.३ व्याधि-वेग-समुद्भ्रमात् आधिभिर् चित्त-विभ्रंशाविषेणोपविषेण च ।एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः ॥४॥६.४ विषेणोपविषेण वा ६.४ एभिर् विहीन-सत्-त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् ।उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात् ॥५॥देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वरथः ।भ्रमत्य् अ-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता ॥६॥६.६ देही दुःख-सुख-भ्रष्टो अ-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् ।गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च ॥७॥अ-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः ।आस्यात् फेनागमो ऽजस्रम् अटनं बहु-भाषि-ता ॥८॥६.८ अभीक्ष्णं वेणु-वीणादि- ६.८ आस्येन वेणु-वीणादि- ६.८ -शब्दादि-करणं मुहुः ६.८ अटनं बहु-भाषितम् अलङ्कारो ऽन्-अलङ्कारैर् अ-यानैर् गमनोद्यमः ।गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता ॥९॥६.९ तल्-लाभे वावमान-ता ६.९ तल्-लाभेष्व् अवमान-ता उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः ।पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः ॥१०॥६.१० उत्पीडितारुणाक्षि-त्वं शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता ।अ-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम् ॥११॥६.११ नेत्र-त्वक्-पीत-वर्ण-ता ६.११ अ-सति ज्वलने ज्वाला- ६.११ अ-सत्य-ज्वलनोल्कादि- कफाअ-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता ।स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः ॥१२॥बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने ।उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते ॥१३॥सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् ।उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥१४॥६.१४ -संनिपातात् तद्-आत्मकम् धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् ।पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥१५॥रोदित्य् अ-कस्मान् म्रियते तद्-गुणान् बहु मन्यते ।शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते ॥१६॥६.१६ रोदित्य् अ-कस्मात् स्मयते विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः ।वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥१७॥६.१७ नष्ट-च्छायो ऽ-बलेन्द्रियः अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् ।पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम् ॥१८॥कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् ।स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम् ॥१९॥६.१९ कफ-पित्तोद्भवे ऽप्य् आदौ ६.१९ स्निग्ध-स्विन्नस्य वस्तींश् च ६.१९ शिरसश् च विरेचनम् तथास्य शुद्ध-देहस्य प्रसादं लभते मनः ।इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥२०॥६.२० तथैव शुद्ध-देहस्य हर्षणाश्वासनोत्त्रास-भय-ताडन-तर्जनम् ।अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः ॥२१॥६.२१ -धूमान् पानं च सर्पिषः युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः ।हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् घृताढकम् ॥२२॥सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् ।द्वौ प्रस्थौ स्व-रसाब्राह्म्या घृत-प्रस्थं च साधितम् ॥२३॥व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः ।स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः ॥२४॥६.२४ व्योष-श्यामा-त्रिवृद्-बिम्बी- ६.२४ सातला-कृमिजित्-कल्कैः ६.२४ सर्वैस् तैर् अक्ष-संमितैः पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् ।उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम् ॥२५॥वाक्-स्वर-स्मृति-मेधा-कृधन्यं ब्राह्मी-घृतं स्मृतम् ।वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः ॥२६॥६.२६ वरा-विशालाकौत्पला- ६.२६ वरा-विशाला-पत्त्रैला- द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः ।बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-दाडिमैः ॥२७॥वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः ।स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत् ॥२८॥६.२८ -मालती-कुमुदोत्पलैः ६.२८ रुदन्ती-पद्मक-हिमैः प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु ।पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे ॥२९॥६.२९ -कासापस्मार-पाप्म-जित् ६.२९ पाण्डु-कण्डू-विषे शोफे अ-रेतस्य् अ-प्रजसि वा दैवोपहत-चेतसि ।अ-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके ॥३०॥६.३० अ-रेतस्य् अल्प-रजसि बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् ।कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च ॥३१॥एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् ।रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम् ॥३२॥६.३२ गृष्टि-क्षीरे चतुर्-गुणे ६.३२ गृष्टि-क्षीरं चतुर्-गुणम् वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः ।शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम् ॥३३॥६.३३ वीरर्द्धि-मेदा-काकोली- ६.३३ महा-कल्याणकं स्मृतम् बृंहणं संनिपात-घ्नं पूर्वस्माअधिकं गुणैः ।जटिला पूतना केशी चारटी मर्कटी वचा ॥३४॥त्रायमाणा जया वीरा चोरकः कटु-रोहिणी ।वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥३५॥६.३५ अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुली-द्वयम् ।कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥३६॥६.३६ कटम्भरा-वृश्चिकाली- ६.३६ -स्थिराश् चाहृत्य तैर् घृतम् सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् ।महा-पैशाचकं नाम घृतम् एतयथामृतम् ॥३७॥६.३७ सिद्धं चतुर्थकोन्माद- ६.३७ सिद्धं चातुर्थकोन्माद- बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् ।ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥३८॥६.३८ स्मृति-बुद्धि-करं चैव ६.३८ बालानाम् अङ्ग-वर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् ।ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम् ॥३९॥६.३९ रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता ।वर्तिर् नस्याञ्जनालेप-धूपैर् उन्माद-सूदनी ॥४०॥६.४० काच्छीं च हस्ति-मूत्रेण ६.४० सौराष्ट्रीं बस्त-मूत्रेण ६.४० -धूपैर् उन्माद-नाशिनी अवपीडाश् च विविधाः सर्षपाः स्नेह-संयुताः ।कटु-तैलेन चाभ्यङ्गो ध्मापयेचास्य तरजः ॥४१॥स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः ।शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः ॥४२॥६.४२ स-हिङ्गु तीक्ष्ण-धूमश् च ६.४२ -जलूका-वृष-बस्त-जैः ६.४२ -जलौका-वृक-बस्त-जैः मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् ।धूप-धूमाञ्जनाभ्यङ्ग-प्रदेह-परिषेचनम् ॥४३॥धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः ।वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥४४॥तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः ।शीतानि चान्न-पानानि मधुराणि लघूनि च ॥४५॥विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।निवाते शाययेएवं मुच्यते मति-विभ्रमात् ॥४६॥६.४६ विध्येत् सिरां यथोक्तां च प्रक्षिप्या-सलिले कूपे शोषयेवा बुभुक्षया ।आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः ॥४७॥६.४७ आश्वासयेत् सुहृद्भिस् तं ब्रूयाइष्ट-विनाशं वा दर्शयेअद्भुतानि वा ।बद्धं सर्षप-तैलाक्तं न्यसेवोत्तानम् आतपे ॥४८॥६.४८ ब्रूयाइष्टस्य नाशं वा ६.४८ न्यस्तं चोत्तानम् आतपे कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् ।कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥४९॥६.४९ बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे ।सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम् ॥५०॥त्रासयेछस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥५०-१-अ॥६.५०-१-ब्व् तस्करैः शत्रुभिस् तथा अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् ।भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥५१॥देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् ।तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥५२॥६.५२ सर्वतो ऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया ।इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते ॥५३॥६.५३ सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् ।काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान् ॥५४॥६.५४ तस्य तत्-सदृश-प्राप्तिः ६.५४ -सान्त्वाश्वासैः प्रसादयेत् ६.५४ -प्रियाश्वासैः प्रदर्शयेत् ६.५४ सान्त्वाश्वासैः शमं नयेत् परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् ।भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम् ॥५५॥६.५५ भूतानुबद्धम् ईक्षेत यद्य् उन्मादे ततः कुर्याभूत-निर्दिष्टम् औषधम् ।बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम् ॥५६॥६.५६ यद्य् उन्मादे च तत् कुर्यास्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् ।पक्वामकानि मांसानि सुरां मैरेयम् आसवम् ॥५७॥६.५७ पक्वामाह्वानि मांसानि ६.५७ सुरा-मैरेयम् आसवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च ॥५८॥निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः ।निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते ॥५९॥६.५९ निवृत्तामिष-मद्यो ऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा ।धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम् ॥६०॥६.६० इन्द्रियाणां प्रसन्न-त्वं ६.६० गतोन्मादस्य लक्षणम् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP