संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ९ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ९ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ९ Translation - भाषांतर कृच्छ्रोन्मीले पुराणाज्यं द्राक्षा-कल्काम्बु-साधितम् ।स-सितं योजयेत् स्निग्धं नस्य-धूमाञ्जनादि च ॥१॥कुम्भीका-वर्त्म-लिखितं सैन्धव-प्रतिसारितम् ।यष्टी-धात्री-पटोलीनां क्वाथेन परिषेचयेत् ॥२॥निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तान-शायिनः ।बहिः कोष्णाम्बु-तप्तेन स्वेदितं वर्त्म वाससा ॥३॥निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुली-घृतम् ।न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥४॥९.४ न स्रंसते न चलति मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्र-पदाङ्कितम् ।लिखेत् तेनैव पत्त्रैर् वा शाक-शेफालिकादि-जैः ॥५॥९.५ शाक-शेफालिकादिकैः ९.५ शाक-शेफालिकादिभिः फेनेन तोय-राशेर् वा पिचुना प्रमृजन्न् असृक् ।स्थिते रक्ते सु-लिखितं स-क्षौद्रैः प्रतिसारयेत् ॥६॥यथा-स्वम् उक्तैर् अनु च प्रक्षाल्योष्णेन वारिणा ।घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधु-सर्पिषा ॥७॥९.७ घृतेनासिक्तम् अभ्यक्तं ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यव-सक्तुभिः ।द्वितीये ऽहनि मुक्तस्य परिषेकं यथा-यथम् ॥८॥कुर्याचतुर्थे नस्यादीन् मुञ्चेएवाह्नि पञ्चमे ।समं नख-निभं शोफ-कण्डू-घर्षाद्य-पीडितम् ॥९॥विद्यात् सु-लिखितं वर्त्म लिखेभूयो विपर्यये ।रुक्-पक्ष्म-वर्त्म-सदन-स्रंसनान्य् अति-लेखनात् ॥१०॥स्नेह-स्वेदादिकस् तस्मिन्न् इष्टो वात-हरः क्रमः ।अभ्यज्य नव-नीतेन श्वेत-लोध्रं प्रलेपयेत् ॥११॥एरण्ड-मूल-कल्केन पुट-पाके पचेत् ततः ।स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटली-कृतम् ॥१२॥स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्र-सेचनम् ।शालि-तण्डुल-कल्केन लिप्तं तद्-वत् परिष्कृतम् ॥१३॥९.१३ स्त्रियाः क्षीरे छागले वा कुर्यान् नेत्रे ऽति-लिखिते मृदितं दधि-मस्तुना ।केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥१४॥पिटिका व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताः ।निष्पीडयेअनु विधिः परिशेषस् तु पूर्व-वत् ॥१५॥९.१५ पिटिकां व्रीहि-वक्त्रेण ९.१५ भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्व-त्र वर्त्मनि ।पित्तास्रोत्क्लिष्टयोः स्वादु-स्कन्ध-सिद्धेन सर्पिषा ॥१६॥सिरा-विमोक्षः स्निग्धस्य त्रिवृछ्रेष्ठं विरेचनम् ।लिखिते स्रुत-रक्ते च वर्त्मनि क्षालनं हितम् ॥१७॥९.१७ त्रिवृछ्रेष्ठा विरेचने ९.१७ लिखिते निःसृते रक्ते यष्टी-कषायः सेकस् तु क्षीरं चन्दन-साधितम् ।पक्ष्मणां सदने सूच्या रोम-कूपान् विकुट्टयेत् ॥१८॥९.१८ यष्टी-क्वाथेन सेकस् तु ग्राहयेवा जलौकोभिः पयसेक्षु-रसेन वा ।वमनं नावनं सर्पिः शृतं मधुर-शीतलैः ॥१९॥संचूर्ण्य पुष्प-कासीसं भावयेत् सुरसा-रसैः ।ताम्रे दशाहं परमं पक्ष्म-शाते तअञ्जनम् ॥२०॥पोथकीर् लिखिताः शुण्ठी-सैन्धव-प्रतिसारिताः ।उष्णाम्बु-क्षालिताः सिञ्चेत् खदिराढकि-शिग्रुभिः ॥२१॥९.२१ पोथकीं लिखितं शुण्ठी- ९.२१ -सैन्धव-प्रतिसारिताम् ९.२१ उष्णाम्बु-क्षालितां सिञ्चेत् अप्-सिद्धैर् द्वि-निषा-श्रेष्ठा-मधुकैर् वा स-माक्षिकैः ।कफोत्क्लिष्टे विलिखिते स-क्षौद्रैः प्रतिसारणम् ॥२२॥सूक्ष्मैः सैन्धव-कासीस-मनोह्वा-कण-तार्क्ष्य-जैः ।वमनाञ्जन-नस्यादि सर्वं च कफ-जिधितम् ॥२३॥कर्तव्यं लगणे ऽप्य् एतअ-शान्ताव् अग्निना दहेत् ।कुकूणे खदिर-श्रेष्ठा-निम्ब-पत्त्र-शृतं घृतम् ॥२४॥९.२४ -निम्ब-पत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा विनिष्पीड्य भिषग् अञ्जन-नामिकाम् ।शिलैला-सैन्धव-नतैः स-क्षौद्रैः प्रतिसारयेत् ॥२४.१-१-॥९.२४.१-१-अव् स्विन्नां भित्त्वा विनिष्पीड्योत्ं ९.२४.१-१-ब्व् ंसङ्गां चाञ्जन-नामिकाम् पीत्वा धात्री वमेत् कृष्णा-यष्टी-सर्षप-सैन्धवैः ।अभया-पिप्पली-द्राक्षा-क्वाथेनैनां विरेचयेत् ॥२५॥मुस्ता-द्वि-रजनी-कृष्णा-कल्केनालेपयेत् स्तनौ ।धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥२६॥पटोल-मुस्त-मृद्वीका-गुडूची-त्रि-फलोद्भवम् ।शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बु-जन्मभिः ॥२७॥धात्र्य्-अश्मन्तक-जम्बूत्थ-पत्त्र-क्वाथेन सेचयेत् ।प्रायः क्षीर-घृताशि-त्वाबालानां श्लेष्म-जा गदाः ॥२८॥तस्मावमनम् एवाग्रे सर्व-व्याधिषु पूजितम् ।सिन्धूत्थ-कृष्णापामार्ग-बीजाज्य-स्तन्य-माक्षिकम् ॥२९॥चूर्णो वचायाः स-क्षौद्रो मदनं मधुकान्वितम् ।क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥३०॥९.३० भजतः क्रम-शः शिशोः वमनं सर्व-रोगेषु विशेषेण कुकूणके ।सप्तला-रस-सिद्धाज्यं योज्यं चोभय-शोधनम् ॥३१॥द्वि-निशा-लोध्र-यष्ट्य्-आह्व-रोहिणी-निम्ब-पल्लवैः ।कुकूणके हिता वर्तिः पिष्टैस् ताम्र-रजो-ऽन्वितैः ॥३२॥क्षीर-क्षौद्र-घृतोपेतं दग्धं वा लोह-जं रजः ।एला-लशुन-कतक-शङ्खोषण-फणिज्जकैः ॥३३॥९.३३ दग्धं वा लोध्र-जं रजः वर्तिः कुकूण-पोथक्योः सुरा-पिष्टैः स-कट्फलैः ।पक्ष्म-रोधे प्रवृद्धेषु शुद्ध-देहस्य रोमसु ॥३४॥उत्सृज्य द्वौ भ्रुवो ऽधस्-ताभागौ भागं च पक्ष्मतः ।यव-मात्रं यवाकारं तिर्यक् छित्त्वार्द्र-वाससा ॥३५॥अपनेयम् असृक् तस्मिन्न् अल्पी-भवति शोणिते ।सीव्येत् कुटिलया सूच्या मुद्ग-मात्रान्तरैः पदैः ॥३६॥बद्ध्वा ललाटे पट्टं च तत्र सीवन-सूत्रकम् ।नाति-गाढ-श्लथं सूच्या निक्षिपेअथ योजयेत् ॥३७॥मधु-सर्पिः-कवलिकां न चास्मिन् बन्धम् आचरेत् ।न्यग्रोधादि-कषायैश् च स-क्षीरैः सेचयेरुजि ॥३८॥पञ्चमे दिवसे सूत्रम् अपनीयावचूर्णयेत् ।गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं नस्याञ्जनादि च ॥३९॥९.३९ तीक्ष्ण-नस्याञ्जनादि च ९.३९ तीक्ष्ण-नस्याञ्जनानि च ९.३९ तीक्ष्णं नस्याञ्जनानि च दहेअ-शान्तौ निर्भुज्य वर्त्म-दोषाश्रयां वलीम् ।संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥४०॥सूच्य्-अग्रेणाग्नि-वर्णेन दाहो बाह्यालजेः पुनः ।भिन्नस्य क्षार-वह्निभ्यां सु-च्छिन्नस्यार्बुदस्य च ॥४१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP