संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय १६ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय १६ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १६ Translation - भाषांतर प्राग्-रूप एव स्यन्देषु तीक्ष्णं गण्डूष-नावनम् ।कारयेउपवासं च कोपाअन्य-त्र वात-जात् ॥१॥दाहोपदेह-रागाश्रु-शोफ-शान्त्यै बिडालकम् ।कुर्यात् सर्व-त्र पत्त्रैला-मरिच-स्वर्ण-गैरिकैः ॥२॥स-रसाञ्जन-यष्ट्य्-आह्व-नत-चन्दन-सैन्धवैः ।सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥३॥१६.३ घृष्टं मण्डेन सर्पिषः बदरी-पत्त्र-यष्ट्य्-आह्व-पथ्यामलक-तुत्थकम् ।अन्तर्-धूमं दहेत् सद्यः कोपे तच्-चूर्णं वात-जे ॥३.१-१॥वात-जे घृत-भृष्टं वा योज्यं शबर-देश-जम् ।मांसी-पद्मक-कालीय-यष्ट्य्-आह्वैः पित्त-रक्तयोः ॥४॥१६.४ योज्यं शाबर-देश-जम् १६.४ मांसी-पद्मक-काकोली- मनोह्वा-फलिनी-क्षौद्रैः कफे सर्वैस् तु सर्व-जे ॥५अ॥सित-मरिच-भागम् एकं चतुर्-मनोह्वं द्विर् अष्ट-शाबरकम् ॥५च्॥संचूर्ण्य वस्त्र-बद्धं प्रकुपित-मात्रे ऽवगुण्ठनं नेत्रे ॥५एf ॥१६.५एव् संचूर्ण्यम् अति-प्रबद्धं १६.५fव् प्रकुपित-मात्रे ऽवगुण्ठनम् इदं नेत्रे धातु-शुण्ठ्य्-अभया-तार्क्ष्यं बहिर्-लेपो ऽक्षि-रोग-हा ॥५.१(१)-१अ॥१६.५.१(१)-१ धातु-शुण्ठ्य्-अभया-तार्क्ष्य- १६.५.१(१)-१ -बहिर्-लेपो ऽक्षि-रोग-हा हरीतकी-सैन्धव-तार्क्ष्य-शीलैः स-गैरिकैः स्व-स्व-कर-प्रमृष्टैः ।बहिः-प्रलेपं नयनस्य कुर्यात् सर्वाक्षि-रोग-प्रशमार्थम् एतत् ॥५.१(२)-१॥आरण्याश् छगण-रसे पटावबद्धाः सु-स्विन्ना नख-वि-तुषी-कृताः कुलत्थाः ।तच्-चूर्णं सकृअवचूर्णनान् निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥६॥१६.६ आरण्याश् छगण-रसे पटावनद्धाः घोषाभया-तुत्थक-यष्टि-लोध्रैर् मूती सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः ।ताम्र-स्थ-धान्याम्ल-निमग्न-मूर्तिर् अर्तिं जयत्य् अक्षिणि नैक-रूपाम् ॥७॥१६.७ घोषाभया-तुत्थक-यष्टि-लोध्रैः १६.७ व्योषाभया-तुत्थक-यष्टि-लोध्रैर् १६.७ गुण्डी सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७ पिष्टैः सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७ ताम्राच्छ-धान्याम्ल-निमग्न-मूर्तिर् षो-डशभिः सलिल-पलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् ।सेको ऽष्ट-भाग-शिष्टः क्षौद्र-युतः सर्व-दोष-कुपिते नेत्रे ॥८॥१६.८ क्षौद्र-युतः सर्व-दोष-प्रकुपिते नेत्रे वात-पित्त-कफ-संनिपात-जां नेत्रयोर् बहु-विधाम् अपि व्यथाम् ।शीघ्रम् एव जयति प्रयोजितः शिग्रु-पल्लव-रसः स-माक्षिकः ॥९॥तरुणम् उरुबूक-पत्त्रं मूलं च विभिद्य सिद्धम् आजे क्षीरे ।वाताभिष्यन्द-रुजं सद्यो विनिहन्ति सक्तु-पिण्डिका चोष्णा ॥१०॥१६.१० मूलं च विचूर्ण्य सिद्धम् आजे क्षीरे आश्च्योतनं मारुत-जे क्वाथो बिल्वादिभिर् हितः ।कोष्णः सहैरण्ड-जटा-बृहती-मधु-शिग्रुभिः ॥११॥ह्रीवेर-वक्र-शार्ङ्गष्टोदुम्बर-त्वक्षु साधितम् ।साम्भसा पयसाजेन शूलाश्च्योतनम् उत्तमम् ॥१२॥१६.१२ ंदुम्बर-त्वक्-प्रसाधितम् १६.१२ ंदुम्बर-प्लक्ष-साधितम् लोध्रामलक-रसाञ्ज[न]-बिम्बितिका-पत्त्र-तुबरिका-तुत्थैः ।आश्च्योतनम् इदम् अक्ष्णोः प्रसह्य सद्यः प्रकोप-हरम् ॥१२-१॥मञ्जिष्ठा-रजनी-लाक्षा-द्राक्षर्द्धि-मधुकोत्पलैः ।क्वाथः स-शर्करः शीतः सेचनं रक्त-पित्त-जित् ॥१३॥१६.१३ -द्राक्षा-द्वि-मधुकोत्पलैः कसेरु-यष्ट्य्-आह्व-रजस् तान्तवे शिथिलं स्थितम् ।अप्सु दिव्यासु निहितं हितं स्यन्दे ऽस्र-पित्त-जे ॥१४॥१६.१४ तान्तवे शिथिले स्थितम् पुण्ड्र-यष्टी-निशा-मूती प्लुता स्तन्ये स-शर्करे ।छाग-दुग्धे ऽथ-वा दाह-रुग्-रागाश्रु-निवर्तनी ॥१५॥श्वेत-लोध्रं स-मधुकं घृत-भृष्टं सु-चूर्णितम् ।वस्त्र-स्थं स्तन्य-मृदितं पित्त-रक्ताभिघात-जित् ॥१६॥नागर-त्रि-फला-निम्ब-वासा-लोध्र-रसः कफे ।कोष्णम् आश्च्योतनं मिश्रैर् भेषजैः सांनिपातिके ॥१७॥१६.१७ -वासा-लोध्र-रसाः कफे १६.१७ -वासा-लोध्र-रसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् ।व्योष-सिद्धं कफे पीत्वा यव-क्षारावचूर्णितम् ॥१८॥१६.१८ पित्ते शर्करया युतम् स्रावयेरुधिरं भूयस् ततः स्निग्धं विरेचयेत् ।आनूप-वेसवारेण शिरो-वदन-लेपनम् ॥१९॥उष्णेन शूले दाहे तु पयः-सर्पिर्-युतैर् हिमैः ।तिमिर-प्रतिषेधं च वीक्ष्य युञ्ज्यायथा-यथम् ॥२०॥अयम् एव विधिः सर्वो मन्थादिष्व् अपि शस्यते ।अ-शान्तौ सर्व-था मन्थे भ्रुवोर् उपरि दाहयेत् ॥२१॥रूप्यं रूक्षेण गो-दध्ना लिम्पेन् नील-त्वम् आगते ।शुष्के तु मस्तुना वर्तिर् वाताक्ष्य्-आमय-नाशिनी ॥२२॥१६.२२ लिप्तं नील-त्वम् आगते १६.२२ लिप्ते नील-त्वम् आगते सुमनः-कोरकाः शङ्खस् त्रि-फला मधुकं बला ।पित्त-रक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥२३॥१६.२३ सुमनः-क्षारकाः शङ्खस् सैन्धवं त्रि-फला व्योषं शङ्खनाभिः समुद्र-जः ।फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षि-रोग-नुत् ॥२४॥प्रपौण्डरीकं यष्ट्य्-आह्वं दार्वी चाष्ट-पलं पचेत् ।जल-द्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥२५॥पुष्पाञ्जनादश-पलं कर्षं च मरिचात् ततः ।कृतश् चूर्णो ऽथ-वा वर्तिः सर्वाभिष्यन्द-संभवान् ॥२६॥हन्ति राग-रुजा-घर्षान् सद्यो दृष्टिं प्रसादयेत् ।अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥२७॥शुष्काक्षि-पाके हविषः पानम् अक्ष्णोश् च तर्पणम् ।घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥२८॥१६.२८ नस्यं तैलेन चाणुना परिषेको हितश् चात्र पयः कोष्णं स-सैन्धवम् ।सर्पिर्-युक्तं स्तन्य-पिष्टम् अञ्जनं च महौषधम् ॥२९॥१६.२९ सर्पिर्-युक्तं स्तन्य-घृष्टम् वसा वानूप-सत्-त्वोत्था किञ्-चित्-सैन्धव-नागरा ।घृताक्तान् दर्पणे घृष्टान् केशान् मल्लक-संपुटे ॥३०॥१६.३० वसा चानूप-सत्-त्वोत्था दग्ध्वाज्य-पिष्टा लोह-स्था सा मषी श्रेष्ठम् अञ्जनम् ।स-शोफे वाल्प-शोफे च स्निग्धस्य व्यधयेत् सिराम् ॥३१॥१६.३१ स-शोफे चाल्प-शोफे च रेकः स्निग्धे पुनर् द्राक्षा-पथ्या-क्वाथ-त्रिवृद्-घृतैः ।श्वेत-लोध्रं घृते भृष्टं चूर्णितं तान्तव-स्थितम् ॥३२॥१६.३२ श्वेत-लोध्रं घृत-भृष्टं उष्णाम्बुना विमृदितं सेकः शूल-हरः परम् ।दार्वी-प्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥३३॥१६.३३ दार्व्याः प्रपौण्डरीकस्य यष्टी-हिमोत्पल-क्षीरैः कुर्यान् मूर्धस्य लेपनम् ॥३३-१अ॥संधावांश् च प्रयुञ्जीत घर्ष-रागाश्रु-रुग्-घरान् ॥३३ऊ̆अ॥ताम्रं लोहे मूत्र-घृष्टं प्रयुक्तं नेत्रे सर्पिर्-धूपितं वेदना-घ्नम् ।ताम्रे घृष्टो गव्य-दध्नः सरो वा युक्तः कृष्णा-सैन्धवाभ्यां वरिष्ठः ॥३४॥शङ्खं ताम्रे स्तन्य-घृष्टं घृताक्तैः शम्याः पत्त्रैर् धूपितं तयवैश् च ।नेत्रे युक्तं हन्ति संधाव-संज्ञं क्षिप्रं घर्षं वेदनां चाति-तीव्राम् ॥३५॥उदुम्बर-फलं लोहे घृष्टं स्तन्येन धूपितम् ॥३६अ॥साज्यैः शमी-च्छदैर् दाह-शूल-रागाश्रु-हर्ष-जित् ।शिग्रु-पल्लव-निर्यासः सु-घृष्टस् ताम्र-संपुटे ॥३७॥१६.३७ शिग्रु-पल्लव-निर्यासो १६.३७ घृष्टस् ताम्रस्य संपुटे द्वि-निशा-त्रि-फला-मुस्तैः प्रमदा-दुग्ध-पेषितैः ।सेकः स-शर्करा-क्षौद्रैर् अभिघात-रुजापहः ॥३७.१-१॥१६.३७.१-१ प्रमदा-दुग्ध-कल्कितैः निषिक्तं तुत्थकं वारान् गो-जले पञ्च-विंशतिम् ।स्तन्ये वा छाग-दुग्धे वा सद्यः-कोपे तअञ्जनम् ॥३७.१-२॥घृतेन धूपितो हन्ति शोफ-घर्षाश्रु-वेदनाः ।तिलाम्भसा मृत्-कपालं कांस्ये घृष्टं सु-धूपितम् ॥३८॥निम्ब-पत्त्रैर् घृताभ्यक्तैर् घर्ष-शूलाश्रु-राग-जित् ।संधावेनाञ्जिते नेत्रे विगतौषध-वेदने ॥३९॥स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच तैः ।तालीश-पत्त्र-चपला-नत-लोह-रजो-ऽञ्जनैः ॥४०॥१६.४० -नत-लोह-रसाञ्जनैः जाती-मुकुल-कासीस-सैन्धवैर् मूत्र-पेषितैः ।ताम्रम् आलिप्य सप्ताहं धारयेत् पेषयेत् ततः ॥४१॥मूत्रेणैवानु गुटिकाः कार्याश् छाया-विशोषिताः ।ताः स्तन्य-घृष्टा घर्षाश्रु-शोफ-कण्डू-विनाशनाः ॥४२॥१६.४२ मूत्रेण चानु गुटिकाः १६.४२ कुर्याछाया-विशोषिताः व्याघ्री-त्वङ्-मधुकं ताम्र-रजो ऽजा-क्षीर-कल्कितम् ।शम्य्-आमलक-पत्त्राज्य-धूपितं शोफ-रुक्-प्रणुत् ॥४३॥१६.४३ -रजो ऽजा-क्षीर-पेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्द-साधनम् ।उत्क्लिष्टाः कफ-पित्तास्र-निचयोत्थाः कुकूणकः ॥४४॥पक्ष्मोपरोधं शुष्काक्षि-पाकः पूयालसो बिसः ।पोथक्य्-अम्लोषितो ऽल्पाख्यः स्यन्द-मन्था विनानिलात् ॥४५॥एते ऽष्टा-दश पिल्लाख्या दीर्घ-कालानुबन्धिनः ।चिकित्सा पृथग् एतेषां स्वं स्वम् उक्ताथ वक्ष्यते ॥४६॥१६.४६ स्वं स्वम् उक्ताथ कथ्यते पिल्ली-भूतेषु सामान्याअथ पिल्लाख्य-रोगिणः ।स्निग्धस्य छर्दित-वतः सिरा-व्यध-हृतासृजः ॥४७॥१६.४७ अथ पिल्लाक्षि-रोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेआ-विशुद्धितः ।तुत्थकस्य पलं श्वेत-मरिचानि च विंशतिः ॥४८॥१६.४८ विरिक्तस्य तु वर्त्मानु १६.४८ विलिखेआ-विशुद्धितः त्रिंशता काञ्जिक-पलैः पिष्ट्वा ताम्रे निधापयेत् ।पिल्लान् अ-पिल्लान् कुरुते बहु-वर्षोत्थितान् अपि ॥४९॥तत् सेकेनोपदेहाश्रु-कण्डू-शोफांश् च नाशयेत् ।करञ्ज-बीजं सुरसं सुमनः-कोरकाणि च ॥५०॥१६.५० सुमनः-क्षारकाणि च संक्षुद्य साधयेत् क्वाथे पूते तत्र रस-क्रिया ।अञ्जनं पिल्ल-भैषज्यं पक्ष्मणां च प्ररोहणम् ॥५१॥रसाञ्जनं सर्ज-रसो रीति-पुष्पं मनःशिला ।समुद्र-फेनो लवणं गैरिकं मरिचानि च ॥५२॥१६.५२ जाती-पुष्पं मनःशिला १६.५२ समुद्र-फेनं लवणं अञ्जनं मधुना पिष्टं क्लेद-कण्डू-घ्नम् उत्तमम् ।अभया-रस-पिष्टं वा तगरं पिल्ल-नाशनम् ॥५३॥भावितं बस्त-मूत्रेण स-स्नेहं देवदारु च ।सैन्धव-त्रि-फला-कृष्णा-कटुका-शङ्खनाभयः ॥५४॥१६.५४ स-स्नेहं देवदारु वा स-ताम्र-रजसो वर्तिः पिल्ल-शुक्रक-नाशिनी ।पुष्प-कासीस-चूर्णो वा सुरसा-रस-भावितः ॥५५॥ताम्रे दशाहं तत् पैल्ल्य-पक्ष्म-शात-जिअञ्जनम् ॥५५ऊ̆अ॥अलं च सौवीरकम् अञ्जनं च ताभ्यां समं ताम्र-रजः सु-सूक्ष्मम् ।पिल्लेषु रोमाणि निषेवितो ऽसौ चूर्णः करोत्य् एक-शलाकयापि ॥५६॥१६.५६ ताभ्यां समं ताम्र-रजश् च सूक्ष्मम् १६.५६ पिल्लेषु रोमाणि निषेवितो ऽयं लाक्षा-निर्गुण्डी-भृङ्ग-दार्वी-रसेन श्रेष्ठं कार्पासं भावितं सप्त-कृत्वः ।दीपः प्रज्वाल्यः सर्पिषा तत्-समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥५७॥१६.५७ श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहु-शस् तद्-वछोणित-मोक्षणम् ॥५८अ॥पुनः पुनर् विरेकं च नित्यम् आश्च्योतनाञ्जनम् ।नावनं धूम-पानं च पिल्ल-रोगातुरो भजेत् ॥५९॥पूयालसे त्व् अ-शान्ते ऽन्ते दाहः सूक्ष्म-शलाकया ।चतुर्-णवतिर् इत्य् अक्ष्णो हेतु-लक्षण-साधनैः ॥६०॥१६.६० पूयालसे त्व् अ-शान्ते तु १६.६० चतुर्-णवतिर् इत्य् अक्ष्णोर् परस्-परम् अ-संकीर्णाः कार्त्स्न्येन गदिता गदाः ।सर्व-दा च निषेवेत स्वस्थो ऽपि नयन-प्रियः ॥६१॥पुराण-यव-गोधूम-शालि-षष्टिक-कोद्रवान् ।मुद्गादीन् कफ-पित्त-घ्नान् भूरि-सर्पिः-परिप्लुतान् ॥६२॥शाकं चैवं-विधं मांसं जाङ्गलं दाडिमं सिताम् ।सैन्धवं त्रि-फलां द्राक्षां वारि पाने च नाभसम् ॥६३॥आतप-त्रं पद-त्राणं विधि-वदोष-शोधनम् ।वर्जयेवेग-संरोधम् अ-जीर्णाध्यशनानि च ॥६४॥१६.६४ अ-जीर्णाध्यशनादि च क्रोध-शोक-दिवा-स्वप्न-रात्रि-जागरणातपान् ।विदाहि विष्टम्भ-करं यचेहाहार-भेषजम् ॥६५॥१६.६५ -निशा-जागरणानि च १६.६५ विदाह-विष्टम्भ-करं १६.६५ ययआहार-भेषजम् १६.६५ विहाराहार-भेषजम् द्वे पाद-मध्ये पृथु-संनिवेशे सिरे गते ते बहु-धा च नेत्रे ।ता म्रक्षणोद्वर्तन-लेपनादीन् पाद-प्रयुक्तान् नयने नयन्ति ॥६६॥१६.६६ द्वे पाद-मध्ये पृथु-संनिविष्टे १६.६६ पाद-प्रयुक्तान् नयनं नयन्ति मलौष्ण्य-संघट्टन-पीडनाद्यैस् ता दूषयन्ते नयनानि दुष्टाः ।भजेत् सदा दृष्टि-हितानि तस्माउपानद्-अभ्यञ्जन-धावनानि ॥६७॥१६.६७ तलोष्ण-संघट्टन-पीडनाद्यैस् १६.६७ मृल्-लोष्ट-संघट्टन-पीडनाद्यैस् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP