उत्तरस्थान - अध्याय १७
आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.
प्रतिश्याय-जल-क्रीडा-कर्ण-कण्डूयनैर् मरुत् ।
मिथ्या-योगेन शब्दस्य कुपितो ऽन्यैश् च कोपनैः ॥१॥
प्राप्य श्रोत्र-सिराः कुर्याछूलं स्रोतसि वेग-वत् ।
अर्धावभेदकं स्तम्भं शिशिरान्-अभिनन्दनम् ॥२॥
चिराच पाकं पक्वं तु लसीकाम् अल्प-शः स्रवेत् ।
श्रोत्रं शून्यम् अ-कस्माच स्यात् संचार-विचार-वत् ॥३॥
शूलं पित्तात् स-दाहोषा-शीतेच्छा-श्वयथु-ज्वरम् ।
आशु-पाकं प्रपक्वं च स-पीत-लसिका-स्रुति ॥४॥
१७.४ -शीतेच्छा-श्वयथुर् ज्वरः सा लसीका स्पृशेययत् तत् तत् पाकम् उपैति च ।
कफाछिरो-हनु-ग्रीवा-गौरवं मन्द-ता रुजः ॥५॥
कण्डूः श्वयथुर् उष्णेच्छा पाकाछ्वेत-घन-स्रुतिः ।
करोति श्रवणे शूलम् अभिघातादि-दूषितम् ॥६॥
१७.६ पाकाछ्वेत-घना स्रुतिः रक्तं पित्त-समानार्ति किञ्-चिवाधिक-लक्षणम् ।
शूलं समुदितैर् दोषैः स-शोफ-ज्वर-तीव्र-रुक् ॥७॥
पर्यायाउष्ण-शीतेच्छां जायते श्रुति-जाड्य-वत् ।
पक्वं सितासिता-रक्त-घन-पूय-प्रवाहि च ॥८॥
शब्द-वाहि-सिरा-संस्थे शृणोति पवने मुहुः ।
नादान् अ-कस्माविविधान् कर्ण-नादं वदन्ति तम् ॥९॥
श्लेष्मणानुगतो वायुर् नादो वा समुपेक्षितः ।
उच्चैः कृच्छ्राछ्रुतिं कुर्याबधिर-त्वं क्रमेण च ॥१०॥
१७.१० बधिर-त्वं क्रमेण वा वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत् ततो भवेत् ।
रुग्-गौरवं पिधानं च स प्रतीनाह-संज्ञितः ॥११॥
कण्डू-शोफौ कफाछ्रोत्रे स्थिरौ तत्-संज्ञया स्मृतौ ।
कफो विदग्धः पित्तेन स-रुजं नी-रुजं त्व् अपि ॥१२॥
१७.१२ स्थिरौ तत्-संज्ञितौ स्मृतौ १७.१२ स-रुजं नी-रुजं त्व् अथ घन-पूति-बहु-क्लेदं कुरुते पूति-कर्णकम् ।
वातादि-दूषितं श्रोत्रं मांसासृक्-क्लेद-जा रुजम् ॥१३॥
१७.१३ मांसासृक्-क्लेद-जां रुजम् खादन्तो जन्तवः कुर्युस् तीव्रां स कृमि-कर्णकः ।
श्रोत्र-कण्डूयनाज् जाते क्षते स्यात् पूर्व-लक्षणः ॥१४॥
१७.१४ श्रोतः-कण्डूयनाज् जाते विद्रधिः पूर्व-वचान्यः शोफो ऽर्शो ऽर्बुदम् ईरितम् ।
तेषु रुक् पूति-कर्ण-त्वं बधिर-त्वं च बाधते ॥१५॥
१७.१५ षो-ढार्शो ऽर्बुदम् ईरितम् १७.१५ बधिर-त्वं च जायते गर्भे ऽनिलात् संकुचिता शष्कुली कुचि-कर्णकः ।
एको नी-रुग् अनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥१६॥
१७.१६ शष्कुली कुञ्चि-कर्णकः १७.१६ शष्कुली कूचि-कर्णकः १७.१६ गर्भे मांसाङ्कुरः स्थितः पिप्पली पिप्पली-मानः संनिपाताविदारिका ।
स-वर्णः स-रुजः स्तब्धः श्वयथुः स उपेक्षितः ॥१७॥
कटु-तैल-निभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
संकोचयति रूढा च सा ध्रुवं कर्ण-शष्कुलीम् ॥१८॥
१७.१८ स्रवन् कृच्छ्रेण रोहति सिरा-स्थः कुरुते वायुः पाली-शोषं तद्-आह्वयम् ।
कृशा दृढा च तन्त्री-वत् पाली वातेन तन्त्रिका ॥१९॥
सु-कुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते ।
कर्णे शोफः स-रुक् पाल्याम् अरुणः परिपोट-वान् ॥२०॥
परिपोटः स पवनाउत्पातः पित्त-शोणितात् ।
गुर्व्-आभरण-भाराद्यैः श्यावो रुग्-दाह-पाक-वान् ॥२१॥
श्वयथुः स्फोट-पिटिका-रागोषा-क्लेद-संयुतः ।
पाल्यां शोफो ऽनिल-कफात् सर्वतो निर्-व्यथः स्थिरः ॥२२॥
स्तब्धः स-वर्णः कण्डू-मान् उन्मन्थो गल्लिरश् च सः ।
दुर्-विद्धे वर्धिते कर्णे स-कण्डू-दाह-पाक-रुक् ॥२३॥
१७.२३ उन्मन्थो गल्लिकश् च सः श्वयथुः संनिपातोत्थः स नाम्ना दुःख-वर्धनः ।
कफासृक्-कृमि-जाः सूक्ष्माः स-कण्डू-क्लेद-वेदनाः ॥२४॥
लिह्युः पालीम् उपेक्षिताः लेह्याख्याः पिटिकास् ता हि ।
पिप्पली सर्व-जं शूलं विदारी कुचि-कर्णकः ॥२५॥
१७.२५ लिह्याख्याः पिटिकास् ता हि १७.२५ विदारी कूचि-कर्णकः एषाम् अ-साध्या याप्यैका तन्त्रिकान्यांस् तु साधयेत् ।
पञ्च-विंशतिर् इत्य् उक्ताः कर्ण-रोगा विभागतः ॥२६॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP