संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय १९ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय १९ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १९ Translation - भाषांतर अवश्यायानिल-रजो-भाष्याति-स्वप्न-जागरैः ।नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा ॥१॥अत्य्-अम्बु-पान-रमण-च्छर्दि-बाष्प-ग्रहादिभिः ।क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः ॥२॥१९.२ क्षुब्धा वातोल्बणा दोषा १९.२ वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् ।तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः ॥३॥घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः ।कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ ॥४॥१९.४ कीटका इव सर्पन्ति स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः ।पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः ॥५॥१९.५ पित्तात् तृष्णा-ज्वरो घ्राणे १९.५ पिटिका-संभव-भ्रमाः नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः ।कफात् कासो ऽ-रुचिः श्वासो वमथुर् गात्र-गौरवम् ॥६॥माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः ।सर्व-जो लक्षणैः सर्वैर् अ-कस्मावृद्धि-शान्ति-मान् ॥७॥१९.७ स्निग्ध-शुक्ल-घन-स्रुतिः १९.७ स्निग्ध-शुक्ल-घना स्रुतिः दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् ।उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता ॥८॥कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् ।सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः ॥९॥१९.९ पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः ।साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः ॥१०॥कुप्यत्य् अ-कस्माबहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् ।नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः ॥११॥१९.११ मुख-दौर्गन्ध्य-शोष-कृत् पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः ।मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः ॥१२॥१९.१२ पूयोपमासिता रक्ता १९.१२ -ग्रथिता श्लेष्म-संस्रुतिः १९.१२ ग्रथित-श्लेष्म-संस्रुतिः पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः ।श्लेष्मा स-चिक्कणः पीतो ऽ-ज्ञानं च रस-गन्धयोः ॥१३॥१९.१३ ज्ञानं च रस-गन्धयोः तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः ।वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि ॥१४॥१९.१४ तीक्ष्ण-घ्राणोपयोगार्क- विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः ॥१५॥१९.१५ रुद्धः शृङ्गाटकं व्रजन् १९.१५ क्षवथुं स भृशङ्-क्षवः शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः ।शूक-पूर्णाभ-नासा-त्वं कृच्छ्राउच्छ्वसनं ततः ॥१६॥१९.१६ शोषयेन् नासिका-स्रोतः १९.१६ शूक-पूर्णाभ-कण्ठ-त्वं १९.१६ शूक-पूर्णाभ-नास-त्वं स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते ।नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना ॥१७॥निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव ।पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत् ॥१८॥स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः ।अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते ॥१९॥कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् अ-पीनसम् ।कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम् ॥२०॥१९.२० रुद्धः स्रोतःसु पीनसम् अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका ।अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥२१॥रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा ।भवेधूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च ॥२२॥तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् ।श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम् ॥२३॥निचयाअभिघातावा पूयासृङ् नासिका स्रवेत् ।तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम् ॥२४॥पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् ।कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत् ॥२५॥१९.२५ कफं स शुष्क-पुट-तां अर्शो-ऽर्बुदानि विभजेदोष-लिङ्गैर् यथा-यथम् ।सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥२६॥१९.२६ पीनसः प्रततं क्षवः १९.२६ पीनसः सततं क्षुतिः सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा ।अष्टा-दशानाम् इत्य् एषां यापयेदुष्ट-पीनसम् ॥२७॥१९.२७ पूति-नासा शिरो-व्यथा १९.२७ पूतिर् नासा शिरो-व्यथा १९.२७ अष्टा-दशानाम् एतेषां १९.२७ यापयेदुष्ट-पीनसान् १९.२७ वर्जयेदुष्ट-पीनसम् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP