संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|उत्तरस्थान| अध्याय ५ उत्तरस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० उत्तरस्थान - अध्याय ५ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ५ Translation - भाषांतर भूतं जयेअ-हिंसेच्छं जप-होम-बलि-व्रतैः ।तपः-शील-समाधान-दान-ज्ञान-दयादिभिः ॥१॥५.१ भूतं जयेअ-हिंसोत्थं ५.१ तपः-शील-समाध्यान- हिङ्गु-व्योषाल-नेपाली-लशुनार्क-जटा-जटाः ।अजलोमी स-गोलोमी भूतकेशी वचा लता ॥२॥५.२ -लशुनार्क-जटामयाः ५.२ भूतकेशी-वचा-लताः ५.२ भूतकेशी वचा बला कुक्कुटी सर्पगन्धाख्या तिलाः काण-विकाणिके ।वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्य् अपि ॥३॥५.३ तिलाः काल-विकाणिके ५.३ तिलाः काण-विषाणिके ५.३ तथा काण-विकाणिके ५.३ वज्रप्रोक्ता वयःस्था वा स्रोतो-जाञ्जन-रक्षोघ्नं रक्षो-घ्नं चान्यऔषधम् ।खराश्व-श्वाविद्-उष्ट्रर्क्ष-गोधा-नकुल-शल्यकात् ॥४॥५.४ -गोधा-नकुल-मत्स्यकात् द्वीपि-मार्जार-गो-सिंह-व्याघ्र-सामुद्र-सत्-त्वतः ।चर्म-पित्त-द्वि-ज-नखा वर्गे ऽस्मिन् साधयेघृतम् ॥५॥पुराणम् अथ-वा तैलं नवं तत् पान-नस्ययोः ।अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने ॥६॥एभिश् च गुटिकां युञ्ज्याअञ्जने सावपीडने ।प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने ॥७॥५.७ अञ्जने सावपीडके प्रयोगो ऽयं ग्रहोन्मादान् सापस्माराञ् छमं नयेत् ।गजाह्वा-पिप्पली-मूल-व्योषामलक-सर्षपान् ॥८॥गोधा-नकुल-मार्जार-झष-पित्त-प्रपेषितान् ।नावनाभ्यङ्ग-सेकेषु विदधीत ग्रहापहान् ॥९॥५.९ -शश-पित्त-प्रपेषितान् ५.९ -ऋक्ष-पित्त-प्रपेषितान् सिद्धार्थक-वचा-हिङ्गु-प्रियङ्गु-रजनी-द्वयम् ।मञ्जिष्ठा श्वेत-कटभी वरा श्वेताद्रिकर्णिका ॥१०॥५.१० मञ्जिष्ठा-श्वेत-कटभी- ५.१० -वरा-श्वेताद्रिकर्णिकाः निम्बस्य पत्त्रं बीजं तु नक्तमाल-शिरीषयोः ।सुराह्वं त्र्य्-ऊषणं सर्पिर् गो-मूत्रे तैश् चतुर्-गुणे ॥११॥५.११ गो-मूत्रे च चतुर्-गुणे सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् ।ग्रहान् सर्वान् निहन्त्य् आशु विशेषाआसुरान् ग्रहान् ॥१२॥कृत्या-लक्ष्मी-विषोन्माद-ज्वरापस्मार-पाप्म च ।एभिर् एवौषधैर् बस्त-वारिणा कल्पितो ऽ-गदः ॥१३॥५.१३ -ज्वरापस्मार-पाप्म-नुत् पान-नस्याञ्जनालेप-स्नानोद्घर्षण-योजितः ।गुणैः पूर्व-वउद्दिष्टो राज-द्वारे च सिद्धि-कृत् ॥१४॥५.१४ स गुणैः पूर्व-वदिष्टो सिद्धार्थक-व्योष-वचाश्वगन्धा निशा-द्वयं हिङ्गु-पलाण्डु-कन्दः ।बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थ-वृक्षात् ॥१५॥५.१५ निशा-द्वयं हिङ्गु-पलाण्डु-कन्दम् ५.१५ फलं च कल्कश् च कपित्थ-वृक्षात् ५.१५ फलं च पुष्पं च कपित्थ-वृक्षात् ५.१५ फलं च वल्कश् च कपित्थ-वृक्षात् स-माणिमन्थं स-नतं स-कुष्ठं श्योणाक-मूलं किणिही सिता च ।बस्तस्य मूत्रेण सु-भावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥१६॥दुष्ट-व्रणोन्माद-तमो-निशान्धान् उद्बन्धकान् वारि-निमग्न-देहान् ।दिग्धाहतान् दर्पित-सर्प-दष्टांस् ते साधयन्त्य् अञ्जन-नस्य-लेपैः ॥१७॥५.१७ दुष्ट-व्रणोन्माद-तमो-निशान्ध्यम् ५.१७ उद्बद्धकान् वारि-निमग्न-देहान् ५.१७ तान् साधयन्त्य् अञ्जन-नस्य-लेपैः ५.१७ ते साधयन्त्य् अञ्जन-पान-लेपैः कार्पासास्थि-मयूर-पत्त्र-बृहती-निर्माल्य-पिण्डीतक-॥१८॥५.१८ कार्पासास्थि-मयूर-पिच्छ-बृहती-निर्माल्य-पिण्डीतक- -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोककैः ॥१८॥५.१८ -त्वग्-वांशी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः ५.१८ -त्वग्-वांशी-वृष-दंश-विण्-नख-वचा-केशाहि-निर्मोचनैः ५.१८ -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः नागेन्द्र-द्वि-ज-शृङ्ग-हिङ्गु-मरिचैस् तुल्यैः कृतं धूपनं ॥१८॥स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ज्वर-घ्नं परम् ॥१८॥५.१८ स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ग्रह-घ्नं परम् त्रि-कटुक-दल-कुङ्कुम-ग्रन्थिक-क्षार-सिंही-निशा-दारु-सिद्धार्थ-युग्माम्बु-शक्राह्व् अयैः ॥१९॥सित-लशुन-फल-त्रयोशीर-तिक्ता-वचा-तुत्थ-यष्टी-बला-लोहितैला-शिला-पद्मकैः ॥१९॥दधि-तगर-मधूक-सार-प्रियाह्वा-विषाख्या-विषा-तार्क्ष्य-शैलैः स-चव्यामयैः कल्कितैः ॥१९॥घृतम् अ-नवम् अ-शेष-मूत्रांश-सिद्धं मतं भूत-रावाह्वयं पानतस् तग्रह-घ्नं परम् ॥१९॥नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी-॥२०॥५.२० नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटला-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी--बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बु देन्द्राह्वयैः ॥२०॥५.२० -बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामृता-कोल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः गद-शुकतरु-पुष्प-बीजोग्र-यष्ट्य्-अद्रिकर्णी-निकुम्भाग्नि-बिल्वैः समैः कल्कितैर् मूत्र-वर्गेण सिद्धं घृतं ॥२०॥विधि-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ॥२०॥५.२० विधि-वन् निहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ५.२० चिर-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत-रावं स्मृतम् ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः ।दिनेषु बलि-होमादीन् प्रयुञ्जीत चिकित्सकः ॥२१॥स्नान-वस्त्र-वसा-मांस-मद्य-क्षीर-गुडादि च ।रोचते ययदा येभ्यस् तत् तेषाम् आहरेत् तदा ॥२२॥५.२२ स्नानं वस्त्रं वसा मांसं ५.२२ मद्यं क्षीर-गुडानि वा रत्नानि गन्ध-माल्यानि बीजानि मधु-सर्पिषी ।भक्ष्याश् च सर्वे सर्वेषां सामान्यो विधिर् इत्य् अयम् ॥२३॥५.२३ रक्तानि गन्ध-माल्यानि ५.२३ भक्षाश् च सर्वे सर्वेषां सुरर्षि-गुरु-वृद्धेभ्यः सिद्धेभ्यश् च सुरालये ।दिश्य् उत्तरस्यां तत्रापि देवायोपहरेबलिम् ॥२४॥पश्चिमायां यथा-कालं दैत्य-भूताय चत्वरे ।गन्धर्वाय गवां मार्गे स-वस्त्राभरणं बलिम् ॥२५॥पितृ-नाग-ग्रहे नद्यां नागेभ्यः पूर्व-दक्षिणे ।यक्षाय यक्षायतने सरितोर् वा समागमे ॥२६॥५.२६ पितृ-नाम-ग्रहे नद्यां चतुष्-पथे राक्षसाय भीमेषु गहनेषु च ।रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्म-रक्षसाम् ॥२७॥५.२७ भीमेषु गहनेषु वा शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते ।शुचि-शुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम् ॥२८॥५.२८ पश्चिमां दिशम् आश्रिते ५.२८ पश्चिमायां दिशि स्थिते दधि च्छत्त्रं च धवलं देवानां बलिर् इष्यते ।हिङ्गु-सर्षप-षड्ग्रन्था-व्योषैर् अर्ध-पलोन्मितैः ॥२९॥चतुर्-गुणे गवां मूत्रे घृत-प्रस्थं विपाचयेत् ।तत्-पान-नावनाभ्यङ्गैर् देव-ग्रह-विमोक्षणम् ॥३०॥नस्याञ्जनं वचा-हिङ्गु-लशुनं बस्त-वारिणा ।दैत्ये बलिर् बहु-फलः सोशीर-कमलोत्पलः ॥३१॥५.३१ नस्याञ्जने वचा-हिङ्गु- नागानां सुमनो-लाज-गुडापूप-गुडौदनैः ।परमान्न-मधु-क्षीर-कृष्ण-मृन्-नागकेसरैः ॥३२॥वचा-पद्म-पुरोशीर-रक्तोत्पल-दलैर् बलिः ।श्वेतपत्त्रं च लोध्रं च तगरं नाग-सर्षपाः ॥३३॥५.३३ वचा-पाठा-पुरोशीर- शीतेन वारिणा पिष्टं नावनाञ्जनयोर् हितम् ।यक्षाणां क्षीर-दध्य्-आज्य-मिश्रकौदन-गुग्गुलु ॥३४॥देवदारूत्पलं पद्मं उशीरं वस्त्र-काञ्चनम् ।हिरण्यं च बलिर् योज्यो मूत्राज्य-क्षीरम् एकतः ॥३५॥५.३५ उशीरं वस्त्र-चन्दनम् ५.३५ उशीरं वस्त्र-कम्बलम् सिद्धं समोन्मितं पान-नावनाभ्यञ्जने हितम् ।हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥३६॥५.३६ सिद्धं पलोन्मितं पान- निम्ब-पत्त्रं च बस्ताम्बु-कल्कितं नावनाञ्जनम् ।ब्रह्म-रक्षो-बलिः सिद्धं यवानां पूर्णम् आढकम् ॥३७॥५.३७ यवानां चूर्णम् आढकम् तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् ।गायत्री-विंशति-पल-क्वाथे ऽर्ध-पलिकैः पचेत् ॥३८॥५.३८ तोय-कुम्भं च पललं त्र्य्-ऊषण-त्रि-फला-हिङ्गु-षड्ग्रन्था-मिशि-सर्षपैः ।स-निम्ब-पत्त्र-लशुनैः कुडवान् सप्त सर्पिषः ॥३९॥गो-मूत्रे त्रि-गुणे पान-नस्याभ्यङ्गेषु तधितम् ।रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥४०॥५.४० गो-मूत्रे त्रि-गुणे सिद्धं ५.४० पानाभ्यङ्गेषु तधितम् ५.४० कुसुमं मिश्रकौदनः बलिः पक्वाम-मांसानि निष्पावा रुधिरोक्षिताः ।नक्तमाल-शिरीष-त्वङ्-मूल-पुष्प-फलानि च ॥४१॥५.४१ -मूलं पुष्पं फलानि च ५.४१ -मूले पुष्पं फलानि च तद्-वच कृष्ण-पाटल्या बिल्व-मूलं कटु-त्रिकम् ।हिङ्ग्व्-इन्द्रयव-सिद्धार्थ-लशुनामलकी-फलम् ॥४२॥नावनाञ्जनयोर् योज्यो बस्त-मूत्र-युतो ऽ-गदः ।एभिर् एव घृतं सिद्धं गवां मूत्रे चतुर्-गुणे ॥४३॥५.४३ बस्त-मूत्र-हृतो ऽ-गदः ५.४३ बस्त-मूत्र-द्रुतो ऽ-गदः रक्षो-ग्रहान् वारयते पानाभ्यञ्जन-नावनैः ।पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥४४॥मूलकं लवणं सर्पिः स-भूतौदन-यावकम् ।हरिद्रा-द्वय-मञ्जिष्ठा-मिशि-सैन्धव-नागरम् ॥४५॥५.४५ प्रभूतौदन-यावकम् ५.४५ प्राग्-भूतौदन-यावकम् ५.४५ -मिशि-सैन्धव-नागरैः हिङ्गु-प्रियङ्गु-त्रि-कटु-लशुन-त्रि-फला वचा ।पाटली-श्वेत-कटभी-शिरीष-कुसुमैर् घृतम् ॥४६॥५.४६ -लशुन-त्रि-फला-वचाः ५.४६ पटोली-श्वेत-कटभी- ५.४६ पाटला-श्वेत-कटभी- गो-मूत्र-पादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् ।बस्ताम्बु-पिष्टैस् तैर् एव योज्यम् अञ्जन-नावनम् ॥४७॥देवर्षि-पितृ-गन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् ।सर्पिः-पानादि मृद्व् अस्मिन् भैषज्यम् अवचारयेत् ॥४८॥ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् ।स-वैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः ॥४९॥ईश्वरं द्वा-दश-भुजं नाथम् आर्यावलोकितम् ।सर्व-व्याधि-चिकित्सां च जपन् सर्व-ग्रहान् जयेत् ॥५०॥५.५० सर्व-व्याधि-चिकित्सन्तं ५.५० सर्व-व्याधि-चिकित्सं च ५.५० सर्व-व्याधि-चिकित्सितं तथोन्मादान् अपस्मारान् अन्यं वा चित्त-विप्लवम् ।महा-विद्यां च मायूरीं शुचिं तं श्रावयेत् सदा ॥५१॥५.५१ अन्यान् वा चित्त-विभ्रमान् ५.५१ शुचिस् तं श्रावयेत् सदा भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश् च तद्-गणान् ।जपन् सिद्धांश् च तन्-मन्त्रान् ग्रहान् सर्वान् अपोहति ॥५२॥यचान्-अन्तरयोः किञ्-चिवक्ष्यते ऽध्याययोर् हितम् ।यचोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्-परम् ॥५३॥५.५३ यथोक्तम् इह तत् सर्वं N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP