प्रोच्यन्ते लिप्तिका भानाम् स्वभोगो अथ दशाहतः ।
भवन्त्य् अतीतधिष्ण्यानाम् भोगलिप्तायुता ध्रुवाः ॥१॥
अष्टार्णवाः शून्यकृताः पञ्चषष्टिर् नगेषवः ।
अष्टार्था अब्धयो अष्टागा अङ्गागा मनवस् तथा ॥२॥
कृतेषवो युगरसाः शून्यवाणा वियद्रसाः ।
खवेदाः सागरनगा गजागाः सागरर्तवः ॥३॥
मनवो अथ रसा वेदा वैश्वम् आप्यार्धभोगगम् ।
आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः ॥४॥
त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ।
स्वभोगतो वियन् नागाः षट्कृतिर् यमलाश्विनः ॥५॥
रन्ध्राद्रयः क्रमाद् एषाम् विक्षेपाः स्वाद् अपक्रमात् ।
दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव ॥६॥
सौम्ये रसाः खम् याम्ये अगाः सौम्ये खार्कास् त्रयोदश ।
दक्षिणे रुद्रयमलाः सप्तत्रिम्शद् अथोत्तरे ॥७॥
याम्य अध्यर्धत्रिककृता नव सार्धशरेषवः ।
उत्तरस्याम् तथा षष्टिस् त्रिम्शत् षट्त्रिम्शद् एव हि ॥८॥
दक्षिणे त्व् अर्धभागस् तु चतुर्विम्शतिर् उत्तरे ।
भागाः षड्विम्शतिः खम् च दास्रादीनाम् यथाक्रमम् ॥९॥
अशीतिभागैर् याम्यायाम् अगस्त्यो मिथुनान्तगः ।
विम्शे च मिथुनस्याम्शे मृगव्याधो व्यवस्थितः ॥१०॥
विक्षेपो दक्षिणे भागैः खार्णवैः स्वाद् अपक्रमात् ।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविम्शभागगौ ॥११॥
अष्टाभिस् त्रिम्शता चैव विक्षिप्ताव् उत्तरेण तौ ।
गोलम् लब्ध्वा परीक्षेत विक्षेपम् ध्रुवकम् स्फुटम् ॥१२॥
वृषे सप्तदशे भागे यस्य याम्यो अम्शकद्वयात् ।
विक्षेपो अभ्यधिको भिन्द्याद् रोहिण्याः शकतम् तु सः ॥१३॥
ग्रहवद् द्युनिशे भानाम् कुर्याद् दृक्कर्म पूर्ववत् ।
ग्रहमेलकवच् छेषम् ग्रहभुक्त्या दिनानि च ॥१४॥
एष्यो हीने गृहे योगो ध्रुवकाद् अधिके ततः ।
विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः ॥१५॥
फाल्गुन्योर् भाद्रपदयोस् तथैवाषाढयोर् द्वयोः ।
विशाखाश्विनिसौम्यानाम् योगतारोत्तरा स्मृता ॥१६॥
पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता ।
हस्तस्य योगतारा सा श्रविष्ठायाश् च पश्चिमा ॥१७॥
ज्येष्ठाश्रवणमैत्राणाम् बार्हस्पत्यस्य मध्यमा ।
भरण्याग्नेयपित्र्याणाम् रेवत्याश् चैव दक्षिणा ॥१८॥
रोहिण्यादित्यमूलानाम् प्राची सार्पस्य चैव हि ।
यथा प्रत्यवशेषाणाम् स्थूला स्याद् योगतारका ॥१९॥
पूर्वस्याम् ब्रह्महृदयाद् अम्शकैः पञ्चभिः स्थितः ।
प्रजापतिर् वृषान्ते असौ सौम्ये अष्टत्रिम्शदम्शकैः ॥२०॥
अपाम्वत्सस् तु चित्राया उत्तरे अम्शैस् तु पञ्चभिः ।
बृहत् किञ्चिद् अतो भागैर् आपः षड्भिस् तथोत्तरे ॥२१॥