सूर्य सिद्धांत - ग्रहयुत्यधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


ताराग्रहाणाम् अन्योन्यम् स्याताम् युद्धसमागमौ ।

समागमः शशाङ्केन सूर्येणास्तमनम् सह ॥१॥

शीघ्रे मन्दाधिके अतीतः सम्योगो भवितान्यथा ।

द्वयोः प्राग्यायिनोर् एवम् वक्रिणोस् तु विपर्ययात् ॥२॥

प्राग्यायिन्य् अधिके अतीतो वक्रिण्य् एष्यः समागमः ।

ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः ॥३॥

भुक्त्यन्तरेण विभजेद् अनुलोमविलोमयोः ।

द्वयोर् वक्रिण्य् अथैकस्मिन् भुक्तियोगेन भाजयेत् ॥४॥

लब्धम् लिप्तादिकम् शोध्यम् गते देयम् भविष्यति ।

विपर्ययाद् वक्रगत्योर् एकस्मिम्स् तु धनव्ययौ ॥५॥

समालिप्तौ भवेताम् तौ ग्रहौ भगणसम्स्थितौ ।

विवरम् तद्वद् उद्धृत्य दिनादिफलम् इष्यते ॥६॥

कृत्वा दिनक्षपामानम् तथा विक्षेपलिप्तिकाः ।

नतोन्नतम् साधयित्वा स्वकाल् लग्नवशात् तयोः ॥७॥

विषुवच्छाययाम्यस् तद्विक्षेपाद् द्वादशोद्धृतात् ।

फलम् स्वनतनाडीघ्नम् स्वदिनार्धविभाजितम् ॥८॥

लब्धम् प्राच्याम् ऋणम् सौम्याद् विक्षेपात् पश्चिमे धनम् ।

दक्षिणे प्राक्कपाले स्वम् पश्चिमे तु तथा क्षमः ॥९॥

सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः ।

विकलाः स्वम् ऋणम् क्रान्तिक्षेपयोर् भिन्नतुल्ययोः ॥१०॥

नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने ।

शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाव् इदम् स्मृतम् ॥११॥

तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस् ततः ।

दिक्तुल्ये त्व् अन्तरम् भेदे योगः शिष्टम् ग्रहान्तरम् ॥१२॥

कुजार्किज्ञामरेज्यानाम् त्रिम्शदर्धार्धवर्धिताः ।

विष्कम्भाश् चन्द्रकक्षायाम् भृगोः षष्टिर् उदाहृता ॥१३॥

त्रिचतुः कर्णयुत्याप्तास् ते द्विघ्नास् त्रिज्यया हताः ।

स्फुटाः स्वकर्णास् तिथ्याप्ता भवेयुर् मानलिप्तिकाः ॥१४॥

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ।

ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यते ॥१५॥

पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग् भ्रमसम्स्थितौ ।

ग्रहान्त्रेण विक्षिप्ताव् अधो हस्तनिखातगौ ॥१६॥

छायाकर्णौ ततो दद्याच् छायाग्राच् छङ्कुमूर्धगौ ।

छायाकर्णाग्रसम्योगे सम्स्थितस्य प्रदर्शयेत् ॥१७॥

स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यताम् इतौ ।

उल्लेखम् तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते ॥१८॥

युद्धम् अम्शुविमर्दाख्यम् अम्शुयोगे परस्परम् ।

अम्शाद् ऊने अपसव्याख्यम् युद्धम् एको अत्र चेद् अणुह् ॥१९॥

समागमो अम्शाद् अधिके भवतश् चेद् वलान्वितौ ।

अपसव्ये जितो युद्धे पिहितो अणुर् अदीप्तितान् ॥२०॥

रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः ।

उदक्स्थो दीप्तिमान् स्थूलो जयी याम्ये अपि यो बली ॥२१॥

आसन्नाव् अप्य् उभौ दीप्तौ भवतश् चेत् समागमः ।

स्वल्पौ द्वाव् अपि विध्वस्तौ भवेताम् कूटविग्रहौ ॥२२॥

उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।

शशाङ्केनैवम् एतेषाम् कुर्यात् सम्योगसाधनम् ॥२३॥

भावाभावाय लोकानाम् कल्पनेयम् प्रदर्शिता ।

स्वमार्गगाः प्रयान्त्य् एते दूरम् अन्योन्यम् आश्रिताः ॥२४॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP