सूर्य सिद्धांत - चंद्रग्रहणाधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


सार्धानि षट्सहस्राणि योजनानि विवस्वतः ।

विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम् ॥१॥

स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ ।

रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः ॥२॥

शशाङ्ककक्षागुणितो भाजितो वा अर्ककक्षया ।

विष्कम्भश् चन्द्रकक्षायाम् तिथ्याप्ता मानलिप्तिका ॥३॥

स्फुटेन्दुभुक्तिर् भूव्यासगुणिता मध्ययोद्धृता ।

लब्धम् सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥४॥

मध्येन्दुव्यासगुणितम् मध्यार्कव्यासभाजितम् ।

विशोध्य लब्धम् सूच्याम् तु तमो लिप्तास् तु पूर्ववत् ॥५॥

भानोर् भार्धे महीच्छाया तत्तुल्ये अर्कसमे अपि ।

शशाङ्कपाते ग्रहणम् कियद्भागाधिकोनके ॥६॥

तुल्यौ राश्यादिभिः स्याताम् अमावास्यान्तकालिकौ ।

सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकौ समौ ॥७॥

गतैष्यपर्वनाडीनाम् स्वफलेनोनसम्युतौ ।

समलिप्तौ भवेताम् तौ पातस् तात्कालिको अन्यथा ॥८॥

छादको भास्करस्येन्दुर् अधःस्थो घनवद् भवेत् ।

भूच्छायाम् प्राङ्मुखश् चन्द्रो विशत्य् अस्य भवेद् असौ ॥९॥

तात्कालिकेन्दुविक्षेपम् छाद्यच्छादकमानयोः ।

योगार्धात् प्रोज्झ्य यच्छेषम् तावच् छन्नम् तद् उच्यते ॥१०॥

यद् ग्राह्यम् अधिके तस्मिन् सकलम् न्यूनम् अन्यथा ।

योगार्धाद् अधिके न स्याद् विक्षेपे ग्राससम्भवः ॥११॥

ग्राह्यग्राहकसम्योगवियोगौ दलितौ पृथक् ।

विक्षेपवर्गहीनाभ्याम् तद्वर्गाभ्याम् उभे पदे ॥१२॥

षष्ठ्या सम्गुण्य सूर्येन्द्वोर् भुक्त्यन्तरविभाजिते ।

स्याताम् स्थितिविमर्दार्धे नाडिकादिफले तयोः ॥१३॥

स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्ठिभाजिताः ।

लिप्तादि प्रग्रहे शोध्यम् मोक्षे देयम् पुनः पुनः ॥१४॥

तद्विक्षेपैः स्थितिदलम् विमर्दार्धे तथा असकृत् ।

सम्साध्यम् अन्यथा पाते तल्लिप्तादिफलम् स्वकम् ॥१५॥

स्फुटतिथ्यवसाने तु मध्यग्रहणम् आदिशेत् ।

स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस् तु सम्युते ॥१६॥

तद्वद् एव विमर्दार्धनाडिकाहीनसम्युते ।

निमीलनोन्मीलनाख्ये भवेताम् सकलग्रहे ॥१७॥

इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः ।

भुक्त्यन्तरम् समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः ॥१८॥

भानोर् ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसम्गुणाः ।

स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृता ॥१९॥

क्षेपो भुजस् तयोर् वर्गयुतेर् मूलम् श्रवस् तु तत् ।

मानयोगार्धतः प्रोज्झ्य ग्रासस् तात्कालिको भवेत् ॥२०॥

मध्यग्रहणतश् चोर्ध्वम् इष्टनाडीर् विशोधयेत् ।

स्थित्यर्धान् मौक्षिकाच् छेषम् प्राग्वच् च्छेषम् तु मौक्षिके ॥२१॥

ग्राह्यग्राहकयोगार्धाच् छोध्याः स्वच्छन्नलिप्तिकाः ।

ताद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिम् पदम् ॥२२॥

कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः ।

मध्येन लिप्तास् तन्नाड्यः स्थितिवद् ग्रासनाडिकाः ॥२३॥

नतज्या अक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।

वलनाम्शा सौम्ययाम्याः पूर्वापरकपालयोः ॥२४॥

राशित्रययुताद् ग्राह्यात् क्रान्त्यम्शैर् दिक्समैर् युताः ।

भेदे अन्तराज् ज्या वलना सप्तत्यङ्गुलभाजिता ॥२५॥

सोन्नतम् दिनमध्यार्धम् दिनार्धाप्तम् फलेन तु ।

छिन्द्याद् विक्षेपमानानि तान्य् एषाम् अङ्गुलानि तु ॥२६॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP