सूर्य सिद्धांत - मध्यमाधिकारः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।

समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥१॥

अल्पावशिष्टे तु कृते मयो नाम महासुरः ।

रहस्यम् परमम् पुण्यम् जिज्ञासुर् ज्ञानम् उत्तमम् ॥२॥

वेदाङ्गम् अग्र्यम् अखिलम् ज्योतिषाम् गतिकारणम् ।

आराधयन् विवस्वन्तम् तपस् तेपे सुदुश्चरम् ॥३॥

तोषितस् तपसा तेन प्रीतस् तस्मै वरार्थिने ।

ग्रहाणाम् चरितम् प्रादान् मयाय सविता स्वयम् ॥४॥

विदितस् ते मया भावस् तोषितस् तपसा ह्य् अहम् ।

दद्याम् कालाश्रयम् ज्ञानम् ग्रहाणाम् चरितम् महत् ॥५॥

न मे तेजःसहः कश्चिद् आख्यातुम् नास्ति मे क्षणः ।

मदम्शः पुरुषो अयम् ते निःशेषम् कथयिष्यति ॥६॥

इत्य् उक्त्वान्तर्दधे देवः समादिश्याम्शम् आत्मनः ।

स पुमान् मयम् आहेदम् प्रणतम् प्राञ्जलिस्थितम् ॥७॥

शृणुष्वैकमनाः पूर्वम् यद् उक्तम् ज्ञानम् उत्तमम् ।

युगे युगे महर्षीणाम् स्वयम् एव विवस्वता ॥८॥

शास्त्रम् आद्यम् तद् एवेदम् यत् पूर्वम् प्राह भास्करः ।

युगानाम् परिवर्तेन कालभेदो अत्र केवलः ॥९

लोकानाम् अन्तकृत् कालः कालो अन्यः कलनात्मकः ।

स द्विधा स्थूलसूक्ष्मत्वान् मूर्तश् चामूर्त उच्यते ॥१०॥

प्राणादिः कथितो मूर्तस् त्रुट्याद्यो अमूर्तसम्ज्ञकः ।

षड्भिः प्राणैर् विनाडी स्यात् तत्षष्ट्या नाडिका स्मृता ॥११॥

नाडीषष्ट्या तु नाक्षत्रम् अहोरात्रम् प्रकीर्तितम् ।

तत्त्रिम्शता भवेन् मासः सावनो अर्कोदयैस् तथा ॥१२॥

ऐन्दवस् तिथिभिस् तद्वत् सम्क्रान्त्या सौर उच्यते ।

मासैर् द्वादशभिर् वर्षम् दिव्यम् तद् अह उच्यते ॥१३॥

सुरासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् ।

तत्षष्टिः षड्गुणा दिव्यम् वर्षम् आसुरम् एव च ॥१४॥

तद्द्वादशसहस्राणि चतुर्युगम् उदाहृतम् ।

सूर्याब्दसम्ख्यया द्वित्रिसागरैर् अयुताहतैः ॥१५॥

सन्ध्यासन्ध्याम्शसहितम् विज्ञेयम् तच्चतुर्युगम् ।

कृतादीनाम् व्यवस्थेयम् धर्मपादव्यवस्थया ॥१६॥

युगस्य दशमो भागश् चतुस्त्रिद्व्येकसङ्गुणः ।

क्रमात् कृतयुगादीनाम् षष्ठाम्शः सन्ध्ययोः स्वकः ॥१७॥

युगानाम् सप्ततिः सैका मन्वन्तरम् इहोच्यते ।

कृताब्दसम्ख्यास् तस्यान्ते सन्धिः प्रोक्तो जलप्लवः ॥१८॥

ससन्धयस् ते मनवः कल्पे ज्ञेयास् चतुर्दश ।

कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ॥१९॥

इत्थम् युगसहस्रेण भूतसम्हारकारकः ।

कल्पो ब्राह्मम् अहः प्रोक्तम् शर्वरी तस्य तावती ॥२०॥

परमायुः शतम् तस्य तयाहोरात्रसम्ख्यया ।

आयुषो अर्धमितम् तस्य शेषकल्पो अयम् आदिमः ॥२१॥

कल्पाद् अस्माच् च मनवः षड् व्यतीताः ससन्धयः ।

वैवस्वतस्य च मनोर् युगानाम् त्रिघनो गतः ॥२२॥

अष्टाविम्शाद् युगाद् अस्माद् यातम् एतत् कृतम् युगम् ।

अतः कालम् प्रसम्ख्याय सम्ख्याम् एकत्र पिण्डयेत् ॥२३॥

ग्रहर्क्षदेवदैत्यादि सृजतो अस्य चराचरम् ।

कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः ॥२४॥

पश्चाद् व्रजन्तो अतिजवान् नक्षत्रैः सततम् ग्रहाः ।

जीयमानास् तु लम्बन्ते तुल्यम् एव स्वमार्गगाः ॥२५॥

प्राग्गतित्वम् अतस् तेषाम् भगणैः प्रत्यहम् गतिः ।

परिणाहवशाद् भिन्ना तद्वशाद् भानि भुञ्जते ॥२६॥

शीघ्रगस् तान्य् अथाल्पेन कालेन महताल्पगः ।

तेषाम् तु परिवर्तेन पौष्णान्ते भगणः स्मृतः ॥२७॥

विकलानाम् कला षष्ट्या तत्षष्ट्या भाग उच्यते ।

तत्त्रिम्शता भवेद् राशिर् भगणो द्वादशैव ते ॥२८॥

युगे सूर्यज्ञशुक्राणाम् खचतुष्करदार्णवाः ।

कुजार्किगुरुशीघ्राणाम् भगणाः पूर्वयायिनाम् ॥२९॥

इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः ।

दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु ॥३०॥

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः ।

बृहस्पतेः खदस्राक्षिवेदषड्वह्नयस् तथा ॥३१॥

सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः ।

शनेर् भुजङ्गषट्पञ्चरसवेदनिशाकराः ॥३२॥

चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे ।

वामम् पातस्य वस्वग्नियमाश्विशिखिदस्रकाः ॥३३॥

भानाम् अष्टाक्षिवस्वद्रित्रिद्विद्व्यष्टशरेन्दवः ।

भोदया भगणैः स्वैः स्वैर् ऊनाः स्वस्वोदया युगे ॥३४॥

भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम् ।

रविमासोनितास् ते तु शेषाः स्युर् अधिमासकाः ॥३५॥

सावहाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ।

उदयाद् उदयम् भानोर् भूमिसावनवासरः ॥३६॥

वसुद्व्यष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे ।

चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः ॥३७॥

षड्वह्नित्रिहुताशाङ्कतिथयश् चाधिमासकाः ।

तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः ॥३८॥

खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः ।

भवन्ति भोदया भानुभगणैर् ऊनिताः क्वहाः ॥३९॥

अधिमासोनरात्र्यार्क्षचान्द्रसावनवासराः ।

एते सहस्रगुणिताः कल्पे स्युर् भगणादयः ॥४०॥

प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः ।

कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥४१॥

खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः ।

गो अग्नयः शनिमन्दस्य पातानाम् अथ वामतः ॥४२॥

मनुदस्रास् तु कौजस्य बौधस्याष्टाष्टसागराः ।

कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश् च तथा भृगोस् ॥४३॥

शनिपातस्य भगणाः कल्पे यमरसर्तवः ।

भगणाः पूर्वम् एवात्र प्रोक्ताश् चन्द्रोच्चपातयोः ॥४४॥

षण्मनूनाम् तु सम्पीड्य कालम् तत्सन्धिभिः सह ।

कल्पादिसन्धिना सार्धम् वैवस्वतमनोस् तथा ॥४५॥

युगानाम् त्रिघनम् यातम् तथा कृतयुगम् त्व् इदम् ।

प्रोज्झ्य सृष्टेस् ततः कालम् पूर्वोक्तम् दिव्यसम्ख्यया ॥४६॥

सूर्याब्दसम्ख्यया ज्ञेयाः कृतस्यान्ते गता अमी ।

खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः ॥४७॥

अत ऊर्ध्वम् अमी युक्ता गतकालाब्दसम्ख्यया ।

मासीकृता युता मासैर् मधुशुक्लादिभिर् गतैः ॥४८॥

पृथक्स्थास् ते अधिमासघ्नाः सूर्यमासविभाजिताः ।

लब्धाधिमासकैर् युक्ता दिनीकृत्य दिनान्विताः ॥४९॥

द्विष्ठास् तिथिक्षयाभ्यस्ताश् चान्द्रवासरभाजिताः ।

लब्धोनरात्रिरहिता लङ्कायाम् आर्धरात्रिकः ॥५०॥

सावनो द्युगणः सूर्याद् दिनमासाब्दपास् ततः ।

सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः ॥५१॥

मासाब्ददिनसम्ख्याप्तम् द्वित्रिघ्नम् रूपसम्युतम् ।

सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षौ ॥५२॥

यथा स्वभगनाभ्यस्तो दिनराशिः कुवासरैः ।

विभाजितो मध्यगत्या भगणादिर् ग्रहो भवेत् ॥५३॥

एवम् स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः ।

विलोमगतयः पातास् तद्वच् चक्राद् विशोधिताः ॥५४॥

द्वादशघ्ना गुरोर् याता भगणा वर्तमानकैः ।

राशिभिः सहिताः शुद्धाः षष्ट्या स्युर् विजयादयः ॥५५॥

विस्तरेणैतद् उदितम् सम्क्षेपाद् व्यावहारिकम् ।

मध्यमानयनम् कार्यम् ग्रहाणाम् इष्टतो युगात् ॥५६॥

अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः ।

विना तु पातमन्दोच्चान् मेषादौ तुल्यताम् इताः ॥५७॥

मकरादौ शशाङ्कोच्चम् तत्पातस् तु तुलादिगः ।

निरम्शत्वम् गताश् चान्ये नोक्तास् ते मन्दचारिणः ॥५८॥

योजनानि शतान्य् अष्टौ भूकर्णो द्विगुणानि तु ।

तद्वर्गतो दशगुणात् पदम् भूपरिधिर् भवेत् ॥५९॥

लम्बज्याघ्नस् त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः ।

तेन देशान्तराभ्यस्ता ग्रहभुक्तिर् विभाजिता ॥६०॥

कलादि तत् फलम् प्राच्याम् ग्रहेभ्यः परिशोधयेत् ।

रेखाप्रतीचीसम्स्थाने प्रक्षिपेत् स्युः स्वदेशजा ॥६१॥

राक्षसालयदेवौकःशैलयोर् मध्यसूत्रगाः ।

रोहीतकम् अवन्ती च यथा सन्निहितम् सरः ॥६२॥

अतीत्योन्मीलनाद् इन्दोः पश्चात् तद्गणितागतात् ।

यदा भवेत् तदा प्राच्याम् स्वस्थानम् मध्यतो भवेत् ॥६३॥

अप्राप्य च भवेत् पश्चाद् एवम् वापि निमीलनात् ।

तयोर् अन्तरनाडीभिर् हन्याद् भूपरिधिम् स्फुटम् ॥६४॥

षष्ट्या विभज्य लब्धैस् तु योजनैः प्राग् अथापरैः ।

स्वदेशः परिधौ ज्ञेयः कुर्याद् देशान्तरम् हि तैः ॥६५॥

वारप्रवृत्तिः प्राग्देशे क्षपार्धे अभ्यधिके भवेत् ।

तद्देशान्तरनाडीभिः पश्चाद् ऊने विनिर्दिशेत् ॥६६॥

इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम् ।

गते शोध्यम् युतम् गम्ये कृत्वा तात्कालिको भवेत् ॥६७॥

भचक्रलिप्ताशीत्यम्शम् परमम् दक्षिणोत्तरम् ।

विक्षिप्यते स्वपातेन स्वक्रान्त्यन्ताद् अनुष्णगुः ॥६८॥

तन्नवाम्शम् द्विगुणितम् जीवस् त्रिगुणितम् कुजः ।

बुधशुक्रार्कजाः पातैर् विक्षिप्यन्ते चतुर्गुणम् ॥६९॥

एवम् त्रिघनरन्ध्रार्करसार्कार्का दशाहताः ।

चन्द्रादीनाम् क्रमाद् उक्ता मध्यविकेषेपलिप्तिकाः ॥७०॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP