मध्यलग्नसमे भानौ हरिजस्य न सम्भवः ।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेर् अपि ॥१॥
देशकालविशेषेण यथावनतिसम्भवः ।
लम्बनस्यापि पूर्वान्यदिग्वशाच् च तथोच्यते ॥२॥
लग्नम् पर्वान्तनाडीनाम् कुर्यात् स्वैर् उदयासुभिः ।
तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ॥३॥
तदा लङ्कोदयैर् लग्नम् मध्यसम्ज्ञम् यथोदितम् ।
तत्क्रान्त्यक्षाम्शसम्योगो दिक्साम्ये अन्तरम् अन्यथा ॥४॥
शेषम् नताम्शास् तन्मौर्वी मध्यज्या साभिधीयते ।
मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितम् फलम् ॥५॥
मध्यज्यावर्गविश्लिष्टम् दृक्क्षेपः शेषतः पदम् ।
तत्त्रिज्यावर्गविश्लेषान् मूलम् शङ्कुः स दृग्गतिः ॥६॥
नताम्शबाहुकोटिज्ये अस्फुटे दृक्क्षेपदृग्गती ।
एकज्यार्धगतश् छेदो लब्धम् दृग्गतिजीवया ॥७॥
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ।
रवीन्द्वोर् लम्बनम् ज्ञेयम् प्राक्पश्चाद् घटिकादिकम् ॥८॥
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् ।
धनम् ऊने असकृत् कर्म यावत् सर्वम् स्थिरीभवेत् ॥९॥
दृक्क्षेपः शीततिग्माम्श्वोर् मध्यभुक्त्यन्तराहतः ।
तिथिघ्नत्रिज्यया भक्तो लब्धम् सावनतिर् भवेत् ॥१०॥
दृक्क्षेपात् सप्ततिहृताद् भवेद् वावनतिः फलम् ।
अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ॥११॥
मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा ।
सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा ॥१२॥
तया स्थितिविमर्दार्धग्रासाद्यम् तु यथोदितम् ।
प्रमाणम् वलनाभीष्टग्रासादि हिमरश्मिवत् ॥१३॥
स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्या (?)न्तलाल् लम्बनम् पुनः ।
ग्रासमोक्षोद्भवम् साध्यम् तन्मध्यहरिजान्तरम् ॥१४॥
प्राक्कपाले अधिकम् मध्याद् भवेत् प्राग्रहणम् यदि ।
मौक्षिकम् लम्बनम् हीनम् पश्चार्धे तु विपर्ययः ॥१५॥
तदा मोक्षस्थितिदले देयम् प्रग्रहणे तथा ।
हरिजान्तरकम् शोध्यम् यत्रैतत् स्याद् विपर्ययः ॥१६॥
एतद् उक्तम् कपालैक्ये तद्भेदे लम्बनैकता ।
स्वे स्वे स्थितिदले योज्या विमर्दार्धे अपि चोक्तवत् ॥१७॥