न छेद्यकम् ऋते यस्माद् भेदा ग्रहणयोः स्फुटाः ।
ज्ञायन्ते तत् प्रवक्ष्यामि छेद्यकज्ञानम् उत्तमम् ॥१॥
सुसाधितायाम् अवनौ बिन्दुम् कृत्वा ततो लिखेत् ।
सप्तवर्गाङ्गुलेनादौ मण्डलम् वलनाश्रितम् ॥२॥
ग्राह्यग्राहकयोगार्धसम्मितेन द्वितीयकम् ।
मण्डलम् तत् समासाख्यम् ग्राह्यार्धेन तृतीयकम् ॥३॥
याम्योत्तराप्राच्यपरासाधनम् पूर्ववद् दिशाम् ।
प्राग् इन्दोर् ग्रहणम् पश्चान् मोक्षो अर्कस्य विपर्ययात् ॥४॥
यथादिशम् प्राग्रहणम् वलनम् हिमदीधितेः ।
मौक्षिकम् तु विपर्यस्तम् विपरीतम् इदम् रवेः ॥५॥
वलनाग्रान् नयेन् मध्यम् सूत्रम् यद्य् अत्र सम्स्पृशेत् ।
तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ ॥६॥
विक्षेपाग्रात् पुनः सूत्रम् मध्यबिन्दुम् प्रवेशयेत् ।
तद्ग्राह्यबिन्दुसम्स्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत् ॥७॥
नित्यशो अर्कस्य विक्षेपाः परिलेखे यथादिशम् ।
विपरीताः शशाङ्कस्य तद्वशाद् अथ मध्यमम् ॥८॥
वलनम् प्राङ्मुखम् देयम् तद्विक्षेपैकता यदि ।
भेदे पश्चान् मुखम् देयम् इन्दोर् भानोर् विपर्ययात् ॥९॥
वलनाग्रात् पुनः सूत्रम् मध्यबिन्दुम् प्रवेशयेत् ।
मध्यसूत्रेण विक्षेपम् वलनाभिमुखम् नयेत् ॥१०॥
विक्षेपाग्राल् लिखेद् वृत्तम् ग्राहकार्धेन तेन यत् ।
ग्राह्यवृत्तम् समाक्रान्तम् तद्ग्रस्तम् तमसा भवेत् ॥११॥
छेद्यकम् लिखता भूमौ फलके वा विपश्चिता ।
विपर्ययो दिशाम् कार्यः पूर्वापरकपालयोः ॥१२॥
स्वच्छत्वाद् द्वादशाम्शो अपि ग्रस्तश् चन्द्रस्य दृश्यते ।
लिप्तात्रयम् अपि ग्रस्तम् तीक्ष्णत्वान् न विवस्वतः ॥१३॥
स्वसम्ज्ञितास् त्रयः कार्या विक्षेपाग्रेषु बिन्दवः ।
तत्र प्राङ्मध्ययोर् मध्ये तथा मौक्षिकमध्ययोः ॥१४॥
लिखेन् मत्स्यौ तयोर् मध्यान् मुखपुच्छविनिःसृतम् ।
प्रसार्य सूत्रद्वितयम् तयोर् यत्र युतिर् भवेत् ॥१५॥
तत्र सूत्रेण विलिखेच् चापम् बिन्दुत्रयस्पृशा ।
स पन्था ग्राहकस्योक्ता येनासौ सम्प्रयास्यति ॥१६॥
ग्राह्यग्राहकयोगार्धात् प्रोज्झ्येष्टग्रासम् आगतम् ।
अवशिष्टाङ्गुलसमाम् शलाकाम् मध्यबिन्दुतः ॥१७॥
तयोर् मार्गोन्मुखीम् दद्याद् ग्रासतः प्राग्ग्रहाश्रिताम् ।
विमुञ्चतो मोक्षदिशि ग्राहकाध्वानम् एव सा ॥१८॥
स्पृशेद् यत्र ततो वृत्तम् ग्राहकार्धेन सम्लिखेत् ।
तेन ग्राह्यम् यदाक्रान्तम् तत् तमोग्रस्तम् आदिशेत् ॥१९॥
मानान्तरार्धेन मिताम् शलाकाम् ग्रासदिङ्मुखीम् ।
निमीलनाख्याम् दद्यात् सा तन्मार्गे यत्र सम्स्पृशेत् ॥२०॥
ततो ग्राहकखण्डेन प्राग्वन् मण्डलम् आलिखेत् ।
तद्ग्राह्यमण्डलयुतिर् यत्र तत्र निमीलनम् ॥२१॥
एवम् उन्मीलने मोक्षदिङ्मुखीम् सम्प्रसारयेत् ।
विलिखेन् मण्डलम् प्राग्वद् उन्मीलनम् अथोक्तवत् ॥२२॥
अर्धाद् ऊने सधूम्रम् स्यात् कृष्णम् अर्धाधिकम् भवेत् ।
विमुञ्चतः कृष्णताम्रम् कपिलम् सकलग्रहे ॥२३॥
रहस्यम् एतद् देवानाम् न देयम् यस्य कस्यचित् ।
सुपरीक्षितशिष्याय देयम् वत्सरवासिने ॥२४॥