वाक्यकांड - भाग १०
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते ।
विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥४५१॥
चिङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु ।
तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते ॥४५२॥
फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।
असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥४५३॥
निवृतभेदा सर्वैव क्रियाख्याते ऽभिधीयते ।
श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥४५४॥
अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते ।
ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥४५५॥
सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया ।
प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥४५६॥
देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते ।
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥४५७॥
उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते ।
प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥४५८॥
एकं ग्रहणवाक्यं च सामान्येनाभिधीयते ।
कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥४५९॥
यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ ।
नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन ॥४६०॥
एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् ।
योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥४६१॥
क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते ।
सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥४६२॥
कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु ।
प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥४६३॥
एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥४६४॥
अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः ।
प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥४६५॥
अक्षिणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता ।
एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥४६६॥
द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥४६७॥
क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते ।
क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥४६८॥
भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते ।
यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥४६९॥
अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः ।
तस्यावयवधर्मेण समुदायो ऽनुगम्यते ॥४७०॥
भेदनिर्वचने त्व् अस्य प्रत्येदं वा समाप्यते ।
श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥४७१॥
तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥४७२॥
द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् ।
अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥४७३॥
अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः ।
उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥४७४॥
भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥४७५॥
एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः ।
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥४७६॥
अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् ।
अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥४७७॥
आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते ।
लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥४७८॥
संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥४७९॥
तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः ।
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥४८०॥
प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान् ।
संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥४८१॥
कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना ।
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥४८२॥
अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् ।
तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः ॥४८३॥
वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥४८४॥
यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥४८५॥
पर्वताद् आगमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥४८६॥
न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वम् च दर्शनम् ।
प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥४८७॥
वर्त्मनाम् अत्र केषाम् चिद् वस्तुमात्रम् उदाहृतम् ।
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥४८८॥
प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः ।
कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥४८९॥
तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥४९०॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP