संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ९ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ९ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ९ Translation - भाषांतर एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥४०१॥नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥४०२॥विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः ।अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥४०३॥यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते ।तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥४०४॥क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः ।अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥४०५॥बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिषु ।यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥४०६॥आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् ।स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने ॥४०७॥अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् ।नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥४०८॥तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः ।अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥४०९॥प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते ।विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥४१०॥नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः ।न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन ॥४११॥पदरूपम् च यद् वाक्यम् अस्तित्वोपनिबन्धनम् ।कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥४१२॥यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते ।पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते ॥४१३॥यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते ।प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥४१४॥पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः ।संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥४१५॥अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने ।आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥४१६॥आधारे नियमाभावात् तदाक्षेपो न विद्यते ।सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥४१७॥क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना ।प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥४१८॥अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् ।प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥४१९॥स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥४२०॥अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः ।अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥४२१॥अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते ।अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥४२२॥पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥४२३॥तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥४२४॥संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते ।नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥४२५॥दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् ।वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥४२६॥अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥४२७॥क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥४२८॥सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा ।क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥४२९॥आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने ।विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥४३०॥प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते ।साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥४३१॥प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् ।अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥४३२॥पचिक्रियां करोतीति कर्मत्वेनाभिधीयते ।पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥४३३॥यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः ।अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥४३४॥आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते ।आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥४३५॥संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् ।नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥४३६॥सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् ।अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥४३७॥वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः ।न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥४३८॥संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥४३९॥लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥४४०॥वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः ।व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥४४१॥पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् ।पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥४४२॥अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥४४३॥अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते ।एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥४४४॥संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते ।बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥४४५॥प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः ।अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥४४६॥बहुश्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता ।तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥४४७॥एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥४४८॥तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥४४९॥इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते ।अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥४५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP