वाक्यकांड - भाग ७
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते ।
अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः ॥३०१॥
यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते ।
तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते ॥३०२॥
अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने ।
प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥३०३॥
क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् ।
क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥३०४॥
यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते ।
क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् ॥३०५॥
आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् ।
गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥३०६॥
निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम् ।
प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते ॥३०७॥
ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि ।
ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥३०८॥
दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् ।
जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥३०९॥
गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।
ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥३१०॥
विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते ।
सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥३११॥
काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥३१२॥
प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा ।
अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥३१३॥
वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥३१४॥
संसर्गो विप्रयोगश् च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥३१५॥
सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥३१६॥
भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु ।
नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥३१७॥
नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।
शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥३१८॥
या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।
कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥३१९॥
विधीयमानं यत् क्रर्म दृष्टादृष्टप्रयोजनम् ।
स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥३२०॥
व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥३२१॥
न संविधानां कृत्वापि प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥३२२॥
सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः ।
नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥३२३॥
क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥३२४॥
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।
सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥३२५॥
वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् ।
अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥३२६॥
आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते ॥३२७॥
शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया ।
अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते ॥३२८॥
[थिस् वेर्से इस् ओन्ल्य् इन् ऋऔ] अपरे तु पदस्यैव तम् अर्थं प्रतिजानते ।
शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥३२९॥
यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते ।
तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥३३०॥
क्रियार्थोपपदेश्व् एवं स्थानिनां गम्यते क्रिया ।
वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥३३१॥
तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥३३२॥
प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति ।
नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥३३३॥
असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने ।
स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥३३४॥
यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ ।
बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥३३५॥
तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः ।
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥३३६॥
स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते ।
अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥३३७॥
पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः ।
नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥३३८॥
नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना ।
यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥३३९॥
तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते ।
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥३४०॥
न चापि रूपात् संदेहे वाचकत्वं निवर्तते ।
अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥३४१॥
सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।
संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥३४२॥
क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥३४३॥
वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् ।
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥३४४॥
व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥३४५॥
न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः ।
तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥३४६॥
अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥३४७॥
उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् ।
तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥३४८॥
ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना ।
माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥३४९॥
अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः ।
एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥३५०॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP