वाक्यकांड - भाग १
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
आख्यातं शब्दसंघातो जातिः संघातवर्तिनी ।
एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥१॥
पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि ।
वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥२॥
निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥३॥
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥४॥
संबोधनपदं यच् च तत् क्रियाया विशेषकम् ।
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥५॥
यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् ।
तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥६॥
यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते ।
दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥७॥
चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः ।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥८॥
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥९॥
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥१०॥
वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते ।
पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥११॥
भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः ।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥१२॥
शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति ।
विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥१३॥
ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः ॥१४॥
सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते ।
उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥१५॥
अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् ।
एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥१६॥
विशेशशब्दाः केषां चित् सामान्यप्रतिरूपकाः ।
शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥१७॥
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु ॥१८॥
स व्यक्तः क्रमवाञ् छब्द उपांशु यम् अधीयते ।
अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥१९॥
यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥२०॥
वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः ।
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥२१॥
नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।
एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥२२॥
चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा ।
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥२३॥
न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति ।
व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥२४॥
ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता ।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥२५॥
क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् ।
तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥२६॥
भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् ।
व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥२७॥
पदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥२८॥
भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् ।
तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥२९॥
यद् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् ।
तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥३०॥
अर्थभागैस् तथा तेषाम् अन्तरो ऽर्थः प्रकाश्यते ।
एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥३१॥
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।
अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥३२॥
तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥३३॥
संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने ।
पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥३४॥
राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।
वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥३५॥
यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते ।
कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥३६॥
वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने ।
केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥३७॥
उपादायापि ये हेयास् तान् उपायान् प्रचक्षते ।
उपायानां च नियमो नावश्यम् अवतिष्ठते ॥३८॥
अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते ।
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥३९॥
सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा ।
वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥४०॥
केवलेन पदेनार्थो यावान् एवाभिधीयते ।
वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥४१॥
संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते ।
वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥४२॥
स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते ।
जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥४३॥
सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः ।
तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥४४॥
भेदान् आकाङ्क्षतस् तस्य या परिप्लवमामता ।
अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥४५॥
कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते ।
असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥४६॥
नियतं साधने साध्यं क्रिया नियतसाधना ।
स संनिधानमात्रेण नियमः संप्रकाशते ॥४७॥
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।
साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥४८॥
सन्त एव विशेषा ये पदार्थेष्व् अविभाविताः ।
ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥४९॥
शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥५०॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP