वाक्यकांड - भाग ३

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् ।
भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥१०१॥

प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा ।
व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥१०२॥

अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा ।
तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥१०३॥

संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥१०४॥

इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।
आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥१०५॥

अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि ।
रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥१०६॥

ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु ।
गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥१०७॥

उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् ।
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥१०८॥

परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि ।
तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥१०९॥

सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् ।
तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥११०॥

एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।
यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥१११॥

यथा पदसरूपाणां वाक्यानां संभवः पृथक् ।
तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥११२॥

अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।
यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥११३॥

तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् ।
क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥११४॥

आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने ।
प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥११५॥

अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥११६॥

अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने ॥११७॥

अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते ।
अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥११८॥

अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥११९॥

प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥१२०॥

के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः ।
अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥१२१॥

जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी ।
न तद्व्यक्तिगतान् भेदाञ् जातिशब्दो ऽवलम्बते ॥१२२॥

घटादीनां न चाकारान् प्रत्याययति वाचकः ।
वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥१२३॥

क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।
प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥१२४॥

नियतास् तु प्रयोगा ये नियतं यच् च साधनम् ।
तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥१२५॥

समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः ।
असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥१२६॥

असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् ।
शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् ॥१२७॥

सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यता ।
शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥१२८॥

तयोर् अपृथगात्मत्वे रूढिर् अव्यभिचारिणी ।
किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥१२९॥

लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥१३०॥

अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥१३१॥

यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥१३२॥

आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः ।
एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा ॥१३३॥

यथेन्द्रियं संनिपतद् वैचित्रेणोपदर्शकं ।
तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥१३४॥

वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥१३५॥

एकस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् ।
कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥१३६॥

एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः ।
एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥१३७॥

तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलं ।
दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥१३८॥

ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् ।
न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं ॥१३९॥

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥१४०॥

तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥१४१॥

असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा ।
व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥१४२॥

विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते ।
वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् ॥१४३॥

इदं तद् इति सान्येषाम् अनाक्येया कथं चन ।
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥१४४॥

उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता ।
सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥१४५॥

साक्शाच् छब्देन जनितां भावनानुगमेन वा ।
इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥१४६॥

प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥१४७॥

यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः ।
मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥१४८॥

स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥१४९॥

आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥१५०॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP