संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ६ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ६ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ६ Translation - भाषांतर यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते ।अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥२५१॥यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥२५२॥सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः ।प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥२५३॥एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु ।असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥२५४॥गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते ।अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥२५५॥तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते ।अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥२५६॥एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः ।प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥२५७॥सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते ।मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥२५८॥तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु ।अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥२५९॥शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते ।अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥२६०॥अन्या संस्कारसावित्री कर्मण्य् अन्या प्रयुज्यते ।अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥२६१॥अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः ।वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥२६२॥अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते ।सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥२६३॥अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥२६४॥शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥२६५॥यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते ।तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥२६६॥स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते ।निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते ॥२६७॥पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि ।अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥२६८॥वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते ।शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥२६९॥यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् ।तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥२७०॥यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते ।प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥२७१॥नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥२७२॥जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते ।संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥२७३॥विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव ।मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥२७४॥नियताः साधनत्वेन रूपशक्तिसमन्विताः ।यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥२७५॥क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः ।रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥२७६॥तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः ।शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥२७७॥श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते ।तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥२७८॥गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ ।अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥२७९॥महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥२८०॥अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः ।संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥२८१॥अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः ।शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥२८२॥निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥२८३॥ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते ।तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥२८४॥अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते ।यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥२८५॥यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् ।न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥२८६॥दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥२८७॥यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥२८८॥प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते ।यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥२८९॥यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः ।न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥२९०॥स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः ।न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥२९१॥वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा ।नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥२९२॥मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यते ।तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥२९३॥महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥२९४॥मरणादिनिमित्तं च यथा मुख्या विषादयः ।न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥२९५॥देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा ।यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥२९६॥यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् ।न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥२९७॥घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥२९८॥संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते ।तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥२९९॥निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् ।धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥३००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP