संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|वाक्यकांड| भाग ५ वाक्यकांड भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० वाक्यकांड - भाग ५ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण भाग ५ Translation - भाषांतर तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति ।सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥२०१॥कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥२०२॥हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते ।आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥२०३॥क्रियाया द्योतको नायं न संबन्धस्य वाचकः ।नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥२०४॥अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा ।वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥२०५॥पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः ।अर्थान्तरावबोधेन संबन्धविगमेन च ॥२०६॥सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः ।अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥१०७॥अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते ।नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥२०८॥के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥२०९॥शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः ।धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥२१०॥कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः ।प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥२११॥अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते ।अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥२१२॥आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः ।अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥२१३॥वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः ।न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥२१४॥स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् ।साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥२१५॥पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु ।सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥२१६॥समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते ।पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥२१७॥समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु ।युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥२१८॥कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् ।अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥२१९॥प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् ।तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥२२०॥गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते ।द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥२२१॥यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते ।क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥२२२॥यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् ।सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥२२३॥यथा च खदिरच्छेदे भागेषु क्रमवांस् छिदिः ।तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥२२४॥सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥२२५॥प्रतिपादयता वृत्तिम् अबुद्धान् वाक्यपूर्विकाम् ।वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥२२६॥अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् ।प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः ॥२२७॥जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता ।बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥२२८॥शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥२२९॥यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव तम् ।क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥२३०॥अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धनम् ।निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥२३१॥प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते ।व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥२३२॥शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते ।अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥२३३॥अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥२३४॥यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते ।स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥२३५॥उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः ।तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥२३६॥घटादिदर्शनाल् लोकः परिच्छिन्नो ऽवसीयते ।समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥२३७॥उपायाः शिक्षमाणानां बालानाम् उपलापनाः ।असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥२३८॥अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥२३९॥उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् ।क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥२४०॥वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥२४१॥विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते ।अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥२४२॥अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् ।नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥२४३॥निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् ।अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥२४४॥नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् ।कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥२४५॥विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम् ।वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥२४६॥स्तुतिनिन्दाप्रधानेषु वाक्येष्व् अर्थो न तादृशः ।पदानां प्रविभागेन यादृशः परिकल्प्यते ॥२४७॥अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥२४८॥पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते ।छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥२४९॥एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः ।निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥२५०॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP