वाक्यकांड - भाग ८

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


नियमः प्रतिषेधश् च विधिशेषस् तथा सति ।
द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥३५१॥

निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।
तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥३५२॥

विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते ।
विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥३५३॥

संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते ।
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥३५४॥

संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते ।
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥३५५॥

सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत् ।
के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥३५६॥

वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत् ।
संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते ॥३५७॥

सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः ।
नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥३५८॥

एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः ।
स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥३५९॥

एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम् ।
कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥३६०॥

एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः ।
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥३६१॥

साधारणत्वात् संधिग्धाः सामर्थ्यान् नियताश्रयाः ।
तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥३६२॥

तुल्यायाम् अनुनिष्पत्तौ ज्ये-द्रा-घा इत्य् असाधवः ।
न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥३६३॥

कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः ।
एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥३६४॥

गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात् ।
निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥३६५॥

व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् ।
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥३६६॥

कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते ।
संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥३६७॥

यथा हि पांसुलेखानां बालकैर् मधुक्रादयः ।
संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥३६८॥

वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् छक्त्यवच्छेदलक्षणः ।
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥३६९॥

संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी ।
का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥३७०॥

शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना ।
अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥३७१॥

आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥३७२॥

क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते ।
संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥३७३॥

विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् ।
व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥३७४॥

सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् ।
प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥३७५॥

भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते ।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥३७६॥

अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥३७७॥

पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते ।
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥३७८॥

दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु ।
आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥३७९॥

भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥३८०॥

लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् ।
अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥३८१॥

शतादानप्रधानत्वाद् दण्डने शतकर्मके ।
अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥३८२॥

सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने ।
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥३८३॥

लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति ।
तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥३८४॥

वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा ।
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥३८५॥

संभूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने ।
पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥३८६॥

व्यवायलक्षणार्थात्वाद् अट्कुप्वाङादिभिस् तथा ।
प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥३८७॥

अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा ।
देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥३८८॥

पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते ।
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥३८९॥

संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥३९०॥

वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया ।
द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते ॥३९१॥

भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥३९२॥

वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते ।
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥३९३॥

न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् ।
तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥३९४॥

येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥३९५॥

अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते ।
पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥३९६॥

सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः ।
व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥३९७॥

एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः ।
सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः ॥३९८॥

यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।
प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥३९९॥

वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति ।
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥४००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP