मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महादनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहुत्यै न्यगादीः ॥१॥
प्रकृतिमहदहङ्काराश्र्च मात्राश्र्च भूता -
न्यपि हृदपि दशाक्षी पुरुषः पञ्चविंशः ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥२॥
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनैः साप्यपेयात्
कपिलतनुरिति त्वं देवहुत्यै न्यगादीः ॥३॥
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
गरुडसमधिरुढं दिव्यभूषायुधाङ्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥४॥
मम गुणगणलीलाकर्णनैः कीर्तनाद्यै -
र्मयि सुरसरिदोघप्रख्यचित्तनुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥५॥
अहह ! बहुलहिंसासञ्चितार्थैः कुटुम्बं
प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥६॥
युवतिजठराखिन्नो जातबोधोऽप्यकाण्डे
प्रसवगलितबोधः पीडयोल्लङ्घ्य़ बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥७॥
पितृसुरगणयाजी धार्मिको यो गृहस्थः
स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकामं कर्म तूदक्यपथार्थं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥८॥
इति सुविदिवेद्यां देव हे दूवहूतिं
कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घै ।
विमलमतिरथासौ भक्तियोगेन मुक्ता
त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥९॥
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं तद्विधूयामयान् मे
गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥१०॥
॥ इति कपिलोपदेशाख्यं पञ्चशदशकं समाप्तम् ॥