वैकुण्ठ वर्धिबलोऽथ भवत्प्रसादादम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्रूनि भूरुहमयाणि तथा तिरश्र्चां
जाती र्मनुष्यनिवहानपि देवभेदान् ॥१॥
मिथ्याग्रहस्मिमतिरागविकोपभीति रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून
स्तेने त्वदीयचरणस्मरणं विशुद्ध्य़ै ॥२॥
तावत्ससर्ज मनसा सनकं सनन्दं
भूयः सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना
स्त्वत्पादभक्तिरसिका जगृहर्न वाणीम् ॥३॥
तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेशकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे
त्यादौ रुरोद किल तेन स रुद्रनामा ॥४॥
एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्र्च दत्त्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥५॥
रुद्राभिसृष्टभयदाकृतिरुद्रसंघ
सम्पूर्यमाणभुवनत्रयभीतचेताः
मा मा प्रजाः सृज तपश्र्चर मङ्गलाये
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥६॥
तस्याथ सर्गरसिकस्य मीरचिरत्रि
स्तत्राङ्किराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अ़ङ्गादजायत भृगुश्र्च वसिष्ठदक्षौ
श्रीनारदश्र्च भगवन् भवदङ्धिदासः ॥७॥
धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरङ्गजसंकुलोऽभूत् ।
त्वद्बोधितैः सनकदक्षमुखैस्तनूजै -
रुद्बोधितश्र्च विरराम तमो विमुञ्चन् ॥८॥
वेदान् पुराणनिवहानपि सर्वविद्याः
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि
मप्राप्रुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥९॥
जानन्नुपायमथ देहमजो विभज्य
स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥१०॥
॥ इति सृष्टिभेदवर्णनं दशमदशकं समाप्तम् ॥