हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥
स मायावी विष्णुह्ररति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै -
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वां दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥
गदापाणौ दैत्ये त्वमपि हि गृहितोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥४॥
गदोन्मर्दे तस्मिस्तव खलु गदायां दितिभुवो
गदाघातद् भूमौ झटिति पतितायामहह भोः ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥
ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि च्छिन्दत्येतत्करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुंदंस्त्वां समतनोद्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥६॥
भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्रन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥७॥
महाकायः सोऽयं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥
त्वचि च्छन्दो रोमस्वपि कुशगणश्र्चक्षुषि घृतं
चतुर्होतारोऽङ्घ्रौ स्त्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुषं कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥९॥
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्णयं सम्प्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥
॥ इति हिरण्याक्षयुद्धवर्णनं त्रयोदशदशकं समाप्तम् ॥