क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥१॥
मनोज्ञनैःश्रेयसकानननाद्यैरनेकवापीमणिमन्दिरैश्र्च ।
अनौपमं तं भवतो निकेतं मुनीश्र्वराः प्रापुरतीतकक्ष्याः ॥२॥
भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयास्तान् विजयोऽप्यरुन्धाम ।
तेषा चं चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥३॥
वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् ।
इति प्रशप्तौ भवदाश्र्यौ तौ हरिस्मृतिर्नोऽरिस्त्वति नेमतुस्तान् ॥४॥
तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष ।
खगेश्र्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥५॥
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपं न्यागादीः ॥६॥
त्वदीयभृत्यावथ कश्यपात्तौ सुरारिवीरावृदितौ दितौ द्वौ ।
संध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥७॥
हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥८॥
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन् गदावान् ॥९॥
ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।
भक्तैकदृश्यः स कृपानिधिस्त्वं निरुन्धि रोगान् मरुदालयेश ॥१०॥
॥ इति हिरण्यकशिपूत्पत्तिवर्णनमेकादशदशकं समाप्तम् ॥