समनुस्मृततावकाड़्घ्रियुग्मः स मनुः पङ्कघ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्करम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥२॥
गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥
स्तुवते पुलकावृताय तस्मै मनुपत्रीं दयितां नवापि पुत्रीः ।
कपिलञ्च सुतं स्वमेव पश्र्चात्स्वगतिञ्चाप्यनुगृह्य निर्गतोऽभूः ॥४॥
स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षम् ॥५॥
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥
स पुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥७॥
शतवर्षमथ व्यतीत्य सोऽयन्नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥८॥
निजभर्तृगिरा भवन्निवानिरतायामथ देव देहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥९॥
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशज्जनन्यै ।
कपिलात्मक वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥
॥ इति कपिलोपाख्यानं चतुर्दशदशकं समाप्तम् ॥