एवं तावत् प्राकृतप्रक्षयान्ते
ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥१॥
सोऽयं चतुर्युगसहस्त्रमितान्यहानि
तावन्मिताश्र्च रजनीर्बहुशो निनाय ।
निद्रात्ससौ त्वयि निलीय समं स्वसृष्टै -
नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥२॥
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्राह्मकल्पजनुषां च परायुषां तु
सुप्तप्रबोधनसमस्ति तदापि सृष्टिः ॥३॥
पञ्चशदब्दमधुना स्ववयोऽर्धरूपमेकं
परार्धमतिवृत्य हि वर्ततेऽसी ।
तत्रान्त्यरात्रिजनितान् कथयामि भूमन्
पश्र्चाद्दिनावतरणे च भवद्विलासान् ॥४॥
दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि
संनिलिल्ये । जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्र्वम् ॥५॥
ततैव वेषे फणिराजशेषे जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥६॥
कालाक्ष्यशक्तिं प्रलयवसाने प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥७॥
चतुर्युगाणां च सहस्त्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्र्वनाथ ॥८॥
विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान् प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः -
स्थितेषु विश्र्वेषु ददाथ दृष्टिम् ॥९॥
ततस्त्वदीयादयि नाभिरन्ध्रादुदञ्चितं किंचन दिव्यपद्मम् ।
निलीननिश्शेषपदार्थ मालासंक्षेपरूपं मुकुलायमानम् ॥१०॥
तदेतदम्भोरुहकुड्मलं ते कलेवरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥११॥
सम्फुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत् स्वयम्प्रबुद्धखिलवेदराशिः ॥१२॥
अस्मिन् परात्मन् ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः ।
अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो ॥१३॥
॥ इति प्रलयजगत्सृष्ट्योर्वर्णनमष्टमदशकं समाप्तम् ॥