स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमग्राम ।
स्रष्टारमाप शरणं भवदङ्ध्रिसेवा -
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥१॥
कष्टं प्रजाः सृजति मय्यवनिर्निमग्ना
स्थानं सरोजभव कल्पय तत्प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू -
रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥२॥
हा हा विभो जलमहं न्यपिबं पुरस्ता -
दद्यापि मज्जति मही किमहं करोमि ।
इत्थं त्वदङ्ध्रियुगलं शरणं यतोऽस्य
नासापुटात् समभवश्शिशुकोलरूपी ॥३॥
अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्ताद्
भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदिक्ष्य भवन्तमुच्चै -
र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥४॥
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
नासापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरि शैलमात्रः
सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥५॥
तं ते निनादमुपकर्ण्य जनस्तपःस्था
सत्यस्थिताश्र्च मुनयो नुनुवुर्भवन्तम् ।
तत्सतोत्रहर्षुलमनाः परिणद्य भूय -
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥६॥
ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा
प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥७॥
अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था -
नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥८॥
दृष्टाथ दैत्यहतकेन रसातलान्ते
संवेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥९॥
अभ्युद्धरन्नथ धरां दशनाग्रलग्न -
मुस्ताङ्कुराङ्कित इवधिकपीवरात्मा ।
उद्धूतघोरसलिलाज्जलधेरुदञ्चन्
क्रीडावराहवपुरीश्र्वर पाहि रोगात् ॥१०॥
॥ इति वराहावतारवर्णनं द्वादशदशकं समाप्तम् ॥