रघुवंश - सप्तदश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।

पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥१॥

स पितु : पितृमान्वंशं मातुश्चानुपमद्युति : ।

अपुनात्सेवितेवोभौ मार्गावुत्तरदक्षिणौ ॥२॥

तमादौ कुलविद्यानामर्थमर्थविदां वर : ।

पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥३॥

जात्यस्तेनाभिजातेन शूर : शौर्यवता कुश : ।

अमन्यैतकमात्मानमनेकं वशिना वशी ॥४॥

स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।

जघान समरे दैत्यं दुर्जयं तेन चावधि ॥५॥

तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।

अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥६॥

तयोर्दिवस्पतेरासीदेक : सिंहासनार्धभाक् ।

द्वितीयापि सखी शच्या : पारिजातांशभागिनी ॥७॥

तदात्मसंभवं राज्ये मन्त्रिवृद्धा : समादधु : ।

स्मरन्त : पश्चिमामाज्ञां भर्तु : सङग्रामयायिन : ॥८॥

ते तस्य कल्पयामासुरभिषेकाय शिल्पिभि : ।

विमानं नवमुद्वेदि चतु :स्तम्भप्रतिष्ठितम् ॥९॥

तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभि : ।

उपतस्थु : प्रकृतयो भद्रपीठोपवेशितम् ॥१०॥

नदाद्भि स्निग्धगंभीरं तूर्यैराहतपुष्करै : ।

अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥११॥

दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।

ज्ञातिवृद्धै : प्रयुक्तान्स भेजे नीराजनाविधीन् ॥१२॥

पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभि : ।

उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातय : ॥१३॥

तस्यौघमहती मूर्घ्नि निपतन्ती व्यरोचत ।

सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विष : ॥१४॥

स्तूयमान : क्षणे तस्मिन्नलक्ष्यत स बन्दिभि : ।

प्रवृद्ध इव पर्जन्य : सारङ्गैरभिनन्दित : ॥१५॥

तस्य सन्मन्त्रपूताभि : स्नानमद्भिः प्रतीच्छत : ।

ववृधे वैद्युतश्चाग्नेर्वृष्टिसेकादिव द्युति : ॥१६॥

स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।

यावतैषां समाप्येरन्यज्ञा : पर्याप्तदक्षिणा : ॥१७॥

ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।

सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलै : ॥१८॥

बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।

धुर्याणां च धुरो मोक्षमदोहं चादिश ·वाम् ॥१९॥

क्रीडापतत्रिणोप्यस्य पञ्जरस्था : शुकादय : ।

लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥२०॥

तत : कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि ।

सोओत्तरच्छदमध्यास्त नेपथ्यग्रहणाय स : ॥२१॥

तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणय : ।

आकल्पसाधनैस्तैस्तैरुपसेदु : प्रसाधका : ॥२२॥

तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गत +जम् ।

प्रत्यूपु : पद्मरागेण प्रभामण्डलशोभिना ॥२३॥

चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।

समापय्य ततश्चक्रु : पत्रं विन्यस्तरोचनम् ॥२४॥

आमुक्ताभरण : स्रग्वी हंसचिह्नदुकूलवान् ।

आसीदतिशयप्रेक्ष्य : स राज्यश्रीवधूवर : ॥२५॥

नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।

विरराजोदिते सूर्ये मरौ कल्पतरोरिव ॥२६॥

स राजककुदव्यग्रपाणिभि : पाश्र्ववर्तिभि : ।

ययावुदीरितालोक : सुधर्मानवमां सभाम् ॥२७॥

वितानसहितं तत्र भेजे पैतृकमासनम् ।

चूडामणिभिरुद्धृष्टं पादपीठं महीक्षिताम् ॥२८॥

शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।

श्रीवत्सलक्षणं वक्ष : कौस्तुभेनेव कैशवम् ॥२९॥

बभौ भूय : कुमारत्वादाधिराज्यमवाप्य स : ।

रेखाभावादुपारूढ : सामग्यमिव चन्द्रमा : ॥३०॥

प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।

मूर्तिमन्तममन्यन्त विश्वासमनुजीविन : ॥३१॥

स पुरं पुरहूतश्री : कल्पद्रुमनिभध्वजाम् ।

क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥३२॥

तस्यैकस्योच्छ्रितं छत्रं मूर्घ्नि तेनामलत्विषा ।

पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥३३॥

धूमादग्ने : शिखा : पश्चादुदयादंशवो रवे : ।

सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणै : ॥३४॥

तं प्रीतिविशदैर्नेत्रैरन्वयु : पौरयोषित : ।

शरत्प्रसन्नैज्र्योतिर्भिर्विभावर्य इव ध्रुवम् ॥३५॥

अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिता : ।

अनुदध्युरनुध्येयं सांनिध्यै : प्रतिमागतै : ॥३६॥

यावन्नाश्यायते वेदिरभिषेकजलाप्लुता ।

तावदेवास्य वेलान्तं प्रताप : प्राप दु :सह : ॥३७॥

वसिष्ठस्य गुरोर्मन्त्रा : सायकास्तस्य धन्विन : ।

किं तत्साध्यं यदुभये साधयेयुर्न संगता : ॥३८॥

स धर्मस्थसख : शश्वदर्थिप्रत्यर्थिनां स्वयम् ।

ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रित : ॥३९॥

तत : परमभिव्यक्तसौमनस्यनिवेदितै : ।

युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलै : ॥४०॥

प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिता : ।

तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययु : ॥४१॥

यदुवाच न तन्मिथ्या य ¸दौ न जहार तत् ।

सोऽभूद्भग्नव्रत : शत्रूनुद्धृत्य प्रतिरोपयन् ॥४२॥

वयोरूपविभूतीनामेकैकं मदकारणम् ।

तानि तस्मिन्समस्तानि न तस्योत्सिचिषे मन : ॥४३॥

इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।

अक्षोभ्य : स नवोऽप्यासीद्दृढमूल इव द्रुम : ॥४४॥

अनित्या : शत्रवो बात्द्या विप्रकृष्टाश्च ते यत : ।

अत : सोऽभ्यन्तरान्नित्याञ्षट्पूर्वमजयद्रिपून् ॥४५॥

प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावत : ।

निकषे हेमरेखेव श्रीरासीदनपायिनी ॥४६॥

कातर्यं केवला नीति : शौर्यं श्वापदचेष्टितम् ।

अत : सिद्धिं समेताभ्यामुभाभ्यामन्वियेष स : ॥४७॥

न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधिते : ।

अदृष्टमभवत्किंचिद्वयभ्रस्येव विवस्वत : ॥४८॥

रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।

तत्सिषेवे नियोगेन स विकल्पपराञ्मुख : ॥४९॥

मन्त्र : प्रतिदिनं तस्य बभूव सह मन्त्रिभि : ।

स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥५०॥

परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परै : ।

सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥५१॥

दुर्गाणि दुग्र्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।

न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशय : ॥५२॥

भव्यमुख्या : समारम्भा : प्रत्यवेक्ष्यानिरत्यया : ।

गर्भशलिसधर्माणस्तस्य गूढं विपेचिरे ॥५३॥

अपथेन प्रववृते न जातूपचितोऽपि स : ।

वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भस : ॥५४॥

कामं प्रकृतिवैराग्यं सद्य : शमयितुं क्षम : ।

यस्य कार्य : प्रतीकार : स तन्नैवोदपादयत् ॥५५॥

शक्येष्वेवाभवद्यात्रा तस्य शक्तिमत : सत : ।

समीरणसहायोऽपि नाम्भ :प्रार्थी दवानल : ॥५६॥

न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ ।

नार्थं कामेन कामं व सोऽर्थेन सदृशस्त्रिषु ॥५७॥

हीनान्यनृपकतर् äणि प्रवृद्धानि विकुर्वते ।

तेन मध्यमशक्तीनि मित्राणि स्थापितान्यत : ॥५८॥

परात्मनो : परिच्छिद्य शक्त्यादीनां बलाबलम् ।

ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥५९॥

कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रह : ।

अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥६०॥

परकर्मापह : सोऽभूदुद्युत : स्वेषु कर्मसु ।

आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ॥६१॥

पित्रा संवर्धितो नित्यं कृतास्त्र : सांपरायिक : ।

तस्य दण्डवतो दण्ड : स्वदेहान्न व्यशिष्यत ॥६२॥

सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं पर : ।

स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥६३॥

वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।

सार्था : स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥६४॥

तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपद : ।

यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥६५॥

खनिभि : सुषुवे रत्नं क्षेत्रै : सस्यं वनैर्गजान् ।

दिदेश वेतनं तस्मै रक्षासदृशमेव भू : ॥६६॥

स गुणानां बलानां च षण्णां षण्मुखविक्रम : ।

बभूव विनियोगज्ञ : साधनीयेषु वस्तुषु ॥६७॥

इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।

आ तीर्थादप्रतीघातं स तस्या : फलमानशे ॥६८॥

कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।

भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥६९॥

प्राय : प्रतापभग्नत्वादरीणां तस्य दुर्लभ : ।

रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिन : ॥७०॥

प्रवृद्धौ हीयते चन्द्र : समुद्रोऽपि तथाविध : ।

स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥७१॥

सन्तस्तस्याभिगमनादत्यर्थं महत : कृशा : ।

उदधेरिव जीमूता : प्रापुर्दातृत्वमर्थिन : ॥७२॥

स्तूयमान : स जिह्राय स्तुत्यमेव समाचरन् ।

तथापि ववृधे तस्य तत्कारिद्वेषिणो यश : ॥७३॥

दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तम : ।

प्रजा : स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदित : ॥७४॥

इन्दोरगतय : पद्मे सूर्यस्य कुमुदेंऽशव : ।

गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥७५॥

पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।

जिगीषोरश्वमेधाय धम्र्यमेव बभूव तत् ॥७६॥

एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवत्र्मना ।

वृषेव देवो देवानां राज्ञां राजा बभूव स : ॥७७॥

पञ्चमं लोकपालानां तमूचु : साम्ययोगत : ।

भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥७८॥

दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।

दधु : शिरोभिर्भूपाला देवा : पौरंदरीमिव ॥७९॥

ऋत्विज : स तथानर्च दक्षिणाभिर्महाक्रतौ ।

यथा साधारणीभूतं नामास्य धनदस्य च ॥८०॥

इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूरू

द्यादोनाथ : शिवजलपथ : कर्मणे नौचराणाम् ।

पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेररू

स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपाला : ॥८१॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासरू

कृतावतिथिवर्णनं नाम सप्तदश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP