स राज्यं गुरूणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेज: सवित्रेव हुताशन: ॥१॥
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थित: ॥२॥
पुरूहूतध्वजस्येव तस्योओन्नयनपङ्कÑतय: ।
नवाभ्युत्थानदर्शिन्यो ननन्दु: सप्रजा: प्रजा: ॥३॥
सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥४॥
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥५॥
परिकल्पितसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरथ्र्याभिरूपतस्थे सरस्वती ॥६॥
मनुप्रभुतिर्मान्यैर्भुक्ता यद्यपि राजभि: ।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा ॥७॥
स हि सर्वस्य लोकस्य युक्तदण्डतया मन: ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिण: ॥८॥
मन्दोत्कण्ठा: कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पो·म इव प्रजा: ॥९॥
नयवि»िर्नवे राज्ञि सदसच्चोपदर्शितम् ।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तर: ॥१०॥
पWचानामपि भूतानामुत्कर्षं पुपुषुर्गुणा: ।
नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥११॥
यथा प्रल्हादनाच्चन्द्र: प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥१२॥
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥१३॥
लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
पार्थिवश्रीद्र्वितीयेव शरत्पङ्कजलक्षणा ॥१४॥
निर्वृष्टलघुभिर्मेघैर्मुक्तवत्र्मा सुदु:सह: ।
प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिश: ॥१५॥
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥१६॥
पुण्डरीकातपत्रस्तं विकसत्काशचामर: ।
ऋतुर्विडम्बयामास न पुन: प्राप तच्छ्रियम् ॥१७॥
प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयो: ॥१८॥
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥१९॥
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्धातं शालिगोप्यो जगुर्यश: ॥२०॥
प्रससादोदयादम्भ: कुम्भयोनेर्महौजस: ।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मन:॥२१॥
मदोदग्रा: ककुद्यन्त: सरितां कूलमुद्रुजा: ।
लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥२२॥
प्रसवै: सप्तपर्णानां मदगन्धिभिराहता: ।
असूययेव तन्नागा: सप्तधैव प्रसुस्रुवु: ॥२३॥
सरित: कुर्वती गाधा: पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्ते: प्रथमं शरत् ॥२४॥
तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिव्र्याजेन हस्तेनेव जयं ददौ ॥२५॥
स गुप्तमूलप्रत्यन्त: शुद्धपाष्र्णिरयान्वित: ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया॥२६॥
अवाकिरन्वयोवृद्धास्तं लाजै: पौरयोषित: ।
पृषतैर्मन्दरोद्धूतै: क्षीरोर्मय इवाच्युतम्॥२७॥
स ययौ प्रथमं प्राचीं तुल्य: प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभि:॥२८॥
रजोभि: स्यन्दनोद्धूतैर्गजैश्च घनसंनिभै: ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥२९॥
प्रतापोऽग्रे तत: शब्द: परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतु:स्कन्धेव सा चमू:॥३०॥
मरूपृष्ठान्युदम्भांसि नाव्या: सुप्रतरा नदी: ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार स:॥३१॥
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथ:॥३२॥
त्याजितै: फलमुत्खातैर्भग्नैश्च बहुधा नृपै: ।
तस्यासीदुल्बणो मार्ग: पादपैरिव दन्तिन:॥३३॥
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधे:॥३४॥
अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षित: सुह्मैर्वृत्तिमाश्रित्य वैतसीम्॥३५॥
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु स:॥३६॥
आपादपद्मप्रणता: कलमा इव ते रघुम् ।
फलै: संवर्धयामासुरूत्खातप्रतिरोपिता:॥३७॥
स तीत्र्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभि: ।
उत्कलादर्शितपथ: कलिङ्गाभिमुखो ययौ॥३८॥
स प्रतापं महेन्द्रस्य मूर्घ्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिन:॥३९॥
प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधन: ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वत:॥४०॥
द्विषां विषÊ काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥४१॥
ताम्बूलीनां दलैस्तत्र रचितापानभूमय: ।
नारिकेलासवं योधा: शात्रवं च पपुर्यश: ॥४२॥
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृप: ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥४३॥
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥४४॥
स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्यु: शङ्कनीयामिवाकरोत् ॥४५॥
बलैरध्युषितास्तस्य विजिगीषोर्गतध्वन: ।
मारीचोद्भ्रान्तहारीता मलयाद्रेरूपत्यका: ॥४६॥
ससञ्जुरश्वक्षुण्णानमेलानामुत्पतिष्णव: ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणव: ॥४७॥
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
ना+सत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥४८॥
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघो: पाण्ड्या प्रतापं न विषेहिरे ॥४९॥
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधे: ।
ते निपत्य ददुस्तस्मै यश: स्वमिव संचितम् ॥५०॥
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्या: शैलौ मलयदर्दुरौ ॥५१॥
असÊविक्रम सत्द्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्या: स्रस्तांशुकमलङ्घ्यत् ॥५२॥
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतै: ।
रामास्त्रोत्सारितोऽप्यासीत्सत्द्यलग्न इवार्णव: ॥५३॥
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृत: ॥५४॥
मुरलामारूतोद्धूतमगमत्कैतकं रज: ।
तद्योधवारबाणानामयत्नपटवासताम् ॥५५॥
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितै: ।
वर्मभि: पवनोद्धूतराजतालीवनध्वनि: ॥५६॥
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतु: पुंनागेभ्य: शिलीमुखा: ॥५७॥
अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ ।
अपरान्तमहीपालव्याजेन रघवे करम् ॥५८॥
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार स: ॥५९॥
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवत्र्मना ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥६०॥
यवनीमुखपद्मानां सेहे मधुमदं न स: ।
बालातपमिवाब्जानामकालजलदोदय: ॥६१॥
सङ्भामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनै: ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥६२॥
भल्लापवर्जितैस्तेषां शिरोभि: श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तै: स क्षौद्रपटलैरिव ॥६३॥
अपनीतशिरस्त्राणा: शेषास्तं शरणं ययु: ।
प्रणिपातप्रतीकार: संरम्भो हि महात्मनाम् ॥६४॥
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६५॥
तत: प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरूस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥६६॥
विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनै: ।
दुधुवुर्वाजिन: स्कन्धाँल्लग्नकुङ्कुमकेसरान् ॥६७॥
तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥६८॥
काम्बोजा: समरे सोढुं तस्य वीर्यमनीश्वरा: ।
गजालानपरिक्लिष्टैरक्षोटै: सार्धमानता: ॥६९॥
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशय: ।
उपदा विविशु: शश्वन्नोत्सेका: कोसलेश्वरम् ॥७०॥
ततो गौरीगुरूं शैलमारूरोहाश्वसाधन: ।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभि: ॥७१॥
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥७२॥
भूर्जेषु मर्मरीभूता: कीचकध्वनिहेतव: ।
गङ्गाशीकरिणो मार्गे मरूतस्तं सिषेविरे ॥७३॥
विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिका: ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभि: ॥७४॥
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विष: ।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिका: ॥७५॥
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वच: ।
गजवष्र्म किरातेभ्य: शशंसुर्देवदारव: ॥७६॥
तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् ।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥७७॥
शरैरूत्सवसंकेतान्स कृत्वा विरतोत्सवान् ।
जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥७८॥
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवत: सारो राज्ञ: सारो हिमाद्रिणा ॥७९॥
तत्राक्षोभ्यं यशोराशिं निवेश्यावरूरोह स: ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥८०॥
चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वर: ।
त·जालानतां प्राप्तै: सह कालागुरूद्रुमै: ॥८१॥
न प्रसेहे स रूद्धार्कमधारावर्षदुर्दिनम् ।
रथवत्र्मरजोऽप्यस्य कुत एव पताकिनीम् ॥८२॥
तमीश: कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यानुपरूरोध यै: ॥८३॥
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण छायमानर्च पादयो: ॥८४॥
इति जित्वा दिशो जिष्णुन्र्यवर्तत रथोद्धतम् ।
रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥८५॥
स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ॥८६॥
सत्रान्ते सचिवसख: पुरस्क्रियाभिरू
र्गुर्वीभि: शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्
राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥८७॥
ते रेखाकुलिशातपत्रचिह्नं
सम्राजश्चरणयुगं प्रसादलभ्यम् ।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुरू
र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥८८॥
इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ
रघुदिग्विजयो नाम चतुर्थ: सर्ग: ॥