रघुवंश - षष्ठः: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवत्सु ।

वैमानिकानां मरूतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥१॥

रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।

काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥२॥

वैदर्भनिर्दिष्टमसौ कुमार: क्लृप्तेन सोपानपथेन मञ्चम् ।

शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारूरोह ॥३॥

जान्हवी मूर्ध्ह्नि पादे वा कालः कण्ठे वपुष्यथ ।

कामारिं कामतातं वा कंचिद्देवं जगामहे ॥

पराध्र्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं स: ।

भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥४॥

तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्य: ।

सहस्रधात्मा व्यरूचद्विभक्त: पयोमुचां पङ्क्तिषु विद्युतेव ॥५॥

तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये ।

रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजात: ॥६॥

नेत्रव्रजा: पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतु: ।

मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफा: ॥७॥

अथ स्तुते बन्दिभिरन्वयज्ञै: सोमार्कवंश्ये नरदेवलोके ।

संचारिते चागुरूसारयोनौ धूपे समुत्सर्पति वैजयन्ती: ॥८॥

पुरोपकण्टोपवनाश्रयाणां कलापिनामुद्धतनृत्तहेतौ ।

प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूच्र्छति मङ्गलार्थे ॥९॥

मनुष्यवात्द्यं चतुरन्तयानमध्यास्य कन्या परिवारशोभि ।

विवेश मञ्चान्तरराजमार्गं पतिंवरा कéप्तविवाहवेषा ॥१०॥

तस्मिन्विधानातिशये विधातु: कन्यामये नेत्रशतैकलक्ष्ये ।

निपेतुरन्त:करणैर्नरेन्द्रा देहै: स्थिता: केवलमासनेषु ॥११॥

तां प्रत्यभिव्यक्तमनोरथानांऋ महीपतीनां प्रणयाग्रदूत्य: ।

प्रवालशोभा इव पादपानांऋ शृङ्गारचेष्टा विविधा बभूवु: ॥१२॥

कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।

रजोभिरन्त: परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥१३॥

विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।

प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारूवक्त्र: ॥१४॥

आकुञ्चिताग्राङ्गुलिना ततोऽन्य: किंचित्समावर्जितनेत्रशोभ: ।

तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥१५॥

निवेश्य वामं भुजमासनार्धे तत्संनिवेशात् अधिकोन्नतांस: ।

कश्चिद्विवृत्तत्रिकभिन्नहार: सुहृत्समाभाषणतत्परोऽभूत् ॥१६॥

विलासिनीविभ्रमदन्तपत्रमपाण्डुरं केतकबर्हमन्य: ।

प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रै: ॥१७॥==========

कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।

रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥१८॥

कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव ।

वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥१९॥

ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।

प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥२०॥

असौ शरण्य: शरणोन्मुखानामगाधसत्वो मगधप्रतिष्ठः ।

राजा प्रजारञ्जनलब्धवर्ण: परंतपो नाम यथार्थनामा ॥२१॥

कामं नृपा: सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।

नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रि: ॥२२॥

क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्र: ।

शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥२३॥

अनेन चेदिच्छसि गृत्द्यमाणं पाणिं वरेण्येन कुरू प्रवेशे ।

प्रासादवातायनसंस्थितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥२४॥

एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला ।

ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥२५॥

तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।

समीरणोत्थेव तरंगरेखा पद्मान्तरं मानसराजहंसीम् ॥२६॥

जगाद चैनामयमङ्गनाथ: सुराङ्गनाप्रार्थितयौवनश्री: ।

विनीतनाग: किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥२७॥

अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।

प्रत्यर्पिता: शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हारा: ॥२८॥

निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।

कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ॥२९॥

अथाङ्गराजदवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।

नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरूचिर्हि लोक: ॥३०॥

तत: परं दु:प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।

निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥३१॥

अवन्तिनाथोऽयमुग्रबाहुर्विशालवक्षास्तनुवृत्तमध्य: ।

आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥३२॥

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरूत्थितानि ।

कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥३३॥

असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौले: ।

तमिस्रपक्षेऽपि सहप्रियाभिज्र्योत्स्नावतो निर्विशति प्रदोषान् ॥३४॥

अनेन यूना सह पार्थिवेन रम्भोरू कच्चिन्मनसो रूचिस्ते ।

सिप्रातरंगानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥३५॥

तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।

बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥३६॥

तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।

विधाय सृष्टिं ललितां विधातुर्जगाद भूय: सुदतीं सुनन्दा ॥३७॥

सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूप: ।

अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्य: ॥३८॥

अकार्यचिन्ता समकालमेव प्रादुर्भवंश्चापधर: पुरस्तात् ।

अन्त:शरीरेष्वपि य: प्रजानां प्रत्यादिदेशाविनयं विनेता ॥३९॥

ज्याबन्धनिष्पन्दभुजेन यस्य विनि:श्वसद्वक्त्रपरंपरेण ।

कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥४०॥

तस्यान्वये भूपतिरेष जात: प्रतीप इत्यागमवृद्धसेवी ।

येन: श्रिय: संश्रयदोषरूढं स्वभावलोलेत्ययशं प्रमृष्टम् ॥४१॥

आयोधने कृष्णगतिं सहायमवाप्य य: क्षत्रियकालरात्रिम् ।

धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसाराम् ॥४२॥

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।

प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति काम: ॥४३॥

तस्या: प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रूचये बभूव ।

शरत्प्रमृष्टाम्बुधरोपरोध: शशीव पर्याप्तकलो नलिन्या: ॥४४॥

सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।

आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥४५॥

नीपान्वय: पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण ।

सिद्धाश्रमं शान्तमिवेत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोध: ॥४६॥

यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा ।

हम्र्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषत्द्यं रिपुमन्दिरेषु ॥४७॥

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।

कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥४८॥

त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा य: ।

वक्ष:स्थलव्यापिरूचं दधान: सकौस्तुभं ह्रेपयतीव कृष्णम् ॥४९॥

संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।

वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्री: ॥५०॥

अध्यास्य चाम्भ:पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि ।

कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥५१॥

नृपं तमावर्तमनोज्ञनाभि: सा व्यत्यगादन्यवधूर्भवित्री ।

महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥५२॥

अथाङ्गदालिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।

आसेदुषीं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥५३॥

असौ महेन्द्रादिसमानसार: पतिर्महेन्द्रस्य महोदधेश्च ।

यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्र: ॥५४॥

ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोग: ।

रिपुश्रियां साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥५५॥

यमात्मन: सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्य: ।

प्रासादवातायनदृश्यवीचि: प्रबोधयत्यर्णव एव सुप्तम् ॥५६॥

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।

द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरूद्भिः ॥५७॥

प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् ।

तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मी: प्रतिकूलदैवात् ॥५८॥

अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य ।

इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥५९॥

पाण्ड्योऽयमंसार्पितलम्बहार: क्लृप्ताङ्गरागो हरिचन्दनेन ।

आभाति बालातपरक्तसानु: सनिर्झरोद्गार इवाद्रिराज: ॥६०॥

विन्ध्यस्य संस्तम्भयिता महाद्रेर्नि:शेषपीतोज्झितसिन्धुराज: ।

प्रीत्याश्वमेधावभृथाद्र्रमूर्ते: सौस्नातिको यस्य भवत्यगस्त्य: ॥६१॥

अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्त: ।

पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपति: प्रतस्थे ॥६२॥

अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।

रत्नानुविद्धार्णवमेखलाया दिश: सपत्नी भव दक्षिणस्या: ॥६३॥

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।

तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥६४॥

इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टि: ।

अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥६५॥

स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेश: ।

दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ॥६६॥

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपाल: ॥६७॥

तस्यां रघो: सूनुरूपस्थितायां वृणीत मां नेति समाकुलोऽभूत् ।

वामेतर: संशयमस्य बाहु: केयूरबन्धोच्छ्वसितैर्नुनोद ॥६८॥

तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।

न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥६९॥

तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।

प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥७०॥

इक्ष्वाकुवंश्य: ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।

काकुत्स्थशब्दं यत उन्नतेच्छा: श्लाघ्यं दधत्युत्तरकोसलेन्द्रा: ॥७१॥

महेन्द्रमास्थाय महोक्षरूपं य: संयति प्राप्तपिनाकिलील: ।

चकार बाणैरसुराङ्गनानां गण्डस्थली: प्रोषितपत्रलेखा: ॥७२॥

ऐरावतस्फालनविश्लथं य: संघ¬यन्नङ्गदमङ्गदेन ।

उपेयुष: स्वामपि मूर्तिमग्यामर्धासनं गोत्रभिदोऽधितष्ठौ ॥७३॥

जात: कुले तस्य किलोरूकीर्ति: कुलप्रदीपो नृपतिर्दिलीप: ।

अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये य: ॥७४॥

यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।

वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥७५॥

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजित: प्रयोक्ता ।

चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥७६॥

आरूढमद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टम् ।

ऊध्र्वं गतं यस्य न चानुबन्धि यश: परिच्छेत्तुमियत्तयालम् ॥७७॥

असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्त: ।

गुर्वीं धुरं यो जगतस्य पित्रा धुर्येण दम्य: सदृशं बिभर्ति ॥७८॥

कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानै: ।

त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥७९॥

तत: सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।

दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥८०॥

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।

रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्या: ॥८१॥

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।

आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥८२॥

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरू: ।

आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥८३॥

तया स्रजा मङ्गलपुष्पमय्या विशालवक्ष:स्थललम्बया स: ।

अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्य: ॥८४॥

शशिनमुपगतेयं कौमुदी मेघमुक्तं

जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।

इति समगुणयोगप्रीतयस्तत्र पौरा:

श्रवणकटु नृपाणामेकवाक्यं विवव्रु: ॥८५॥

प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।

उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥८६॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

स्वयंवरवर्णनो नाम षष्ठः: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP