संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १०५१ ते १०९०

क्षत्रियवर्गः - श्लोक १०५१ ते १०९०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१०५१) नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः

१०५२) सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः

१०५३) रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः

१०५४) भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः

१०५५) सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते

१०५६) बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः

१०५७) परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः

१०५८) कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः

१०५९) बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम्

१०६०) शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्

१०६१) उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्

१०६२) आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्

१०६३) संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः

१०६४) त्रिष्वामुक्तादयो वर्मभ्र्तां कावचिकं गणे

१०६५) पदातिपत्तिपदगपादातिकपदातयः

१०६६) पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः

१०६७) शस्त्राजीवे काण्डप्र्ष्ठायुधीयायुधिकाः समाः

१०६८) क्र्तहस्तः सुप्रयोगविशिखः कृतपुङ्खवत्

१०६९) अपराद्धप्र्षत्कोऽसौ लक्ष्याद्यश्च्युतसायकः

१०७०) धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः

१०७१) स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः

१०७२) याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ

१०७३) नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ

१०७४) चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः

१०७५) अनुप्लवः सहायश्चाऽनुचरोऽनुचरोऽभिचरः समाः

१०७६) पुरोगाऽग्रेसरप्रष्ठाऽग्रतःसरपुरःसराः

१०७७) पुरोगमः पुरोगामी मन्दगामी तु मन्थरः

१०७८) जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ

१०७९) तरस्वी त्वरितो वेगी प्रजस्वी जवनो जवः

१०८०) जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके

१०८१) जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति

१०८२) सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि

१०८३) ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः

१०८४) स्वादुरस्वानुरसिलो रथिको रथिरो रथी

१०८५) कामगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम्

१०८६) शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः

१०८७) सांयुगीनो रणे साधुः शस्त्रजीवादयस्त्रिषु

१०८८) ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः

१०८९) वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्

१०९०) व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP