संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १०३१ ते ११७२

क्षत्रियवर्गः - श्लोक १०३१ ते ११७२

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


११३१) पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्

११३२) सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा

११३३) अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम्

११३४) आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि

११३५) अहमहमिका तु सा स्यात् परस्परं यो भवत्यहंकारः

११३६) द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च

११३७) शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता

११३८) वीरपाणं तु यत्पानं व्र्त्ते भाविनि वा रणे

११३९) युद्धमायोधनं जन्यं प्रघनं प्रविदारणम्

११४०) म्र्धमास्कन्दनं संख्यं समीकं सांपरायिकम्

११४१) अस्त्रियां समराऽनीकरणाः कलहविग्रहौ

११४२) संप्रहाराऽभिसंपात कलिसंस्फोट संयुगाः

११४३) अभ्यामर्द समाघआत संग्रामाभ्यागमाहवाः

११४४) समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः

११४५) नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले

११४६) क्ष्वेदा तु सिंहनादः स्यात् करिणां घटना घटा

११४७) क्रंदनं योधसंरावो ब्रंहितं करिगजिर्तम्

११४८) विस्फारो धनुषः स्वानः पताहादम्बरओ समौ

११४९) प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्

११५०) अजन्यं क्लीबमुत्पात उपसगरः समं त्रयम्

११५१) मूछार् तु कश्मलं मोहोऽअप्यवमदर्स् तु पीडनम्

११५२) अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः

११५३) वैरशुद्धिः प्रतीकारो वैरनियर्आतनं च सा

११५४) प्रद्रावोद्द्रावसंद्राव संदावा विद्रवो द्रवः

११५५) अपक्रमोऽपयानं च रणे भंगः पराजयः

११५६) पराजितपराभूतौ त्रिषु नष्टतिरोहितौ

११५७) प्रमापणं निबहर्णं निकारणं विशारणम्

११५८) प्रवासनं परासनं निषूदनं निहिंसनम्

११५९) निवार्सनं संज्ञपनं निगर्न्थनमपासनम्

११६०) निस्तहर्णं निहननं क्षणनं परिवजर्नम्

११६१) निवार्पणं विशसनं मारणं प्रतिघातनम्

११६२) उद्वासन प्रमथन क्रथनोज्जासनानि च

११६३) आलम्भपिञ्जविशरघातोन्माथवधा अपि

११६४) स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः

११६५) अन्तो नाशो द्वयोर् मृत्युर् मरणं निधनोऽस्त्रियाम्

११६६) परासुप्राप्तपंचत्वपरेतप्रेतसंस्थिताः

११६७) मृतप्रमीतौ त्रिष्वेते, चिता चित्या चितिः स्त्रियाम्

११६८) कबंधोऽस्त्री क्रिया युक्तमपमूर्धकलेवरम्

११६९) श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम्

११७०) प्रग्रहोपग्रहौ बंद्यां, कारा स्यात् बंधनालये

११७१) पूंसि भूग्न्यसवः प्राणाश् चैवं, जीवोऽसुधारणम्

११७२) आयुर् जीवितकालो, ना जीवतुर् जीवनौषधम् ।

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP