आदौ अविद्यया चित्रैः स्वकार्यैः जृम्भमाणया । युध्वा बोधः अजयत् सः अद्य सुदृढः बाध्यतां कथम् ॥२८१॥
तिष्ठन्तु अज्ञान तत् कार्य शवा बोधेन मारिताः । न भीतिः बोधसम्राजः कीर्तिः प्रत्युत तस्य तैः ॥२८२॥
यः एवम् अतिशूरेण बोधेन न वियुज्यते । प्रवृत्त्या वा निवृत्त्या वा देअह आदि गतया अस्य किम् ॥२८३॥
प्रवृत्तौ आग्रहः न्याय्यः बोधहीनस्य सर्वथा । स्वर्गाय वा अपवर्गाय यतितव्यं यतः नृभिः ॥२८४॥
विद्वान् चेत् तदृशां मध्ये तिष्ठेत् तत् अनुरोधतः । कायेन मनसा वाचा करोति एव अखिलाः क्रियाः ॥२८५॥
एष मध्ये बुभुत्सूनां यदा तिष्ठेत् तदा पुनः । बोधाय एषं क्रियाः सर्वाः दूषयन् त्यजतु स्वयम् ॥२८६॥
अविद्वत् अनुसारेण वृत्तिः बुद्धस्य युज्यते । स्तनंधय अनुसारेण वर्तते तत् पिता यतः ॥२८७॥
अधिक्षिप्तः ताडितः वा बालेन स्वपिता तदा । न क्लिश्नाति न कुप्येत बालं प्रत्युत लालयेत् ॥२८८॥
निन्दितः स्तूयमानः वा विद्वान् अज्ञैः न निन्दति । न स्तौति किन्तु तेषां स्यात् यथा बोधः तथा चरेत् ॥२८९॥
येन अयं नटनेन अत्र बुद्ध्यते कार्यम् एव तत् । अज्ञप्रबोधान् न एव अन्यत् कार्यम् अस्ति अत्र तत् विदः ॥२९०॥
कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः । तृप्यन् एवं स्वमनसा मन्यते असौ निरन्तरम् ॥२९१॥
धन्यः अहं धन्यः अहं नित्यं स्वात्मानम् अञ्जसा वेद्मि । धन्यः अहं धन्यः अहं ब्रह्मानन्दः विभाति मे स्पष्टम् ॥२९२॥
धन्यः अहं धन्यः अहं दुःखं संसारिकं न वीक्षे अद्य । धन्यः अहं धन्यः अहं स्वस्य अज्ञानं पलायितं क्व अपि ॥२९३॥
धन्यः अहं धन्यः अहं कर्तव्यं मे न विद्यते किञ्चित् । धन्यः अहं धन्यः अहं प्राप्तव्यं सर्वम् अद्य संपन्नम् ॥२९४॥
धन्यः अहं धन्यः अहं तृप्तेः मे का उपमा भवेत् लोके । धन्यः अहं धन्यः अहं धन्यः धन्यः पुनः पुनः धन्यः ॥२९५॥
अहो पुण्यम् अहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेः अहो वयम् अहो वयम् ॥२९६॥
अहो शास्त्रम् अहो शास्त्रम् अहो गुरुः अहो गुरुः । अहो ज्ञानम् अहो ज्ञानम् अहो सुखम् अहो सुखम् ॥२९७॥
तृप्तिदीपम् इमं नित्यं ये अनुसन्दधते बुधाः । ब्रह्मानन्दे निमज्जन्तः ते तृप्यन्ति निरन्तरम् ॥२९८॥
इति सप्तमोऽध्यायः ॥७॥