यत्र तु अस्य जगत् स्वात्मा पश्येत् कः तत्र केन कम् । किं जिघ्रेत् किं वदेत् वा इति श्रुतौ तु बहु घोषितम् ॥१८१॥
तेन द्वैतम् अपह्नुत्य विद्या उदेति न च अन्यथा । तथा च विदुषः भोगः कथं स्यात् इति चेत् शृणु ॥१८२॥
सुषुप्ति विषयाः मुक्ति विषयाः वा श्रुतिः तु इति । उक्तं स्वाप्यय संपत्योः इति सूत्रे हि अति स्फुटम् ॥१८३॥
अन्यथा याज्ञवल्क्य आदेः आचार्यत्वं न सम्भवेत् । द्वैत दृष्टौ अविद्वत्ता द्वैत अदृष्टौ न वाक् वदेत् ॥१८४॥
निर्विकल्प समाधौ तु द्वैत अदर्शन हेतुतः । शैव अपरोक्ष विद्या इति चेत् सुषुप्तिः तथा न किम् ॥१८५॥
आत्म तत्त्वं न जानाति सुप्तौ यदि तदा त्वया । आत्म धीः एव विद्या इति वाच्यं न द्वैत विस्मृतिः ॥१८६॥
उभयं मिलितं विद्या यदि तर्हि घट आदयः । अर्धविद्याभाजिनः स्युः सकल द्वैत विस्मृतेः ॥१८७॥
मशक ध्वनि मुख्यानां विक्षेपाणां बहुत्वतः । तव विद्या तथा न स्यात् घट आदीनां यथा दृढा ॥१८८॥
आत्म धीः एव विद्या इति यदि तर्हि सुखी भव । दुष्ट चित्तं निरुन्ध्यात् चेत् निरुन्धि त्वं यथासुखम् ॥१८९॥
तत् इष्टम् एष्टव्य मायामयत्वस्य समीक्षणात् । इच्छन् अपि अज्ञवत् न इच्छेत् किम् इच्छन् अपि हि श्रुतम् ॥१९०॥
रागः लिङ्गम् अबोधस्य सन्तु राग आदयोः बुधे । इति शास्त्र द्वयं सार्थम् एवं सत्य विरोधतः ॥१९१॥
जगत् मिथ्यात्ववत् स्वात्म असङ्गत्वस्य समीक्षणात् । कस्य कामाय इति वचः भोक्त्रभावविवक्षया ॥१९२॥
पति जाया आदिकं सर्वं तत् तत् भोगाय न इच्छति । किन्तु आत्मभोगार्थम् इति श्रुतौ उद्घोषितं बहु ॥१९३॥
किं कूटस्थ चिदाभासौ यथा किं च उभयात्मकः । भोक्ता तत्र न कूटस्थः असङ्गत्वात् भोक्तृतां व्रजेत् ॥१९४॥
सुख दुःख अभिमान आख्यः विकारः भोगः उच्यते । कूटस्थः च विकारी च इति एतत् न व्याहतं कथम् ॥१९५॥
विकारि बुद्धि अधीनत्वात् आभासः विकृतौ अपि । निरधिष्ठान विभ्रान्तिः केवला न हि तिष्ठति ॥१९६॥
उभयात्मकः एव अतः लोके भोक्ता निगद्यते । तत् दृक् आत्मानम् आरभ्य कूटस्थः शेषितः श्रुतौ ॥१९७॥
आत्मा कतम इति उक्ते याज्ञवल्क्यः विबोधयन् । विज्ञानमयम् आरभ्य असङ्गं तं पर्यशेषयत् ॥१९८॥
कः अयम् आत्मा इति एवम् आदौ सर्वत्र आत्मविचारतः । उभय आत्मकम् आरभ्य कूटस्थः शेष्यते श्रुतौ ॥१९९॥
कूटस्थ सत्यतां स्वस्मिन् अध्यस्य आत्मा अविवेकतः । तात्विकीं भोक्तृतां मत्वा न कदाचित् जिहासति ॥२००॥