अयम् इति अपरोक्षत्वम् उच्यते चेत् तत् उच्यताम् । स्वयंप्रकाशचैतन्यम् अपरोक्षं सदा यतः ॥२१॥
परोक्षम् अपरोक्षं च ज्ञानम् अज्ञानम् इति अदः । नित्य अपरोक्षरूपे अपि द्वयं स्यात् दशमे यथा ॥२२॥
नवसंख्याहृतज्ञानः दशमः विभ्रमात् तदा । न वेत्ति दशमः अस्मि इति वीक्ष्यमाणः अपि तान् नव ॥२३॥
न भाति न अस्ति दशमः इति स्वं दहमं तदा । मत्वा वक्ति तत् अज्ञानकृतम् आवरणं विदुः ॥२४॥
नद्यां ममार दशमः इति शोचन् प्ररोदिति । अज्ञानकृतविक्षेपं रोदनादिं विदुः बुधः ॥२५॥
न मृतः दशमः अस्ति इति श्रुत्वा आप्तवचनं तदा । परोक्षत्वेन दशमं वेत्ति स्वर्ग आदि लोकवत् ॥२६॥
त्वम् एव दशमः असि इति गणयित्वा प्रदर्शितः । अपरोक्षतया ज्ञात्वा हृष्यति एव न रोदिति ॥२७॥
अज्ञान अवृतिविक्षेप द्विविधा ज्ञान तृप्तयः । शोक अपगमः इति एते योजनीयाः चिदात्मनि ॥२८॥
संसार आसक्त चित्तः सन् चिदाभासः कदाचन । स्वयंप्रकाशकूटस्थं स्वतत्त्वं न एव वेत्ति अयम् ॥२९॥
न भाति न अस्ति कूटस्थः इति वक्ति प्रसंगतः । कर्ता भोक्ता अहम् अस्मि इति विक्षेपं प्रतिपद्यते ॥३०॥
अस्ति कूटस्थः इति आदौ परोक्षं वेत्ति वार्त्तया । पश्चात् कूटस्थः एव अस्मि इति एवं वेत्ति विचारतः ॥३१॥
कर्ता भोक्ता इति एवम् आदि शोक जातं प्रमुञ्चति । कृतं कृत्यं प्रापणीयं प्राप्तम् इति एव तुष्यति ॥३२॥
अज्ञानम् आवृतिः तद्वत् विक्षेपः च परोक्ष धीः । अपरोक्ष मतिः शोक मोक्षः तृप्तिः निरङ्कुशा ॥३३॥
सप्तावस्थाः इमाः सन्ति चिदाभासस्य तासु इमौ । बन्धमोक्षौ स्थितौ तत्र तिस्रः बन्धकृतः स्मृताः ॥३४॥
न जानामि इति उदासीन व्यवहारस्य कारणम् । विचार प्राक् अभावेन युक्तम् अज्ञानम् ईरितम् ॥३५॥
अमार्गेण विचार्य अथ न अस्ति न भाति च इति असौ । विपरीत व्यवहृतिः आवृतेः कार्यम् इष्यते ॥३६॥
देह द्वय चिदाभास रूपः विक्षेपः ईरितः । कर्तृत्व आदि अखिलः शोकः संसार आख्यः अस्य बन्धकः ॥३७॥
अज्ञानम् आवृतिः च एते विक्षेपात् प्राक् प्रसिद्ध्यतः । यदि अपि अथ अपि अवस्थे ते विक्षेपस्य एव न आत्मनः ॥३८॥
विक्षेप उत्पत्तितः पूर्वम् अपि विक्षेप संस्कृतिः । अस्ति एव तत् अवस्थात्वम् अविरुद्धं ततः तयोः ॥३९॥
ब्रह्मणि आरोपितत्वेन ब्रह्मावस्थे इमे इति । न शंकनीयं सर्वासां ब्रह्मणि एव अधिरोपणात् ॥४०॥