स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥१६१॥
न अनिच्छन्तः न च इच्छन्तः परदाक्षिण्यसंयुताः । सुखदुःखे भजन्ति एतत् परेच्छा पूर्व कर्म हि ॥१६२॥
कथं तर्हि किम् इच्छन् इति एवम् इच्छा निषिध्यते । न इच्छा निषेधः किन्तु इच्छा बाधः भर्जित बीजवत् ॥१६३॥
भर्जितानि तु बीजानि सन्ति अकार्य कराणि च । विद्वत् इच्छा तथा इष्टव्या सत्त्वबोधान् न कार्यकृत् ॥१६४॥
दग्धबीजम् अरोहे अपि भक्षणाय उपयुज्यते । विद्वत् इच्छा अपि अल्पभोगं कुर्यान् न व्यसनं बहु ॥१६५॥
भोगेन चरितार्थत्वात् प्रारब्धं कर्म हीयते । भोक्तव्य सत्यता भ्रान्त्या व्यसनं तत्र जायते ॥१६६॥
मा विनश्यतु अयं भोगः वर्धताम् उत्तरोत्तरम् । मा विघ्नाः प्रतिबध्नन्तु धन्यः अस्मि अस्मात् इति भ्रमः ॥१६७॥
यत् अभावि न तत् भवि चेत् न तत् अन्यथा । इति चिन्ता विषग्नः अयं बोधः भ्रमनिवर्तकः ॥१६८॥
समे अपि भोगे व्यसनं भ्रान्तः गच्छेत् न बुद्धवान् । अशक्य अर्थस्य संकल्पात् भ्रान्तस्य व्यसनं बहु ॥१६९॥
मायामयत्वं भोगस्य बुद्ध्वा आस्थाम् उपसंहरन् । भुञ्जानः अपि न संकल्पं कुरुते व्यसनं कुतः ॥१७०॥
स्वप्न इन्द्रजाल सदृशम् अचिन्त्य रचनात्मकम् । दृष्ट नष्टं जगत् पश्यन् कथं तत्र अनुरज्यति ॥१७१॥
स्वस्वप्नम् आपरोक्ष्येण दृष्ट्वा पश्यन् स्वजागरम् । चिन्तयेत् अप्रमत्तः सन् उभौ अनुदिनं मुहुः ॥१७२॥
चिरं तयोः सर्वसाम्यम् अनुसन्धाय जागरे । सत्यत्वबुद्धिं सन्त्यज्य न अनुरज्यति पूर्ववत् ॥१७३॥
इन्द्रजालम् इदं द्वैतम् अचिन्त्य रचनात्वतः । इति अविस्मरतः हानिः का वा प्रारब्धभोगतः ॥१७४॥
निर्बन्धः तत्त्वविद्याया इन्द्रजालत्वसंस्मृतौ । प्रारब्धस्य अग्रहः भोगे जीवस्य सुखदुःखयोः ॥१७५॥
विद्या आरब्धे विरुद्ध्येते न भिन्न विषयत्वतः । जानद्भिः अपि ऐन्द्रजाल विनोदः दृश्यते खलु ॥१७६॥
जगत् सत्यत्वम् आपाद्य प्रारब्धं भोजयेत् यदि । तदा विरोधि विद्याया भोगमात्रान् न सत्यता ॥१७७॥
अनुनः जायते भोगः कल्पितैः स्वप्नवस्तुभिः । जाग्रत् वस्तुभिः अपि एवम् असत्यैः भोग इष्यताम् ॥१७८॥
यदि विद्या अपह्नुविता जगत् प्रारब्ध घातिनी । तदा स्यात् न तु मायात्वबोधेन तत् अपह्नवः ॥१७९॥
अनपह्नुत्य लोकाः तत् इन्द्रजालम् इदं तु इति । जानन्ति एव अनपह्नुत्य भोगं मायात्वधीः तथा ॥१८०॥