तृप्तिदीपः - श्लोक १०१ ते १२०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


वेदान्तानाम् अशेषाणाम् आदि मध्य अवसानतः । ब्रह्म आत्मनि एव तात्पर्यम् इति धीः श्रवणं भवेत् ॥१०१॥

समन्वयाध्याय एतत् सूक्तं धी स्वास्थ्यकारिभिः । तर्कैः सम्भावनार्थस्य द्वितीय अध्यायः ईरिता ॥१०२॥

बहुजन्मदृढाभ्यासात् देहादिषु आत्मधीः क्षणात् । पुनः पुनः उदेति एवं जगत् सत्यत्व धीः अपि ॥१०३॥

विपरीता भावना इयम् ऐकाग्र्यात् सा निवर्तते । तत्त्व उपदेशात् प्राक् एव भवति एतत् उपासनात् ॥१०४॥

उपास्तयः अतः एव अत्र ब्रह्मशास्त्रे अपि चिन्तिताः । प्राक् अनभ्यासिनः पश्चात् ब्रह्माभ्यासेन तत् भवेत् ॥१०५॥

तत् चिन्तनं तत् कथनम् अन्यः अन्यं तत् प्रबोधनम् । एतत् एकपरत्वं च ब्रह्माभ्यासं विदुः बुधाः ॥१०६॥

तम् एव धीरः विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । न अनुध्यायात् बहून् शब्दान् वाचः विग्लापनं हि तत् ॥१०७॥

अनन्याः चिन्तयन्तः मां ये जनाः पर्युपासते । तेषां नित्य अभियुक्तानां योगक्षेमं वहामि अहम् ॥१०८॥

इति श्रुति स्मृति नित्यम् आत्मनि एकाग्रतां धियः । विधत्तः विपरीताया भावनायाः क्षयाय हि ॥१०९॥

यत् यथा वर्तते तस्य तत्त्वं हित्वा अन्यथात्व धीः । विपरीत भावना स्यात् पित्रादौ अरि धीः यथा ॥११०॥

आत्मा देहादि भिन्नः अयं मिथ्या च इदं जगत् तयोः । देहादि आत्मत्व सत्यत्व धीः विपर्यय भावना ॥१११॥

तत्त्व भावनया नश्येत् सा अतः देह अतिरिक्तताम् । आत्मनः भावयेत् तद्वत् मिथ्यात्वं जगतः अनिशम् ॥११२॥

किं मन्त्र जपवत् मूर्तिध्यानवत् वा आत्मा भेदधीः । जगत् मिथ्यात्व धीः च अत्र व्यावर्त्या स्यात् उत अन्यथा ॥११३॥

अन्यथा इति विजानीहि दृष्टार्थत्वेन भुक्तिवत् । बुभुक्षुः जपवत् भुङ्क्ते न कश्चित् नियतः क्वचित् ॥११४॥

अश्नाति वा न वा अश्नाति भुङ्क्ते वा स्वच्छया अन्यथा । येन केन प्रकारेण क्षुधाम् अपनिनीशति ॥११५॥

नियमेन जपं कुर्यात् अकृतौ प्रत्यवायतः । अन्यथा करणे अनर्थः स्वर वर्ण विपर्ययात् ॥११६॥

क्षुधा इव दृष्टा बाधा कृत् विपरीता च भावना । जेया केन अपि उपायेन न अस्ति अत्र अनुष्ठितेः क्रमः ॥११७॥

उपायः पूर्वम् एव उक्तः तत् चिन्ता कथनादिकः । एतत् एक परत्वे अपि निर्बन्धः ध्यानवत् न हि ॥११८॥

मूर्ति प्रत्यय सान्तत्यम् अन्य अनन्तरितं धियः । ध्यानं तत्र अतिनिर्बन्धः मनसः चञ्चल आत्मनः११९॥

चञ्चलं हि मनः कृष्ण प्रमाथिबलवत् दृढम् । तस्य अहं निग्रहं मन्ये वायोः इव सुदुष्करम् ॥१२०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP