अपि अब्धिपानात् महतः सुमेरूत् मूलनात् अपि । अपि वह्नि अशनात् साधः विशमः चित्तनिग्रहः ॥१२१॥
कथन आदौ न निर्बन्धः शृङ्खला बद्ध देहवत् । किन्तु अनन्त इतिहासात् यैः विनोदः नाट्यवत् धियः ॥१२२॥
चित् एव आत्मा जगत् मिथ्या इति अत्र पर्यवसानतः । निदिध्यासन विक्षेपः न इतिहास आदिभिः भवेत् ॥१२३॥
कृशि वाणिज्य सेवा आदौ काव्य तर्क आदिकेषु च । विक्षिप्यते प्रवृत्त्या धीः तैः तत्त्व स्मृति असम्भवात् ॥१२४॥
अनुसन्दधत एव अत्र भोजन आदौ प्रवर्तितुम् । शक्यते अत्यन्तविक्षेप अभावात् आशु पुनः स्मृतेः ॥१२५॥
तत्त्व विस्मृति मात्रात् न अनर्थः किन्तु विपर्ययात् । विपर्येतुं न कालः अस्ति झटिति स्मरतः क्वचित् ॥१२६॥
तत्त्व स्मृतेः अवसरः न अस्ति अन्य अभ्यास शालिनः । प्रत्युत अभ्यास घटित्वात् बलात् तत्त्वम् उपेक्ष्यते ॥१२७॥
तम् एव एकं विजानीथ हि अन्या वाचः विमुञ्चथ । इति श्रुतं तथा अन्यत्र वाचः विग्लापनम् इति ॥१२८॥
आहार आदि त्यजन् न एव जीवेत् शास्त्रान्तरं त्यजन् । किं न जीवसि येन एवं करोषि अत्र दुराग्रहम् ॥१२९॥
जनक आदेः कथं राज्यम् इति चेत् दृढबोधतः । तथा तव अपि चेत् तर्कं पठ यत् वा कृषिं कुरु ॥१३०॥
मिथ्यात्व वासना दार्ढ्ये प्रारब्धक्षयकाङ्क्षया । अक्लिश्यन्तः प्रवर्तन्ते स्वस्वकर्मानुसारतः ॥१३१॥
अतिप्रसङ्गः मा शक्यः स्वकर्मवशवर्तिनाम् । अस्तु वा कः अत्र शक्येत कर्म वारयितुं वद ॥१३२॥
ज्ञानिनः अज्ञानिनः च अत्र समे प्रारब्धकर्माणि । न क्लेशः ज्ञानिनः धैर्यान् मूढः क्लिश्यति अधैर्यतः ॥१३३॥
मार्गे गन्त्रोः द्वयोः श्रान्तौ समायाम् अपि अदूरताम् । जानन् धैर्यात् द्रुतं गच्छेत् अन्यः तिष्ठति दीनधीः ॥१३४॥
साक्षात् कृतात्मा धीः सम्यक् अविपर्यय बाधितः । किम् इच्छन् कस्य कामाय शरीरम् अनुसंज्वरेत् ॥१३५॥
जगत् मिथ्यात्व धी भावात् अक्षिप्तौ काम्य कामुकौ । तयोः अभावे सन्तापः शाम्येत् निःस्नेहदीपवत् ॥१३६॥
गन्धर्वपत्तने किंचित् न इन्द्रजालिक निर्मिते । जानन् कामयते किन्तु जिहासति हसन् इदम् ॥१३७॥
आपात रमणीयेषु भोगेषु एवं विचारवान् । न अनुरज्यति किन्तु एतान् दोषदृष्ट्या जिहासति ॥१३८॥
अर्थानाम् अर्जने क्लेशः तथा एव परिपालने । नाशे दुःखं व्यये दुःखं धिक् अर्थान् क्लेशकारिणः ॥१३९॥
मांस पाञ्चालिकायाः तु यन्त्रलोले अङ्गपञ्जरे । स्नायु अस्थि ग्रन्थि शालिन्याः स्त्रियाः किम् इव शोभनम् ॥१४०॥