यदा स्वस्य अपि भोक्तृत्वं मन्तुं जिह्रेति अयं तदा । साक्षिणि आरोपयेत् एतत् इति का एव कथा वृथा ॥२२१॥
इति अभिप्रेत्य भोक्तारम् आक्षिपति अविशङ्कया । कस्य कामाय इति ततः शरीर अनुज्वरः न हि ॥२२२॥
स्थूलं सूक्ष्मं कारणं च शरीरं त्रिविधं स्मृतम् । अवश्यं त्रिविधः अस्ति एव तत्र तत्र उचितः ज्वरः ॥२२३॥
वात पित्त श्लेष्म जन्य व्याधयः कोटिशः तनौ । दुर्गन्धित्व कुरूपत्व दाह भङ्ग आदयः तथा ॥२२४॥
काम क्रोध आदयः शान्ति दान्ति आद्याः लिङ्गदेहगाः । ज्वरा द्वये अपि बाधन्ते प्राप्त्या अप्राप्त्याः नरं क्रमात् ॥२२५॥
स्वं परं च न वेत्ति आत्मा विनष्टः इव कारणे । आगामि दुःख बीजं च इति एतत् इन्द्रेण दर्शितम् ॥२२६॥
एते ज्वराः शरीरेषु त्रिषु स्वाभाविकाः मताः । वियोगे तु ज्वरैः तानि शरीराणि एव नासते ॥२२७॥
तन्तोः वियुज्येत पटः वालेभ्यः कम्बलः यथा । मृदः घटः तथा देहः ज्वरेभ्यः अपि इति दृश्यताम् ॥२२८॥
चिदाभासे स्वतः कः अपि ज्वरः न अस्ति यतः चितः । प्रकाश एक स्वभावत्वम् एव दृष्टं न च इतरत् ॥२२९॥
चिदाभासे अपि असम्भाव्याः ज्वराः साक्षिणि का कथा । एवम् अपि एकतां मेने चिदाभासः हि अविद्यया ॥२३०॥
साक्षिसत्यत्वम् अध्यस्य स्वेन उपेते वपुः त्रये । तत् सर्वं वास्तवं स्वस्य स्वरूपम् इति मन्यते ॥२३१॥
एतस्मिन् भ्रान्तिकाले अयं शरीरेषु ज्वरत्सु अथ । स्वयम् एव ज्वराम् इति मन्यते हि कुटुम्बिवत् ॥२३२॥
पुत्रदारेषु तप्यत्सु तपाम् इति वृथा यथा । मन्यते पुरुषः तद्वत् आभासः अपि अभिमन्यते ॥२३३॥
विविच्य भ्रान्तिम् उज्झित्वा स्वम् अपि अगणयन् सदा । चिन्तयन् सक्षिणं कस्मात् शरीरम् अनुसंज्वरेत् ॥२३४॥
अयथा वस्तु सर्प आदि ज्ञानं हेतुः पलायने । रज्जु ज्ञाने अहिधीध्वस्तौ कृतम् अपि अनुशोचति ॥२३५॥
मिथ्या अभियोग दोषस्य प्रायश्चित्तत्व सिद्धये । क्षमापयन् इव अत्मानं साक्षिणं शरणं गतः ॥२३६॥
आवृत्त पाप नुत्ति अर्थं स्नान आदि आवर्त्यते यथा । आवर्तयन् इव ध्यानं सदा साक्षि परायणः ॥२३७॥
उपस्थ कुष्ठिनी वेश्या विलासेषु विलज्जते । जानतः अग्रे तथा आभासः स्वप्रख्यातौ विलज्जते ॥२३८॥
गृहीतः ब्राह्मणः म्लेच्छैः प्रायश्चित्तं चरन् पुनः । म्लेच्छैः संकीर्यते न एव तथा आभासः शरीरकैः ॥२३९॥
यौवराज्ये स्थितः राजपुत्रः साम्राज्यवंछया । राजानुकारी भवति तथा साक्षि अनुकारि अयम् ॥२४०॥