मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीचित्रापुरगुरुपरंपराचरित्र|
श्रीगुरुपरम्परा

चित्रापुरगुरुपरंपरा - श्रीगुरुपरम्परा

सुबोधाचा भाग तर अमोल आहे. तशीच प्रश्नोत्तरी ही ह्या गुरुचरित्राचें अपूर्व वैशिष्ट्य होय.


॥ ॐ ॥
शिवं हरिं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि ॥
दृग्दृश्यज्ञानशून्याय स्वप्रकाशस्वरूपिणे । चिन्मयानन्दरूपाय अच्युताश्रम ते नमः ॥
तस्य पादाम्बुजे लीन आनन्दाश्रमयोगिराट्‌ । तमहं सन्ततं वन्दे सञ्चित्सुखमयं विभुम् ॥
आनन्दाश्रमयोगीन्द्रपादपङ्कजषट्पदः । कैवल्या श्रमविख्यातस्तत्त्वज्ञान निरूपकः ॥
रक्तशुक्लपदद्वन्द्वं स्मृत्वा च गुरुपादुकाम् । ध्यानाद्ब्रह्ममयो जातो नृसिंहाश्रमदेशिकः ॥
तत्पादाम्बुजभक्तिस्थः केशवाश्रमसंज्ञकः । तद्धस्तपद्मसञ्जातः सर्वागमविशारदः ॥
वामनाश्रम इत्याख्यस्तदनन्तरतां गतः । करकञ्जात्तस्य जातः कृष्णाश्रम इतीरितः ॥
पाण्डुरङ्गा श्रमाह्वोऽभूत्त स्मात्कृष्णकराम्बुजात् । परिज्ञानाश्रमगुरुं प्रणतोऽस्मि निरन्तरम् ॥
त्वमेत्र सद्गुरुवरस्त्वमेव परमेश्वरः । त्वमेव सच्चिदानन्दस्त्वां विना नान्यथा गतिः ॥
इत्थं यः पठते नित्यं गुरोर्नामावलिं पराम् । सायं प्रातर्मुहुर्भक्त्या स मुक्तो नात्र संशयः ॥
॥ ॐ तत्सत् ॥

N/A

References : N/A
Last Updated : January 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP