संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रप्रयोग:

व्रतोदयान - अथरुद्रप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ एवंमंडपकुंडादिनिर्मायजपरुद्रेजपांतेशुभेहनिहोमरुद्रेतुआचार्यादिपूजांतेशुभेकालेमंडप
पूजाध्युपयुक्तसंभारान्संभृत्यतत:शुक्लांबरधर:शुक्लमाल्यानुलेपन:सपत्नीक:साचार्यर्त्विक्कोयजमानोमंगलघोषेण संपूर्णकलशहस्तोभद्रंकर्णेभिरितिमंत्रघोषेणमंडपंप्रदक्षिणीकृत्य
पश्चिमद्वारेणप्रविशेत् ॥
ततोमंडपांत:पश्चिमदेशेउपविश्याचम्यदेशकालौस्मृत्वास्वयंब्राह्मणद्वारावाकृतस्यामुकरुद्र
स्यजपांगत्वेन समग्रपक्षेणदशांशेनशतांशेनवावक्ष्यमाणद्रव्येष्वमुकद्रव्येणाहंब्राह्मणद्वारा
वायथाशक्त्तिहोमंकरिष्यइतिजपरुद्रेसंकल्पयेत् ॥
ततोजपरुद्रेहोमरुद्रेचगणेशपूजनंमंडपदेवतास्थापनादिचकरिष्यइतिसंकल्प्यषोडशोपचारैर्ग
णपतिंसंपूज्य ततोगौरसर्षपै:सर्वतोमंडपांतरवकिरेत् ॥ तंत्रमंत्रा: ॥
यदत्रसंस्थितंभूतंस्थानमाश्रित्यसर्वत: ॥ स्थानंत्यक्त्वातुत्सर्वंयत्रस्थंतत्रगच्छतु ॥
अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशं ॥ सर्वेषामविरोधेनब्रह्मकर्मसमारभे ॥ इति ॥
तत:पंचगव्येनकुशै:सर्वत्रप्रोक्षणंकार्यं शुचीवोहव्याइतितृचेनआपोहिष्ठेतितृचेनच ॥
तत:कृतांजलि:स्वस्त्ययनंतार्क्ष्यमितिमंत्रद्वयंजपेत् ॥ ततोवासुपूजनं ॥
आचार्योवास्तुहोमार्थंमंडननैऋत्येस्थंडिलंविधायतदीशानभागेहस्तमात्रांमृदावेदिंविधायतस्या
ईशानादिकोणचतुष्के ॥
विशंतुभूतलेनागा० इत्यादिशंकुरोपणबलिदानवास्तुदेवताऽऽवाहनादिदेवप्रतिष्ठायामुक्तव
त्कुर्यात् ॥
ततआचार्योऽग्निस्थापनाध्याज्यभागांतंकृत्वोदुंबरादियज्ञिययसमित्तिलाज्यचरुन्प्रत्येकमष्ट
शतमष्टाविंशतिमष्टौवा प्रणवादिनमोंततत्तन्नाममंत्रैर्जुहुयात् ॥
द्रव्याणांविकल्पइतिपदार्थादर्शे ॥ ततोवास्तुंवास्तोष्पतेप्रतिजानीह्यस्मानितिचतुर्भिस्तैरेव
द्रव्यै:प्रतिद्रव्यं २८ पुनस्तैरेवचतुर्भिमंत्रैर्वास्तोष्पतेध्रुवास्थूणामितिच ॐ वास्तोष्पतयेनम
इतिवापंचबिल्वफलानितब्दीजानिवाजुहूयात् ॥
तत:स्विष्टकृदादिपूर्णाहुत्यंतंकृत्वाब्रह्मादिभ्य:पायसेननाममंत्रैर्बलिंदत्त्वापावमानेनराक्षोघ्नेनचसूक्तेनमंडपंत्रिसूत्र्यावेष्टयित्वाशांतिकलशोदकेनयजमानमभिषिच्यस्त्रापयेत् ॥
ततोयजमानउत्तरपूजांविधायदेवताविसृज्यब्राह्मणान्भोजयेदिति ॥
एतावत्यशक्तौबलिमात्रंदध्यात् ॥ अतएवशारदातिलकेपायसान्नैर्बलिंहरेदित्येवोक्तंनहोमा
दीतिसांप्रदायिका: ॥
तस्मिन्पक्षेमंडलदेवतापूजनंबलिदानंसूत्रवेष्टनंचेत्यनुष्ठानमिति ॥ (मंडपप्रतिष्ठापूर्वंपंचकुं
डीदेवप्रतिष्ठाप्रयोगेयथावदुक्तेतिनात्रपुन:संगृहीता) ॥
ततोयजमानोऽग्न्यायतनाद्दक्षिणउपविशेत् ॥ आचार्यस्तुमंडपेकुंडपश्चिमतउविश्याचम्य
प्राणानायम्यामुककर्मण्यग्निप्रतिष्ठांकरिष्ये ॥
तदंगतयाकुंडसंमार्जनमेखलायोनिदेवतास्थापनपूजनादिकरिष्ये इतिसंकल्प्याग्न्यायतनंसं
मृज्यकुशोदकेनसंप्रोक्ष्य इदंविष्णुरितिमंत्रेणोपरिमेखलायांश्वेतवर्णालंकृतायांविष्णुमावाह्य
पूजयेत् मध्यमेखलायांरक्तवर्णालंकृतायांब्रह्मजज्ञानमितिब्रह्माणां अधोमेखलायांकृष्णव
र्णालंकृतायांकद्रुद्रायेतिरुद्रं योन्यांरक्तवर्णालंकृतायांगौरीं ॥
तत:स्वशाखोक्तमार्गेणाग्निंप्रतिष्ठाप्यग्रहवेदिकायांसर्वतोभद्रंविरच्यब्रह्मादीन्स्थापयेत् ॥
तत्तन्मंत्रैरेवक्रमेणपूजयित्वातत्तन्मंत्रैर्वानाममंत्रैर्वाप्रत्येकंदशदशाज्याहुतीर्हुत्वाउपहारंनिवेद
येत् ॥
क्षीरौनंदब्रह्मणे घृतान्नमुदकाभिमंत्रितमिंद्राय आज्यौदनमग्नये माषान्नंयमाय कृष्णव्री
ह्यन्नंपुराणघृताक्तंनिऋतये नवनीतौदनंवरुणाय यवौदनंवायवे प्रैयंगवौदनंसोमाय गवेधु
कमीशानायअन्येभ्योयथालाभंसर्वेभ्योवा नैवेध्यषान्नेनदिग्बलि:कार्यइति ॥
ततोवेध्यांनवंवस्त्रंनिधायतत्रकर्णिकामध्येऽष्टदलंविधायतत्रग्रहमंडलानिविलिख्यनवग्रहदेवतास्थापनंमात्स्यग्रहयज्ञक्रमेणकृत्वाइंद्रादिलोकपालावाहनांतेऽत्रविशेष: ॥
रवे:पूर्वेशेषंसोमस्याग्रेवासुकिं भौमस्याग्रेतरक्षकं बुधोत्तरेकर्कोटकं बृहस्पतेरग्रेपद्मं शुक्रोत्तरे
महापद्मं शनिपश्चिमेशंखपालं राहो:पुर:कंबलं केतो:पुर:कुलिकंचनाममंत्रेणस्थापयेत् ॥
ततोबहिर्भूगृहे अश्विन्यादिसप्तनक्षत्राणिविष्कंभादिसप्तयोगा:बवबालवकरणेसप्तद्वीपानि
ऋग्वेदश्च ॥
दक्षिणेपुष्यादिसप्तनक्षत्राणिधृत्यादिसप्तयोगा:कौलवतैतिलकरणेसप्तसागरा:यजुर्वेदश्च ॥
पश्चिमेस्वात्यादिसप्तनक्षत्राणिवज्रादिसप्तयोगा:गरवणिजकरणेसप्तपातालनिसामवेदश्च ॥ उत्तरेअभिजिदादिसप्तनक्षत्राणिसाध्यादिषड्योगा:विष्टिकरणंभूराध्या:सप्तलोका:अथर्ववे
दश्च ॥ वायव्येध्रुव:सप्तर्षयश्च ॥
ततोयथावकाशंगंगाध्या:सप्तसरित:सप्तकुलाचला: अष्टौवसव: एकादशरुद्रा: द्वादशादि
त्या: एकोनपंचाशन्मरुत: षोडशमातर: षडृतव: द्वादशमासा: द्वेअयने पंचदशतिथय: षष्ठिसंवत्सरा: सुपर्णा: नागा: सर्पा: यक्षा: गंधर्वा: विध्याधरा: अप्सरस: रक्षांसि भूतानि मनुष्या: इत्येतेस्थाप्या: ॥
अत्रेकेवलनवग्रहा:स्थाप्याइत्येक:पक्ष: ॥ विनायकादिपंचलोकपालांताद्वात्रिंशद्देवताइत्य
न्य: ॥ अष्टौदिक्पालसहिताइत्यन्य: ॥
शेषादिमनुष्यांतै:सहिताइतिवा एतेषुपक्षेषुबहुत्वाल्पत्वेनतारतम्यंद्रष्टव्यं ॥ तत:पौरुषसू
क्तन्यासपंचांगंन्यासपूर्वकंषोडशोपचारै:पूजनंकुर्यात् ॥ अशक्तौ ॐ आदित्यायनमइदमा
सनमित्याध्यावाहनक्रमेणप्रणवादिनमोंतैर्नाममंत्रैस्तत्तद्दैवत्यैर्वाप्रत्येकंपूजयेत् ॥
एतावत्यशक्तावावाहितादित्यादिदेवताभ्योनमइतिमंत्रेणवासर्वान्पूजयेत् ॥
ततोग्रहवेदीशानभागेअव्रणमकालकंबहिर्दध्यक्षतविभूषितंचंदनमालाविभूषितकलशंमहीध्यौ
रित्यादिग्रहयज्ञवत्संस्थाप्यसंपूज्यप्रार्थयेच्च ॥
ततोरुद्रपीठेचतुर्विंशतिरेखात्मकमष्टलिंगतोभद्रंविरचयेत् ॥ अत्रापि प्रागुक्ताब्रह्माध्यामंड
लदेवता:स्थापयेत् ॥
तदुपरिपीठादौरुद्रयंत्रंरचयेत् ॥ (इदंयंत्रंप्रारंभेयथावदुपकल्पितमस्त्यनेनैवक्रमेण) ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP