संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकाम्यवृषोत्सर्ग:

व्रतोदयान - अथकाम्यवृषोत्सर्ग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथशौनकोक्तमार्गेणवृषोत्सर्गोलिख्यते ॥ वृषलक्षणं ॥ लोहितोयस्तुवर्णेनमुखे
पुच्छेचपांडुर: ॥
श्वेत:खुरविषाणाभ्यांसनीलोवृषउच्यते ॥ यद्वा ॥ चरनास्तुमुखंपुच्छंयस्यश्वेतानिगोपते: ॥ लाक्षयासमवर्णश्चसनीलोवृषौच्यते ॥ एवंलक्षणोमुख:तदभावेयथासंभवंवाग्राह्य: ॥
वृषोत्सर्गादाध्येऽन्हिगृहेगोष्ठेतीर्थेशिवालयेपुण्यक्षेत्रेवायथाशास्त्रंपताकाध्वजशोभितंषोडश
हस्तंद्वादशहस्तंवामंडपंछायामात्रंवाकृत्वातन्मध्ये ईशानभागेवावेदीमष्टहस्तांचतुर्हस्तांवा
सुशोभितांकृत्वाकृतान्हिक:पूर्वाण्हेकृताभ्यंग:कृतमंगलश्चदेशकालादिस्मृत्वा ममसमस्तपि
तृणामुध्दारार्थममुककामनासिध्यर्थंवावृषोत्सर्गाख्यंकर्मश्व:सध्योवाकरिष्ये ॥
तदंगंगणेशपूजनादिकरिष्यइतिसंकल्प्यषोडशोपचारैर्गणपतिंकुलदेवतांचपूजयित्वास्वशाखा
नुसारेणपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकृत्वा आचार्यंवृणुयात् ॥
आचार्योमंडपदेवता:प्रतिष्ठाप्यपताकादितत्तन्मंत्रै:स्थापयेत् ॥ एतस्मिन्नहनिनवग्रहमखम
पिकेचिदिच्छंति ॥
ततोवृषस्यचतसृणांवत्सतरीणांचद्वयोरेकस्यावायथालाभंमांगलिकस्नानादिकारयित्वा ब्राह्मणान्भोजयित्वाहविष्यंयजमानोभुंजीत ॥
तत:श्वोभूतेकृतनित्यक्रिय:वेध्युपरिहस्तमात्रंस्थंडिलंविधायदेशकालौस्मृत्वाउपक्रांतंवृषोत्सर्गमहंकरिष्ये तदर्थमग्निस्थापनादिकरिष्यइतिसंकल्प्यपंचभूसंस्कारपूर्वकमध्वरनामानम
ग्निंस्थापयेत् ॥ स्वयंवृताचार्येणवासध्योऽथिवासनंकार्य ॥
अग्निस्थापनेदेशादीशान्यांपंचगोमातर:पीठेवस्त्रोपरिपूज्या: ॥ ॐ आनंदाम्स्थापयामि ॐ
सुमनसां० ॐ सुभद्रां० ॐ सुभद्रशीलां० ॐ सुरभिं० एता:संपूज्यतासामग्रेआग्नेय्यांवाधा
न्योपरिनवमव्रणंरुद्रकलशंवस्त्रवेष्टितपंचरत्नपंचपल्लवहिरण्यादियुतंआकलशेष्वितिस्थाप
यित्वा इमंमेगंगेइतिजएनापूर्यतदुपरिताम्रवंशादिमयेभाजनेयथाशक्तिसुवर्णनिर्मितांरुद्रप्रति
मांस्थापयित्वासंपूज्यचएकब्राह्मणेनरुद्रमंत्रेणानुमंत्रणंकारयेत् ॥
ततोवत्सतरीभि:सहवृषंशुध्दोदकेन आपोहिष्ठाकयान इतिसूक्ताभ्यामभिषिंचेत् ॥
आपोहिष्ठेतिनवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीप आपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठा
अंत्येद्वेअनुष्टुभौवृषवत्सतर्यभिषेकेविनियोग: ॥
कयानइतितिसृणांवामदेवइंद्रोगायत्रीतृतीयापादनिचृत् ॥ वृषवत्सतर्यभि० ॐ कयानश्चि
त्र० ३ ॥
ततोवस्त्राक्षतगंधमाल्यैरलंकृत्य अन्वाधानंकरिष्यइतिसंकल्प्यचक्षुषीआज्येनेत्यंतमुक्त्वा
अत्रप्रधानं रुद्रंचरुणा सोमंपायसेन इंद्रंयावकेन शेषेणस्विष्टकृतमितिसध्योयक्ष्यइत्युक्त्वा
परिसमूहनादिपूर्णपात्रनिधानांतंकृत्वा रुद्रायत्वाजुष्टंनिर्वपामीत्यादिनिर्वापप्रोक्षणादिक्रमेण
चर्वादिश्रपणंकृत्वाऽवदानधर्मेणजुहुयात् ॥
ॐ रुद्रायस्वाहा रुद्रायेदंनमम इतिचरुं ॥ सोमायस्वाहा सोमायेदं० इतिपायसं० ॥ इंद्राय
स्वाहा इंद्रायेदं० इतियावकं ॥ यावकंनाम यवानांतंडुलैर्निष्पन्नश्चरु: ॥
तत:स्विष्टकृदादिपरिसमूहनांतंकृत्वाऽकृत्वावास्त्रीभिर्विवाहवत्कृतमांगलिकंवृषंप्रादक्षिण्येनवेध्याउत्तरतोनीत्वाप्राड्मुखंवृषंस्वयमुदड्मुखोमधुपर्केणयथागृह्यंपूजयेत् ॥
ततोऽलंकरणैर्वृषंभूषयित्वावस्त्रछत्रोपानत्कांस्यभाजनाचमनपात्रादियथाशक्तिसमर्प्यहरिद्राकुंकुमादिनालंकृत्यदक्षिनोरौतप्तेनराजतत्रिशूलेनांकयित्वामोरौरौक्मेणचक्रेणांकयेत् ॥
अभावेआयसाभ्यां ॥ उत्सर्गकालेवांऽकनं ॥ अस्मिन्पक्षेअंकनार्थंचिन्हमात्रंकार्यमस्मिन्का
ले ॥ ततोवृषेन्यास: ॥
ॐ इषेत्वेतिमूर्ध्नि ॥ ॐ इमारुद्रायेतिशूलांके ॥ ॐ नमस्तेरुद्रइतिचक्रांके ॥ ॐ सहस्त्रा
णिसहस्त्रशोयेरुद्राइतिललाटे ॥
ॐ विभ्राडितिभ्रुवो: ॥ ॐ त्र्यंबकमितिनेत्रयो: ॥ ॐ मानस्तोकेइतिनासिकायां ॥ ॐ अवतत्येतिमुखे ॥ ॐ नीलग्रीवौद्वौकंठे ॥ ॐ मर्माणिइतिबाहुमध्यत: ॥ ॐ समिधाग्निमितिबाहुभ्यां ॥ ॐ नमोव:किरिकेभ्यइतिहृदि ॥
ॐ हिरण्यगर्भइतिनाभौ ॥ ॐ मीढुष्टमेतिकटयां ॥ ॐ मानोमहांतमित्यूर्वो: ॥ ॐ उदुत्यमितिजंघयो: ॥
ॐ इमारुद्रायेतिजान्वो: ॥ ॐ रक्षोहनमितिगुदे ॥ ॐ वृष्णस्तइतिलिंगे ॥ ॐ ऋषभंमेतिपुच्छे ॥ ॐ त्रिपादूर्ध्वइतिखुरेषु ॥
एवंन्यासंकृत्वावेध्या:समीपमानीयअग्ने:पश्चिमभागेस्वगृह्योक्तविधिनासर्वंविवाहंचतुर्भिर्व
त्सतरीभि:सहकुर्यात् ॥ तत्रप्रयोग: ॥
देशकालौस्मृत्वाममसर्वेषांपूर्वजानांनिरतिशयसानंदब्रह्मलोकावाप्त्यर्थं अमुककामनयाश्रीरु
द्रस्वरुपिणेवृषायवत्सतरीकन्यादानमहंकरिष्ये इतिसंकल्प्यदीर्घमायुरस्त्वित्यादिसर्वंवृषखु
रेकार्यं ॥
तत:पूर्ववत्संकल्प्यरुद्रस्वरुपायवृषायगौरीस्वरुपाइमा:यथाशक्त्यलंकृता:वत्सतरीस्तुभ्यमहं
संप्रददे ॥ (एकद्व्यादिवत्सतरीपक्षेगौरीस्वरुपामिमांयथाशक्त्यलंकृतांवत्सतरीं-इमेवत्सत
र्यौवेतियोज्यं) अनेनवत्सतरीदानेनभगवान्वृषस्वरुपीश्रीरुद्र:प्रीयतामित्युक्ता ॥
अस्यनीलोद्वाहस्यप्रतिष्ठासिध्यर्थंइदंहिरण्यंदक्षिणात्वेनसंप्रददे ॥ एवंकन्यादानंयथास्वगृ
ह्यंकार्यं ॥ ततोवृषवत्सतरीणामभिषेकोरुद्रकलशस्थोदकेनैभिर्मंत्रै:कार्य: ॥
आपोहिष्ठेतिनवभि: ॥ समुद्रज्येष्ठाइतिचतसृभि: ॥ इमंमेगंगेइत्येकया ॥ कयानइत्येक
या ॥ सहस्त्राक्षंतधारमृषिभि:पावनंकृतं ॥
तेनत्वामभिषिंचामिपावमान्य:पुनंतुमां ॥ भगंतेवरुणोराजाभगंसुर्योबृहस्पति: ॥ भगमिंद्र
श्चवायुश्चभगंसप्तर्षयोददु: ॥
यत्तेकेशेषुदौर्भाग्यंसीमंतेयच्चमूर्धनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तद्‍घ्नंतुसर्वदा ॥ सुरास्त्वा
मभिषिंचंतु० एतैर्मंत्रैरभिषिच्यवृषकर्णेमंत्रंजपेत् ॥
धर्मस्त्वंवृषरुपेणजगदानंदकारक ॥ अष्टमूर्तेरधिष्ठानमत:पाहिसनातन ॥ तत: ॐ तीक्ष्णशृंगायविद्महेवेद्पादायधीमहि ॥ तन्नोवृष:प्रचोदयात् ॥ इतिवृषगायत्र्यापूजयेत्प्रार्थ
येच्च ॥ ततोऋषभंमासमानानामितिप्रार्थयेत् ॥
ततोगवांप्रार्थना ॥ गावोमेअग्रत:संतुगावोमेसंतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेसंतुगवां
मध्येवसाम्यहं ॥ पंचगाव:समुत्पन्नामथ्यमानेमधोदधौ ॥
तासांमध्येतुयानंदातस्यैधेन्वैनमोनम: ॥ यलक्ष्मी:सर्वभूतानांयाचदेवेष्ववस्थिता ॥ धेनु
रुपेणसादेवीममपांपंव्यपोहतु ॥
अयंहिषोमयादत्त:सर्वासांपतिरुत्तम: ॥ तुभ्यंचैतामयादत्ता:पत्न्य:सर्वमनोरमा: ॥ इत्युक्त्वा
सर्वमपिविवाहहोमंलाजादिनाआचार्योवृषान्वारब्ध:कुर्यात् ॥
ततोग्ने:पूर्वत:उदड्मुखंवृषंकृत्वाताम्रपात्रेप्राड्मुखोयवैस्तिलैश्चतत्पुच्छेतर्पणंकुर्यात् ॥
वत्सतरीपुच्छमपिवृषपुच्छेमेलयेत् ॥ तध्यथा ॥ पूर्वोक्तएवंगुणविध्सेषणविशिष्टायांशुभ
पुण्यतिथौदेवर्षिपितृणांदुर्गतिगतानांचतृप्तयेआत्मनआकल्पंसंतानाविच्छेदार्थंवृषपुच्छेतर्पणमहंकरिष्यइतिसंकल्प्य ॥
ब्रह्मादयोयेदेवास्तान्देवास्तान्देवांस्तर्पयामीत्यादियथागृह्यंतर्पणंकृत्वा ॥ तत:प्राचीनावी
तीदक्षिणामुख:पित्रादित्रयीमात्रादित्रयीमातामहादित्रयीमातामह्यादित्रयीत्यादिसर्वांस्तर्पयेत्
यावंत:स्मर्यंतेतांश्चसर्वान् ॥
तत:पुराणश्लोकैस्तर्पयेत् ॥ तध्यथा ॥ ब्रह्माध्यादेवता:सर्वाऋषयोमुनयस्तथा ॥ असुरा
यातुधानाश्चमातरश्चंडिकास्तथा ॥ दिक्पालालोकपालाश्चग्रहदेवाधिदेवता: ॥
तेसर्वेतृप्तिमायांतुनीलपुच्छेसुतर्पिता: ॥ विश्वेदेवास्तथादित्या:साध्याश्चैवमरुद्गणा: ॥
क्षेत्रपीठोपपीठानिनदानध्यश्चसागरा: ॥ पातालेनागपत्न्यश्चनागाश्चैवसपर्वता: ॥
पिशाचागुह्यका:प्रेतागंधर्वागुह्यराक्षसा: ॥ पृथिव्यापश्चतेजश्चवायुराकाशमेवच ॥
दिविभुव्यंतरेचैवपातालवासिन: ॥ शिव:शिवातथाविष्णु:सिध्दिर्लक्ष्मी:सरस्वती ॥
तपोधनाश्चभगवानव्यक्त:परमेश्वर: ॥ क्षेत्रौषधिलतावृक्षावनस्पत्यधिदेवता: ॥
कपिल:शेषनागश्चतक्षकोऽनंतएवच ॥
अन्येजलचराजीवाअसंख्यातास्त्वनेकश: ॥ चतुर्दशयमाश्चैवयेचान्येयमकिंकरा: ॥
सर्वेऽपियक्षराजान: पक्षिण:पशवस्तथा ॥ स्वेदजोभ्दिज्जजाजीवाअंडजाश्चजरायुजा: ॥
अन्येऽपिवनजीवायेदिवानिशिवहारिण: ॥
अजागोमहिषीरुपायेचान्येपशवस्तथा ॥ शांतिदा:शुभदास्तेस्युनींलपुच्छेसुतर्पिता: ॥
आब्रह्मस्तंबपर्यतंयेचान्येगोत्रिणस्तथा ॥
तेसर्वेतृप्तिमायांतुनीलपुच्छेसुतर्पिता: ॥ सर्पव्याघ्रहतायेचशृंगिदंष्ट्रयनिलाग्निभि: ॥
अपुत्राअक्रियायेचअदाराधर्मवजिर्ता: ॥ आमगर्भमृतायेचशस्त्रपातमृताश्चये ॥
संस्काररहितायेचरौरवादिषुगामिन: ॥ आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवा: ॥
तप्यंतुपितर:सर्वेमातृमातामहादय: ॥ अतीतकुलकोटीनांसप्तद्वीपनिवासिनां ॥
आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकं ॥ पितृवंशेमृतायेचमातृवंशेतथैवच ॥
गुरुश्वशुरबंधूनांयेचान्येबांधवामृता: ॥ येमेकुलेलुप्तपिंडा:पुत्रदारविवर्जिता: ॥
क्रियालोपगतायेचजात्यंधा:पंगवतस्था ॥ विरुपाआमगर्भाश्चज्ञाता:कुलेमम ॥
तेपिबंतुमयादत्तंवृषभपुच्छेतिलोदकं ॥ येऽबांधवाबांधवावाअन्यजन्मनिबांधवा: ॥
तेसर्वेतृप्तिमायांतुवृषपुच्छतिलोदकै: ॥ वृक्षत्वंचगता:केचित्तृनगुल्मलतास्थिता: ॥
यातनासुचघोरासुज्ञातीषुविविधासुच ॥ नरकेषुचघोरेषुपतितायेस्वकर्मणा ॥
देवत्वंमानुषत्वंवातिर्यक् प्रेतपिशाचतां ॥ कृमिकीटपतंगत्वंगतायेचस्वकर्मभि: ॥
तेषामुध्दरणार्थायजलमेतद्ददाम्यहं ॥ आब्रह्मस्तंबपर्यंतंजगत्तृप्यत्वितिब्रुवन् ॥
तर्पणांतेपुत्रकामश्चेध्यजमानस्तर्हिदंपतीउपविश्य अध्येत्यादिसत्पुत्रावाप्यर्थंस्नानमहं
करिष्यइतिसंकल्पपूर्वकंसप्तधान्यफलान्वितवंशपात्रेपुच्छान्येकीकृत्यतदुपर्युदकदानेन
वारुणमंत्रै:समुद्रज्येष्ठाइत्यादिभिश्चस्त्रापयेद्वंशपात्रगलितोदकेनतदधस्तादुपविष्टौ
दंपतीआचार्य: ॥
ततस्तानिवस्त्राणिपरित्यज्यनववस्त्राणिपरिधायपिंडदानमित्यपिशिष्टसंप्रदाय: ॥
एवंतर्पणंकृत्वावेध्यांवृषस्यदक्षिणेखुरेपायसेनचरुणाज्येनहविष्ण्येणवापित्रादिभ्य:सर्वेभ्यो
दक्षिणाभिमुखेनपिंडदानंकार्यं येयेस्मर्यंतेतेभ्यश्च ॥
अत्र मात्रादित्रयेमातामह्यादित्रयेचपृथक् दध्यात् ॥ पिंडदानेहोमचरुशेषंग्राह्यं ॥
श्राध्दमपिकार्यमितिकेचित् ॥ पिंडदानसंकल्पस्तुपूर्वोक्तविशेषणविशिष्टेदेशेकालेचपितृतृ
प्यर्थंआकल्पंतेषांब्रह्मलोकनिवासार्थं दुर्गतिगतानांस्मर्यमाणानामस्मर्यमाणानांचोध्दारार्थं
आत्मनश्चाकल्पंसंतानाविच्छेदार्थंवृषस्यधर्मरुपस्यदक्षिणखुरेपिंडदानमहंकरिष्यइति ॥
एवंसर्वेभ्य:पिंडान्दत्त्वापुराणश्लोकै: ॥ पितृवंशेमृतायेचमातृवंशेचयेमृता: ॥
गुरुश्वशुरबंधूनांयेचान्येबांधवामृता: ॥ येमेकुलेलुप्तपिंडा:पुत्रदारविवर्जिता: ॥
क्रियालोपगतायेचजात्यंधा:पंगवस्तथा ॥ विरुपाआमगर्भाश्चज्ञाताऽकुलेमम ॥
खुरेदत्तेनपिंडेनतृप्तायांतुपरांगतिं ॥ वृक्षयोनिंगतायेचतिर्यग्योनिंगताश्चये ॥
पंगुत्वंचगतायेवैयेचमूकत्वमागता: ॥ आब्रह्मणोयेममवंशजातामातुस्तथावंशभवामदीया: ॥ वंशद्वयेयेममदासभूताभृत्त्यास्तथैवाश्रितसेवकाश्च ॥  
मित्राणिसख्य:पशवश्चवृक्षाइष्टाश्चदृष्टाश्चकृतोपकारा: ॥ जन्मांतरेयेममसंगताश्चतेभ्य:
स्वधापिंडमहंददामि ॥
अजातदंतायेकेचिध्येचगर्भेप्रपीडिता: ॥ तेषामुध्दरणार्थायइमंपिंडंददाम्यहं ॥ बंधुवर्गेचये
केचिन्नामगोत्रविवर्जिता: ॥ स्वगोत्रेपरगोत्रेवातेभ्य:पिंडंददाम्यहं ॥
उद्बंधनमृतायेचविषशस्त्रहताश्चये ॥ श्रृंगिभिर्दंष्ट्रिभिर्वापितेभ्य:पिंडंददाम्यहं ॥
अग्निदाहेमृतायेचसिंहव्याघ्रहताश्चये ॥ आत्मनोघातिनोयेचतेभ्य:पिंडंददाम्यहं ॥
अग्निदग्धाश्चयेकेचिन्नाग्निदग्धास्तथापरे ॥ विध्युच्चोरहतायेचतेभ्य:पिंडंददाम्यहं
रौरवेचांधतामिस्त्रेकालसूत्रेचयेगता: ॥ तेषामुध्दरणार्थायइमंपिंडंददाम्यहं ॥
असिपत्रवनेघोरेकुंभीपाकेचयेगता: ॥ तेषामुध्दरणा० ॥ अनेकयातनासंस्थामृता:प्रेतेषुये
गता: ॥ तेषामु० ॥
असंख्ययातनासंस्थायेनीतायमकिंकरै: ॥ तेषामु० ॥ पशुत्वंचगतायेचपक्षिकीटसरीसृपा: ॥ अथवावृक्षयोनिस्थास्तेभ्य:पिंडं० ॥
अन्यैर्दुर्मुरणैर्येचक्षुधयातृषयामृता: ॥ भूतप्रेतपिशाचाश्चतेभ्य:पिंडं० ॥ दिव्यंतरिक्षभूमि
ष्ठा:पितरोबांधवादय: ॥
तेसर्वेतृप्तिमायांतुपिंडेनानेनसर्वदा ॥ जात्यंतरसहस्त्रेषुभ्रमंत:स्वेनकर्मणा ॥ मानुष्यंदुर्लभं
येषांतेभ्य:पिंडं० ॥
येकेचित्प्रेतरुपेणवर्तंतेपितरोमम ॥ तेसर्वेतृप्ति० ॥ एवंपिंडदानंकृत्वाशेषंसर्वंसमापयेत् ॥
पिंडदक्षिणांदत्त्वाब्राह्मणैर्वृषखुरेपिंडदानंसंपूर्णमस्त्वितिवाचयित्वा पिंडोध्दारणादिसर्वंकृत्वा
वृषवत्सतरीरग्निदक्षिणतआनीयाग्ने:पूर्वतोदक्षिणामुखस्त्रिशूलेनदक्षिणौरौवामेचक्रेणचांकयित्वाविसर्जयेत् ॥
प्रांच:केचित्रिशूलमात्रमिच्छंति ॥ देशकालौस्मृत्वा इमंचतुर्विधमुक्तिरुपंवत्सतरीचतुष्टय
युतं यथाशक्त्यलंकृतं पितृणामुध्दारपूर्वकमाकल्पंब्रह्मलोकप्राप्तये आकल्पंसंतानाविच्छे
दायचवृषमुत्सृजामीतिसंकल्प्य प्रांचमुत्सृजेत् ॥
वज्रंतंपृष्ठेहस्तंदत्त्वाऽनुमंत्रयीत ॥ एतंयुवानमित्यस्ययाज्ञवल्क्योवृषभस्त्रिष्टुप् वृषानुमंत्र
णेविनियोग: ॥
ॐ एतंयुवानंपरिवोददामितेनक्रीळंतीश्चरतप्रियेण ॥ मान:शाप्तजनुषासुभागारायस्पोषेण
समिषामदेम ॥ इति ॥
शांतातेपृथिवीशिवमंतरिक्षंध्यौस्तेदेव्यभयंकृणोतु ॥ शिवादिश:प्रदिशउद्दिशस्तआपोविध्यु
त:परिपांतुसर्वत:शांति:शांति:शांति: इतित्रि: ॥
सर्वतोव्रजस्वेतिब्रूयात् ॥ ऋषभंमेतिपंचर्चस्यसूक्तस्यऋषभभोनंदीश्वरोनुष्टुप् अंत्यामहा
पंक्ति: ऋषभोपस्थानेविनियोग: ॥ ॐ ऋषभंमासमानानां० ऋच: ५ ॥
ततोवृषंपूर्वदिगभिमुखंकृत्वा ॥ कद्रुदायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्री तृतीया
मैत्रावरुणीअंत्यस्तृच:सौम्योंत्याऽनुष्टुप् पूर्वदिगुपस्थाने० ॥ ॐ कद्रुद्रायप्रचेतसे०ऋ० ९ ॥
सूक्तजपांतेहेवृषगोभि:सहतृणानिभक्षयथेष्टंपर्यटेतिवदेत् ॥ अथदक्षिणाभिमुखंकृत्वा ॥
इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोजगती अंत्येत्रिष्टुभौ ॥ दक्षिणदिगुपस्थाने० ॥
ॐ इमारुद्रायतवसेकपर्दिने० ऋ० ११ ॥
सूक्तजपांतेगोभि:सहेतिपूर्ववद्वदेत् ॥ तत:प्रत्यड्मुखंकृत्वा ॥ आतेपितरितिपंचदशर्चस्य
सूक्तस्यगृसमदोरुद्रस्त्रिष्टुप् ॥
पश्चिमदिगुपस्थानेविनि० ॥ ॐ आतेपितर्मरुतांसुम्नमेतु० ऋ० १५ ॥ सूक्तजपांतेगोभि:
सहेत्यादिपूर्ववद्ववेत् ॥
अथोदड्मुखंकृत्वा ॥ इमारुद्रायस्थिरधन्वनइतिचतसृणांवसिष्ठोरुद्रोजगतीअंत्यात्रिष्टुप् ॥
उत्तरदिगुपस्थाने० ॥ ॐ इमारुद्रायस्थिरधन्वनेगिर:० ऋ० ४ ॥
सूक्तजपांतेगोभि:सहेतिपूर्ववद्वेत् ॥ ततोगच्छतिवृषेऽनुगच्छन्स्तुवीत ॥ वृषोहिभगवान्ध
र्मोमुक्तयोवत्सिकाइमा: ॥ सारुप्यंचैवसान्निध्यंसायुज्यंचसलोकतां ॥
इमा:सरुपा:पत्न्यस्तुचतस्त्रस्त्वगोपते ॥ कल्पिता:क्रीडनार्थंचत्वयासार्धंव्रजंत्विमा: ॥
धर्मोसित्वंचतुष्पाद:स्मृतोवत्सतरीस्त्विमा: ॥ चतुर्णांपोषणार्थायमयोत्सृष्टास्त्वयासह ॥
देवानांचपितृणांचमनुष्याणांचयोगत: ॥ भूतानांतृप्तिजननास्त्वयासार्धंव्रजंत्विमा: ॥
नमोब्रह्मण्यदेवायदेवर्षिपितृपोषक ॥ त्वयिमुक्तेऽक्षयालोकाममसंतुनिरामया: ॥
वृषोहिभगवान्धर्मश्चतुष्पाद:प्रकीर्तित: ॥ वृणोमितमहंभक्त्यासमांरक्षतुसर्वदा ॥
धर्मतस्तवसंभूति:स्वाहात्वंचविभावसो: ॥ वृषरुपेणसादेवीसर्वकामप्रदास्तुमे ॥
अदितिर्देवमातात्वंवेदमातातथेश्वरी ॥ धेनुरुपेणसादेवीममपापंव्यपोहतु ॥
गावोमेअग्रत:संतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेनित्यंगवांमध्येवसाम्यहं ॥
यालक्ष्मी:सर्वदेवानांयाचदेवेष्ववस्थिता ॥ धेनुरुपेणसादेवीममपापंव्यपोहतु ॥
पंचगाव:समुत्पन्नामथ्यमानेमहोदधौ ॥ तासांमध्येतुयानंदातस्यैनमोनम: ॥
धर्मंदेहियशोदेहिपुत्रान्देहिसुसंपद: ॥ एकोत्तरशतंचैवकुलानांतारयस्वमे ॥
रुद्रमायामयादत्ता:पत्न्यस्तववृषोत्तम ॥ पित्रर्नोत्तारणार्थायपर्यटस्वमहीमिमां ॥
खुराग्रक्षेपणै:सर्वंममपापंव्यपोहतु ॥ पितरस्तृप्तिमायांतुखुराग्रजलसीकरै: ॥
येत्वांहिंसंतिपाप्मानोनरकंयांतुतेऽक्षयं ॥ येत्वांरक्षंतिधर्मिष्ठा:सुखभाजोभवंतुते ॥
तवदर्पकृतोच्चाटैर्नदीकूलविहारणै: ॥
अक्षय्या:संतुमेलोका:पूर्वजानांचसौरभ ॥ धनसंतानमारोग्यंबांधवानांविशोकतां ॥
तत:प्रदक्षिनीकृत्यत्यवृषंतमभिवादयेत् ॥ धारणाध्दर्मइत्याहुधर्मेणविधृता:प्रजा: ॥
चरत्वंधर्मरुपेणवृषवत्सतरीयुत: ॥ धर्मस्त्वंवृषरुपेणब्रह्मणानिर्मित:पुरा ॥
तवोत्सर्गप्रभावेणउध्दरस्वमहार्णवात् ॥ एवंनमस्कृत्यमंत्रवाध्यघोषेणसीमांतंनीत्वोत्सृजेत् ॥ सनवाह्योगाव:पत्न्यश्चनदोह्या: ॥
ततआगत्यचरणक्षालनाचमनादिविधायस्थापितदेवतानामुत्तरपूजांविधायविसृज्यसर्वंदेवप्रति
मादिआचार्यायदध्यात् ॥
रुद्रकलश:सोपस्करोरुद्रजापकायदेय: ॥ तत:प्रायश्चित्तादिहोमशेषंसमापयेत् ॥ केचित्स्वि
ष्टकृदाध्यत्रैवेच्छंति ॥
कर्मण:सांगतासिध्यर्थंशतब्राह्मणान्पंचविंशतिंयथाशक्तिवाभोजयिष्ये ॥ यथाशक्ति
तिलानुदकुंभंवासोहिरण्यंगांचदध्यात् ॥
सूत्रांतरेतुसवत्सागौर्दक्षिणा ॥ सर्वानृत्विज:संपूज्यतेभ्योदक्षिणांनिरीक्षिताज्यदानंचकृत्वा
भूयसींदत्त्वाशिषोग्राह्या: ॥
एवंयथोक्तविधिनायस्तुनीलंसमुत्सृजेत् ॥ सर्वसिध्दिमवाप्नोतियथातेब्रह्मचारिणइत्यादि
फलकथनंविस्तरभयान्नकथितंहेमाध्यादेरवगंतव्यं ॥
इतिभट्टरामेश्वरसुतनारायणभट्टकृत:काम्यवृषोत्सर्गआश्वलायनीयानाम् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP