संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपार्थिवशिवपूजा

व्रतोदयान - अथपार्थिवशिवपूजा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ अथलिंगार्चनचंद्रिकायांशिवपार्थिवपूजाविधि: ॥ तत्रादौकृतावश्यकक्रि
य:स्नानादिनाशुचिर्भूत्वाधृतत्रिपुंड्ररुद्राक्षमाल:प्रयत:शुक्लवस्त्रंपरिधायउदीचींदिशंगत्वाशुचौ
देशे पाषाणवीटकेशास्थिवालुकादिदोषरहितांमृदंदृष्ट्वातत्रगंधाध्युपचारै:भूमिंसंपूज्यनत्वाई
शानकोणगतांमृदंशस्त्रेणोत्कीर्यअष्टांगुलमृदमपाकृष्यभूमिंप्रार्थयेत् ॥
उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ मृत्तिकेत्वांचगृह्णामिप्रजयाचधनेनच ॥ इतिमंत्रेणशु
ध्दांमृदमादायअंत्यजादिस्पर्शरहितोमौनीगृहमागत्यशुचिस्थलेतांस्थापयेत् ॥
तत:चैलाजिनकुशोत्तरेआसनेउदड्मुखउपविश्यआचम्यपवित्रापाणि:प्राणानायम्यआसनाविधिं
कृत्वागौरसर्षपांश्चतुर्दिक्षुविकीर्य ॥
देशकालाध्युच्चार्यममसकलमनोरथसिध्यर्थंदुरितक्षयद्वाराश्रीभवानीशंकरप्रीत्यर्थंशिवपार्थिवपूजनंकरिष्ये ॥
कलशघंटादिपूजनांते कलशोदकेनपूजासंभारानात्मानंचप्रोक्ष्य ॐ हरायनम:इतिच्चूर्णंकुर्या
त् ॐ वामदेवायेतिजलसेचनं ॐ महेश्वरायेति संघट्टनं ॐ तत्पुरुषायेति पिंडीकरणं ॐ समस्ताघनाशिने इत्यभ्दि:पूतेवामपाणौवेदिकायांताम्रपात्रेवाबिल्वपत्रंनिधायतदुपरिसाक्षत
पुष्पंलिंगंसंस्थाप्यप्राणप्रतिष्ठांकुर्यात् ॥
अस्यश्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्माविष्णुरुद्राऋषय: प्राणाख्यादेवता पार्थिवलिंगप्राणप्रति
ष्ठापनेविनियोग: ॥
शिवस्यप्राणा:वाक् चक्षु:श्रोत्रजिह्वाघ्राणत्वक् पाणिपादपाय़ूपस्थादिसर्वेंद्रियाणिइहागत्यसु
खंसुचिरंतिष्ठंतुशिवेहागच्छेहतिष्ठममपूजांगृहाण ॥
स्वामिन्सर्वजगन्नाथयावत्पूजावसानकं ॥ तावत्त्वंप्रीतिभावेनलिंगेऽस्मिन्सन्निधोभव ॥
इतिसंप्रार्थ्य ॥
ॐ नम:शिवायेतिमूलमंत्रेणषडंगन्यासंकुर्यात् ॥ ध्यानं ॥ दक्षोत्संगनिषण्णकुंजरमुखंप्रे
म्णाकरेणस्पृशन्वमांकेस्थितवल्लभांकललितंस्कंदंकरेणस्पृशन् ॥
इष्टाभीतिमनोहरंकरयुगंबिभ्रत्प्रसन्नाननोभूयान्न:शरदिंदुसुंदरतनु:श्रेयस्कर:शंकर: ॥
आत्मानंदरुद्ररुपंध्यात्वा निर्दिष्टनामभि:पूजयेत् ॥
ॐ शूलपाणयेनम: आवाहनं० ॐ पिनाकधृषे० आसनं ॐसध्योजाताय० पाध्यं ॐ भवो
भ्दवाय० अर्घ्यं ॐ वामदेवाय० आचमनीयं० ॐ ज्येष्ठाय० मधुपर्कस्नानं ॐ ईश्वराय०
पय:स्नानं ॐ शिवाय० दधिस्नानं ॐ गिरिशाय० घृतस्नानं ॐ उमाधवाय० मधुस्नानं
ॐ शिवाय० शर्करास्नानं ॐ महेश्वराय० अभिषेकं ॐ ज्येष्ठाय० वस्त्रं ॐ रुद्राय० उपवीतं ॐ कालाय० चंदनं ॐ कलविकरणाय० अक्षतान् ॐ बलविकरणाय० पुष्पंबिल्वं
च ॐ बलाय० धूपं ॐ बलप्रमथनाय० दीपं ॐ सवंभूतदमनाय० नैवेध्यं ॐ मनोन्मनाय० आचमनीयं मध्येपानीयं उत्तरापोशनं ॐ शंभवे० तांबूलंदक्षिणांच ॐ शंकराय० फलं प्रदक्षिणां उत्तरनीराजनंच ॐ भवानीशंकराय० मंत्रपुष्पांजलिं ॐ शंभवे०
नमस्कारान् यस्यस्मृत्येति ॥
अनेनकृतपार्थिवलिंगपूजनेनश्रीभवानीशंकर:प्रीयताम् ॥ द्विराचामेत् ॥
इतिशिवपार्थिवपूजासमाप्ता ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP