संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथानंतचतुर्दशीव्रतम्

व्रतोदयान - अथानंतचतुर्दशीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: तिथ्यादिसंकीर्त्य आत्मनोनिखिलपापनिर्मुक्तिपूर्वकोत्तमसिध्दपुत्रपौत्रसहितविविध
भोगधनधान्यपरमगतिप्राप्तिकामनयाचतुर्दशवर्षाचरितानंतव्रतोध्यापनंकरिष्ये इतिसंक
ल्प्य नित्यवत्स्वयंदेवंसंपूजयेत् ॥
ततोवृताचार्य:सर्वतोभद्रेब्रह्मादिदेवताआवाह्य तदुपरिकलशंप्रतिष्ठाप्य तत्रयमुनामावाह्य
श्रीसूक्तेननाममंत्रेणवासंपूज्य तदुपरिअक्षतपूरितपूर्णपात्रंनिधाय तत्राष्टदलंविरच्य तत्रदर्भ
मयंशेषंनिधायतदुपरिसुवर्णनिर्मितं चतुर्दशग्रंथियुतं अनंतंसहस्त्रशीर्षेतिमंत्रेणस्थापयेत् ॥
तदुत्तरत:सप्तधान्योपरिविस्तृतशय्यायांस्वर्णनिर्मितंलक्ष्मीसहितंहैमंहलमुसलयुतंअनंतदेवं
इदंविष्णुरितिमंत्रेणस्थापयेत् ॥
स्वर्णदोरकप्रतिमयो: पुरुषसूक्तेनश्रीमदनंतायनमइतिनाममंत्रेणवापूजावार्षिकवत्कार्या ॥
अथग्रंथिदेवता:पूजयेत् क्रमेण ॥
विष्णवे० १ अग्नये० २ आदित्याय० ३ सहस्त्राक्षाय० ४ पितामहाय० ५ इंद्राय० ६ पिनाकिने० ७ विघ्नेशाय० ८ स्कंदाय० ९ सोमाय० १० वरुणाय० ११ पवनाय० १२ पृथिव्यै० १३ वसुभ्यो० १४ ॥
तत:शय्यायांप्रतिमाया:परित:शंखं १ चक्रं २ गदां ३ पद्मं ४ ॥ तद्वहि:नाममंत्रेण अनंतं
१ कपिलं २ दक्षं ३ मनुं ४ प्रजापतिं ५ संकर्षणं ६ कालं ७ वनमालिनं ८ त्रिविक्रमं ९ अहोरात्रे १० अर्धमासं ११ मासं १२ ऋतन् १३ अयने १४ संवत्सरं १५ इदुवत्सरं १७ वत्सरं १८ प्रजाध्यक्षं १९ अजितं २० सर्वभूतं २१ प्रध्युम्नं २२ अनिरुध्दं २३ श्रीधरं २४
पुरुषोत्तमं २५ वामनं २६ पद्मनाभं २७ विश्वरुपम् २८ त्रिविक्रमम् २९ विष्णुम् ३० अच्युतम् ३१ ॥
तद्वहि: अष्टवसून् ८ ॥ तद्वहि: एकादशरुद्रान् ११ तद्वहि: द्वादशादित्यान् १२ तद्वहि: नवग्रहान् ९ तद्वहि: अष्टभैरवान् ८ तद्वहि: अश्विन्यादिनक्षत्राणि २८ तद्वहि: ब्राह्म्यदिसप्तमातृ: ७ तद्वहि: चैत्रादिद्वादशमासान् १२ तद्वहिर्दीप्त्यादिश
क्ति: तद्वहिर्विष्कंभादियोगान् २७ आवाह्य ॥
पीठपरित: फलपक्वान्नपूरितांश्चतुर्दशकुंभांश्चतुर्दशनामभि:स्थापयेत्पूजयेच्च ॥
तत्रमंत्रा: ॥ अनंतायनम: १ संकर्षणाय० २ कमलाय० ३ शेषाय० ४ वासुदेवाय० ५
विश्वनाथाय० ६ विश्वरुपाय० ७ पद्मनाभाय० ८ दामोदराय० ९ जगन्नाथाय० १०
चतुर्भुजाय० ११ श्रीकंठाय० १२ केशवाय० १३ सर्वात्मने० १४ ॥
नमस्तेदेवदेवेशनमस्तेधरणीधर ॥ नमस्तेसर्वनागेंद्रअनंतायनमोनमइतिप्रार्थना ॥
अत्रप्रधानं श्रीमदनंतमश्वत्थसमित् १ तिल २ व्रीहि ३ यव ४ घृत ५ पायस ६ द्रव्यै:
प्रत्येकमष्टोत्तरशत १०८ संख्याहुतिभि: पीठदेवता: आवरणदेवताश्चप्रत्येकंप्रतिद्रव्यमेकैक
याज्याहुत्यापायसाज्याभ्यांवा ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
स्थापनमंत्रैर्होम: ॥ केचिद्दिवैवहोममिच्छंतिप्रातर्ब्राह्मणभोजनमात्रं दिवैवसर्वंवा ॥
तत:पीठंसंपूज्यवस्त्रादिनाआचार्यंसंपूज्यपीठंदध्यात् ॥
तत्रमंत्र: ॥ प्रतिगृह्णद्विजश्रेष्ठसमस्तफलदायक ॥ त्वत्प्रसादाहंविप्रमुच्येयंभवबंधनात् ॥ अनंत:प्रतिगृह्णातिअनंतोवैददातिच ॥ अनंतस्तारकोभाभ्यामनंतायनमोनम: ॥
तत:चतुर्दशब्राह्मणान्वस्त्रादिनासंपूज्यपक्वानादिनाभोजयेत् ॥ इत्यंनंतचतुर्दशीव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP