संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ७६ - ८०

देवप्रवाहः - सुभाषित ७६ - ८०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


७६. सकिरणचन्द्रः

अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥

वसुकल्पस्य । (ंन्२.४१, सु.र. ९२१, शा.प. ३६३६, सा.द. उन्देर्७.४, Kप्२३७)

सद्यः कुङ्कुमपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्ययमच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥

राजशेखरस्य । (सु.र. ९०८)

सलीलं लिम्पद्भिर्धवलधवलैरम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाममृतघृतकुल्यामुपनयन्न्
अयं देवः प्राचीमवतरति ताराप्रैवृढः ॥३७८॥

हरेः ।

गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर्मसृणमाक्रमते क्रमेण ।
गोभिर्नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुरयमम्बरमावृणोति ॥३७९॥

कस्यचित। (सु.र. ९४५)

रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीमिव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥

भृङ्गस्वामिनः ।

७७. चन्द्ररश्मिः

ये पूर्वं यवशूकसूचिसुहृदो ये केतकाग्रच्छद
च्छायाधामभृतो मृणाललतिका लावण्यभाजश्च ये ।
ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्
तेऽमी स्फाटिकदण्डडम्बररुचो जाताः सुधांशोः कराः ॥३८१॥

राजशेखरस्य । (वि.शा.भ. ३.१०, सु.र. ९५३)

कपाले मार्जारः पय इति करान्लेढि शशिनः  
तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति  
प्रभामत्तश्चन्द्रो जगदिदमहो विह्वलयति ॥३८२॥

तस्यैव । (Kप्५४६, स्व. १९९४, स.क.आ. ३.११४, सु.र. ९०५)

निद्रानन्दकरीर्नितान्तधवला आमोदिनीरप्यमूः
पीयूषं मधु वर्षतीरपि तमोभृङ्गान्निराकुर्वतीः ।
आकाशद्रुममञ्जरीरिव विधोर्भासः ककुप्कामिनी
लीलोत्तंसरुचः करोति नियतं बाणान्प्रसूनायुधः ॥३८३॥

सुरभेः ।

एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर्
नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर्
वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ॥३८४॥

तस्यैव ।

हारश्रीसुहृदो रथाङ्गरमणीसंन्यासपुण्यापगा
वन्दीभूतमधुव्रताब्जकलिकाकाराकवाटार्गलाः ।
उन्मीलन्ति चकोरदैवतसुधापूर्णाहुतीनां स्रुवो
व्योमान्तःपरिमाणसूत्रसरलास्तास्ता हिमांशोः कलाः ॥३८५॥

अभिनन्दस्य ।
७८. ज्योत्स्ना

शीतांशुः शशिकान्तनिर्मलशिला तस्यां प्रसुप्तः सुखं
जग्ध्वा ध्वान्ततृणाङ्कुरान्मृगशिशुः खण्डेन्द्रनीलत्विषः ।
निद्रामुद्रितलोचनालसतया रोमन्थफेनच्छटां
रोदःकन्दरपूरणाय तनुते ज्योत्स्नाच्छलेनामुना ॥३८६॥

कापालिकस्य ।

संप्रत्याक्रमते पुरन्दरपुरीकासारकह्लारिणी
कोषोद्धाटनकुञ्जिकाः प्रकटयन्नारम्भतः कौमुदीः ।
पौरस्त्याद्रितटीकुटुम्बि मृगयुव्यापारितास्त्रव्यध
व्यङ्गक्रोडकुरङ्गसङ्गलदसृक्संसर्गशोणः शशी ॥३८७॥

अपिदेवस्य ।

कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव  
प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां  
कुर्वन्पार्वणशर्वरीपतिरसावुद्दाम विद्योतते ॥३८८॥

परमेश्वरस्य । (सु.र. ९३७)

सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत।
उन्मेयाकलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥३८९॥

राजशेखरस्य । (शा.प. ३६३८, सूक्तिमुक्तावलि ७२.१५, सु.र. ९५२)

क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्
तत्क्षोभाज्जलबुद्बुदा इव भवन्त्यालोहितास्तारकाः ।
चन्द्रः क्षीरमिव क्षरत्यविरतं धारासहस्रोत्करैर्
उद्ग्रीवैस्तृषितैरिवाद्य कुमुदैर्ज्योत्स्नापयः पीयते ॥३९०॥

विक्रमादित्यचण्डालविद्याकालिदासानाम् । (सु.र. ९२७)

७९. कलङ्कः

महानीलश्यामं नरकरिपुवक्षो वियदिदं
ततांशुश्रेणीकस्तुहिनकिरणः कौस्तुभमणिः ।
कलङ्कोऽप्येतस्य प्रमुखनिवसत्तोयाधिसुता
स्तनासङ्गस्फूर्जन्मदलिखितपत्रप्रतिकृतिः ॥३९१॥

सुरभेः ।

किरद्वारां धारा इव किरणधाराः प्रतिदिशं
तुषारांशोर्बिम्बं मणिघटितधारागृहमिव ।
इहायं कस्तूरीहरिणमदपङ्काङ्किततनुः
कलङ्कव्याजेन प्रतिवसति कन्दर्पनृपतिः ॥३९२॥

प्रतिनन्दस्य ।

शेषस्याहेर्व्रजति तुलनां मण्डलीभूतमूर्तेर्
इन्दुः कुन्दस्तवकविशदः पार्वणोऽयं यथैव ।
व्योमाभोधौ सजलजलदश्यामरोचिस्तथोच्चैर्
अङ्कः शङ्कामयमपि हरेस्तत्र सुप्तस्य धत्ते ॥३९३॥

राजशेखरस्य ।

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बमम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥३९४॥

तस्यैव । (सु.र. ९२८)

यथायं भात्यंशून्दिशि दिशि किरन्कुन्दविशदान्
शशाङ्कः काश्मीरीकुचकलशशलावण्यघटितः ।
तथायं कस्तूरीमसिलिखितमुद्रामतितुलां
नवाम्भोदच्छेदच्छविरपि समारोहति मृगः ॥३९५॥

शर्वस्य । (सु.र. ९३९)
८०. सतमश्चन्द्रः

प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्
तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रभवति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥३९६॥

राजशेखरस्य । (Kप्१३९, स्व२००४, सूक्तिमुक्तावलि ७२.४, सु.र. ९२६)

निःससार करघातविदीर्ण
ध्वान्तदन्तिरुधिरारुणमूर्तिः ।
केशरीव कटकादुदयाद्रेर्
अङ्कलीनहरिणो हरिणाङ्कः ॥३९७॥

भवभूतेः ।

प्रत्यग्रप्रसरे तमिस्रपटले बिम्बैकमात्रोदया
रम्भे शीतरुचावकीर्णकिरणे रम्योऽयमेकः क्षणः ।
यस्मिन्नीलनिचोलकेन पिहितं कृत्वा तदेकान्ततः
सिन्दूरारुणचक्रमुद्रितमिव त्रैलोक्यमालोक्यते ॥३९८॥

कस्यचित।

अथ जगदवगाढं वासरान्तापचारात्
तिमिरपटलवृद्धावप्रतीकारसत्त्वम् ।
शशिभिषगनुपूर्वं शीतहस्तोऽभिषज्यन्न्
अधिकविशदवक्त्रः स्वैरभावं चकार ॥३९९॥

कस्यचित।

य एष प्रत्यूषे रविशवरमालोक्य पुरतो
नभःपारावारं न्यविशत भयादिन्दुशफरः ।
स सायं निःशङ्कं चटुलतरतारार्भकशतैश्
चरन्मन्दं मन्दं तिमिरजलनीलीमुदयते ॥४००॥

वैद्यगदाधरस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP