संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित २६ - ३०

देवप्रवाहः - सुभाषित २६ - ३०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२६. काली

यद्वक्त्राकाशशेषो नभसि न सुलभो यद्भुजानां सहस्रैः
प्रेङ्खद्भिः कीर्यमाणास्वनुरपि विदितो नावकाशो दिशासु ।
पञ्च ग्रासा न यस्यास्त्रिभुवनमभवत्पूरणार्थंअ समस्तं
क्ष्ण्ड्त्क्षामाकाण्डचण्डी चिरमवतुतरां भैरवी कालरात्रिः ॥१२६॥

भासोकस्य ।

शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले
गले ताराहारस्तरलमुडुचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्यासिचयरचिता कालि तदयं
तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥१२७॥

कस्यचित।

निर्मांसप्रकटास्थिजालविकटां पातालनिम्नोदरीं
कूपक्रोडगभीरनेत्रकुहरामुन्नद्धजूटाटवीम् ।
दन्तान्तर्गतदैत्यकीकसकणव्याकर्षणव्यापृत
क्रूरैकाग्रनखामखण्डितरुचं त्वां चण्डि वन्दामहे ॥१२८॥

कस्यचित।

तारान्तर्ज्वलदग्निलक्षनयनश्वभ्रान्तकृपान्तरां
क्रुद्दागस्त्यनिरस्तवारिधिपयःपातालनिम्नोदरीम् ।
वन्दे त्वामजितावृतोत्कटसिरापृष्ठास्थिसाराकृतिं
दंष्ट्राकोटितटोत्पतिष्णुदितिजासृक्चर्चितां चर्चिकाम् ॥१२९॥

उमापतिधरस्य ।

जयति तव कूणितेक्षणमश्नत्या दशनपेषमसुरास्थि ।
कल्पशिखिस्फुटदद्रिक्वाणकरालः कडत्कारः ॥१३०॥

शतानन्दस्य ।

२७. अर्धनारीशः

स जयति गिरिकन्यामिश्रिताश्चर्य्मूर्तिस्
त्रिपुरयुवतिलीलाविभ्रमभ्रंशहेतुः ।
उपचयवति यस्य प्रोन्नतैकस्तनत्वाद्
उपरि भुजगहारः स्थानवैषम्यमेति ॥१३१॥

माघस्य ।

आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः  
केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ॥१३२॥

कस्यचित। (स्व६८)

चन्द्रालोकय पश्य पन्नगपते वीक्षध्वमेतद्गणाः
कामारेः स्तनभारमन्थरमुरो लाक्षारुणाङ्घ्रिश्रियः ।
आकर्ण्य त्रिदशापगागिरमिमां सोल्लासमाभाषितां
व्रीडास्मेरनताननो विजयते कान्तार्धनारीश्वरः ॥१३३॥

योगेश्वरस्य ।

स्वच्छन्दैकस्तनश्रीरुभयगतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः ।
यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धं कृपोद्यद्
बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्ष्ण्ड्स्मृतीयम् ॥१३४॥

मुरारेः । (आर्७.३८, सूक्तिमुक्तावलि २.२१)

धम्मिल्लं च जटां च मौक्तिकसरं चाहिं च रत्नानि च
ब्रह्मास्थीनि च कुङ्कुमं च नृशिरश्चूर्णोत्तरं भस्म च ।
क्षौमं च द्विपचर्म चैकवपुषा बिभ्रद्दिशन्नेकतां
भावानामिव योगिनां दिशतु वः श्रेयोऽर्धनारीश्वरः ॥१३५॥

शङ्करदेवस्य ।

२८. शृङ्गारात्मकार्धनारीश्वरः

अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद्
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं
तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥१३६॥

कस्यचित।

अच्छिन्नमेखलमलब्धदृढोपगूढं
अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ
सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥१३७॥

छित्तिपस्य ।

प्रौढप्रेमरसादभेदघटितामङ्गे दधानः प्रियां
देवः पातु जगन्ति केलिकलहे तस्याः प्रसादाय यः ।
व्याहर्तुं प्रणयोचितं नमयितुं मूर्धानमप्यक्षमो
धत्ते केवलमेव वामचरणाम्भोजे करं दक्षिणम् ॥१३८॥

गदाधरस्य ।

मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं
देवस्य स्यादविरलपरीरम्भजन्मा प्रमोदः ।
किन्तु प्रेमस्तिमितमधुरस्निग्धमुग्धा न दृष्टिर्
दृष्टेत्यन्तःकरणमसकृत्ताम्यति त्र्यम्बकस्य ॥१३९॥

भगीरथस्य । (सु.र. ८२)

अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं
नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
इत्युक्त्वा कोपबिद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां
रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥१४०॥

मयूरस्य ।

२९. गणेशः

एकः स एव परिपालयताज्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश
देहार्धहारितवधूक इवकदन्तः ॥१४१॥

वसुकल्पस्य । (सु.र. ९४)

कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर्
मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम्
अविघ्नं हेरम्बो जगदघविघ्âतं घटयतु ॥१४२॥

तस्यैव । (सु.र. ९३)

सन्ध्यासिन्दूररागारुणगगनतलासङ्गिगङ्गोत्तमाङ्ग
त्वङ्गन्नक्षत्रमालाकृतरुचिररुचिः कर्णशंखीकृतेन्दुः ।
निस्तोयऽम्भोदवृन्दैः श्रुतियुगलचलच्चामराडम्बरश्रीर्
अव्याजालङ्कृतिर्वः प्रवितरतु गणग्रामणीर्मङ्गलानि ॥१४३॥

दङ्कस्य ।

गर्जद्गभीरघनघर्घरघोरघोष
दिग्दन्तिभीतिजननोद्गतकण्ठनादः ।
धुन्वन्मुखं तव निरस्यतु सर्वविघ्नं
लम्बोदरः सहजनाठ्यरसप्रवृत्तः ॥१४४॥

पापाकस्य ।

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१४५॥

उमापतिधरस्य ॥
३०. कार्त्तिकेयः

स्वेच्छारम्यं लुठित्वा पितुरुरसि चिरं भस्मधूलीचिताङ्गो
गङ्गावारिण्यगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः सीत्कारकारी जलजडिमरणहन्तपङ्क्तिर्गुहो वः
कम्पी पायादपायाज्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥१४६॥

बाणस्य । (सु.र. ९१, सूक्तिमुक्तावलि २.४३)

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान।
एकं त्रीणि नवाष्ट सप्त षडतिव्यस्तास्तसङ्ख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१४७॥

कस्यचित। (सु.र. ९५, शा.प. १०५)

सुप्तं पक्षपुटे निलीनशिरसं सृष्ट्वा मयूरं पुरः
कृत्तं केन शिरोऽस्य तात कथमित्याक्रन्दतः शैशवात।
अन्तर्हासपिनाकिपाणियुगलस्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणहर्षितस्य हसितं पायात्कुमारस्य वः ॥१४८॥

कस्यचित। (सु.र. ९६)

हंसश्रेणिकुतूहलेन कलयन्भूषाकपालावलीं
बालामिन्दुकलां मृणालरभसादान्दोलयन्पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटमुद्घाटयन्
पायाद्वः पितुरङ्कभाक्शिशुजनक्रीडोन्मुखः षण्मुखः ॥१४९॥

बलभद्रस्य । (सु.र. ९२)

नालैर्नीलोत्पलानां रचितगुरुजटाजूटविन्यासशोभः
कृत्वा संभुग्नकोटिद्वयमथ विसिनीकन्दमिन्दोः प्रदेशे ।
मातुश्चित्रांशुकेन त्वचमुचितपदे पौण्डरीकीं विधाय
क्रीडारुद्रायमाणो जगदवतु गुहो वीक्ष्यमाणः पितृभ्याम् ॥१५०॥

हलायुधस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP