सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ॥१॥
न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥२॥
एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥३॥
सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥४॥
कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ॥५॥
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥६॥
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥७॥
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥८॥
शक्तः परजने दाता स्वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥९॥
भृत्यानामुपरोधेन यत् करोत्यौर्ध्वदेहिकम् । तद् भवत्यसुखौदर्कं जीवतश्च मृतस्य च ॥१०॥
यज्ञश्चेत् प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥११॥
यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः । टुम्बात् तस्य तद् द्रव्यमाहरेद् यज्ञसिद्धये ॥१२॥
आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥१३॥
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥१४॥
आदाननित्याच्चादातुराहरेदप्रयच्छतः । तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥१५॥
तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥१६॥
खलात् क्षेत्रादगाराद् वा यतो वाऽप्युपलभ्यते । आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥१७॥
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ॥१८॥
योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति । स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥१९॥
यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः । अयज्वनां तु यद् वित्तमासुरस्वं तदुच्यते ॥२०॥
न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥२१॥
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥२२॥
कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः । राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥२३॥
न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥२४॥
यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥२५॥
देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रौच्छिष्टेन जीवति ॥२६॥
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥२७॥
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८॥
विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद् भीतैर्विधेः प्रतिनिधिः कृतः ॥२९॥
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥३०॥
न ब्राह्मणो वेदयेत किंचिद् राजनि धर्मवित् । स्ववीर्येणैव तांशिष्यान् मानवानपकारिणः ॥३१॥
स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम् । तस्मात् स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ॥३२॥
श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । वाक्षस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ॥३३॥
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥३४॥
विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥३५॥
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥३६॥
नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥३७॥
प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥३८॥
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ॥३९॥
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥४०॥
अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥४१॥
शूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥४२॥
तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥४३॥
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चैन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥४४॥
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥४५॥
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥४६॥
प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा । न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥४७॥
इह दुश्चरितैः के चित् के चित् पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८॥
सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥४९॥
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥५०॥
अन्नहर्ताऽमयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥५१॥
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा ॥५२॥
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतेनसः ॥५३॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥५४॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥५५॥
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥५६॥
निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥५७॥
रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥५८॥
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥५९॥
परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥६०॥
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागारामदाराणामपत्यस्य च विक्रयः ॥६१॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । भृत्या चाध्ययनादानमपण्यानां च विक्रयः ॥६२॥
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥६३॥
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥६४॥
अनाहिताग्निता स्तेयं ऋणानामनपक्रिया । असत्शास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥६५॥
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥६६॥
ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः । जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥६७॥
खराश्वोष्ट्रमृगैभानामजाविकवधस्तथा । सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥६८॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥६९॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलेधःकुसुमस्तेयमधैर्यं च मलावहम् ॥७०॥
एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक् । यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यग् निबोधत ॥७१॥
ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥७२॥
लक्ष्यं शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽत्मनः । प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्षिराः ॥७३॥
यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥७४॥
जपन् वाऽन्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुज्ञियतेन्द्रियः ॥७५॥
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥७६॥
हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् । जपेद् वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥७७॥
कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥७८॥
ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥७९॥
त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥८०॥
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥८१॥
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥८२॥
धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । तस्मात् समागमे तेषामेनो विख्याप्य शुध्यति ॥८३॥
ब्रह्मणः संभवेनैव देवानामपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥८४॥
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ॥८५॥
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥८६॥
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् । राजन्यवैश्यौ चैजानावात्रेयीमेव च स्त्रियम् ॥८७॥
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृत्वधम् ॥८८॥
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥८९॥
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥९०॥
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयो घृतं वाऽ मरणाद् गोशकृद्रसमेव वा ॥९१॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥९२॥
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥९३॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥९४॥
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद् ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥९५॥
अमेध्ये वा पतेन् मत्तो वैदिकं वाऽप्युदाहरेत् । अकार्यमन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥९६॥
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥९७॥
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥९८॥
सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात्मां भवाननुशास्त्विति ॥९९॥
गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥१००॥
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महनो व्रतम् ॥१॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥२॥
गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥३॥
स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ । नैरृतीं दिशमातिष्ठेदा निपातादजिह्मगः ॥४॥
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥५॥
चान्द्रायणं वा त्रीन् मासानभ्यस्येन्नियतैन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥६॥
एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ॥७॥
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥८॥
चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥९॥
दिवाऽनुगच्छेद् गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥११०॥
तिष्ठन्तीष्वनुतिष्ठेत् तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथाऽसीनो नियतो वीतमत्सरः ॥११॥
आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वौपायैर् विमोचयेत् ॥१२॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥१३॥
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले । भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥१४॥
अनेन विधिना यस्तु गोघ्नो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥१५॥
वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥१६॥
एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥१७॥
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निरृतिं निशि ॥१८॥
हुत्वाऽग्नौ विधिवद् होमानन्ततश्च समित्यृचा । वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽहुतीः ॥१९॥
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥१२०॥
मारुतं पुरुहूतं च गुरुं पावकमेव च । चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥२१॥
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश्चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥२२॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति ॥२३॥
जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत् सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥२४॥
सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद् यावकैस्त्र्यहम् ॥२५॥
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥२६॥
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥२७॥
त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महनो व्रतम् । वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥२८॥
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥२९॥
एतदेव व्रतं कृत्स्नं षण्मासांशूद्रहा चरेत् ) । वृषभेकादशा वाऽपि दद्याद् विप्राय गाः सिताः ॥१३०॥
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । श्वगोधौलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥३१॥
पयः पिबेत् त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाऽब्दैवतं जपेत् ॥३२॥
अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥३३॥
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥३४॥
हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥३५॥
वासो दद्याद् हयं हत्वा पञ्च नीलान् वृषान् गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥३६॥
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥३७॥
जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये । चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥३८॥
दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥३९॥
अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥१४०॥
किं चिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥४१॥
फलदानां तु वृक्षाणां छेदने जप्यमृच्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥४२॥
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥४३॥
कृष्तजानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेद् गां दिनमेकं पयोव्रतः ॥४४॥
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥४५॥
अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥४६॥
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥४७॥
स्पृष्ट्वा दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च । शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत् त्र्यहम् ॥४८॥
ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥४९॥
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥१५०॥
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥५१॥
अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रोच्छिष्टमेव च । जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥५२॥
शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः । तावद् भवत्यप्रयतो यावत् तन्न व्रजत्यधः ॥५३॥
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥५४॥
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥५५॥
क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥५६॥
मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः । स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥५७॥
ब्रह्मचारी तु योऽश्नीयान् मधु मांसं कथं चन । स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥५८॥
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥५९॥
अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तं तूत्तार्यं शोध्यं वाऽप्याशु शोधनैः ॥१६०॥
एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥६१॥
धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥६२॥
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥६३॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः । चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥६४॥
भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥६५॥
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥६६॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकांस्यौपलानां च द्वादशाहं कणान्नता ॥६७॥
कार्पासकीटजोर्णानां द्विशफेकशफस्य च । पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥६८॥
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥६९॥
गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥१७०॥
पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥७१॥
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् । ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥७२॥
अमानुषीषू पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥७३॥
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥७४॥
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥७५॥
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत् पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ॥७६॥
सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥७७॥
यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः । तद् भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥७८॥
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥७९॥
संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद् यौनान्न तु यानासनाशनात् ॥१८०॥
यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥८१॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥८२॥
दासी घटमपां पूर्णं पर्यस्येत् प्रेतवत् पदा । अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥८३॥
निवर्तेरंश्च तस्मात् तु संभाषणसहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥८४॥
ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥८५॥
प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥८६॥
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥८७॥
एतदेव विधिं कुर्याद् योषित्सु पतितास्वपि । वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥८८॥
एनस्विभिरनिर्णिक्तैर्नार्थं किं चित् सहाचरेत् । कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥८९॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥१९०॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्योपनाययेत् ॥९१॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥९२॥
यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥९३॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥९४॥
उपवासकृशं तं तु गोव्रजात् पुनरागतम् । प्रणतं प्रति पृच्छेयुः साम्यं सौम्यैच्छसीति किम् ॥९५॥
सत्यमुक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥९६॥
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥९७॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस्तत् पापमपसेधति ॥९८॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥९९॥
षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥२००॥
उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥१॥
विनाऽद्भिरप्सु वाऽप्यार्तः शारीरं संनिषेव्य च । सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥२॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥३॥
हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥४॥
ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥५॥
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥६॥
शोणितं यावतः पांसून् सङ्गृह्णाति महीतले । तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥७॥
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥८॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥९॥
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति । तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥१०॥
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥११॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥१२॥
एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥१३॥
तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥१४॥
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥१५॥
एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतत्चाण्ड्रायणं स्मृतम् ॥१६॥
एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥१७॥
अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥१८॥
चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥१९॥
यथा कथं चित् पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥२२०॥
एतद् रुद्रास्तथाऽदित्या वसवश्चाचरन् व्रतम् । सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥२१॥
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥२२॥
त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् । स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥२३॥
स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा । ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥२४॥
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः । सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥२५॥
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतेनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥२६॥
ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृत्मुच्यते पापात् तथा दानेन चापदि ॥२७॥
यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते । तथा तथा त्वचैवाहिस्तेनाधर्मेण मुच्यते ॥२८॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ॥२९॥
कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते । नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥२३०॥
एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनोवाङ्मूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥३१॥
अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥३२॥
यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् । तस्मिंस्तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥३३॥
तपोमूलमिदं सर्वं दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥३४॥
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥३५॥
ऋषयः संयतात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥३६॥
औषधान्यगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥३७॥
यद् दुस्तरं यद् दुरापं यद् दुर्गं यच्च दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥३८॥
महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥३९॥
कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥२४०॥
यत् किं चिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः । तत् सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥४१॥
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥४२॥
प्रजापतिरिदं शास्त्रं तपसैवासृजत् प्रभुः । तथैव वेदान् ऋषयस्तपसा प्रतिपेदिरे ॥४३॥
इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते । सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ॥४४॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥४५॥
यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥४६॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥४७॥
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥४८॥
कौत्सं जप्त्वाऽप इत्येतद् वसिष्ठं च प्रतीत्य् ऋचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥४९॥
सकृत्जप्त्वाऽस्यवामीयं शिवसङ्कल्पमेव च । अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥२५०॥
हविष्पान्तीयमभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥५१॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्यर्चं जपेदब्दं यत् किं चेदमितीति वा ॥५२॥
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥५३॥
सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति । स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ॥५४॥
अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥५५॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥५६॥
महापातकसंयुक्तोऽनुगच्छेद् गाः समाहितः । अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ॥५७॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥५८॥
त्र्यहं तूपवसेद् युक्तस्त्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥५९॥
यथाऽश्वमेधः क्रतुराड् सर्वपापापनोदनः । तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥२६०॥
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥६१॥
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः । साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥६२॥
यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥६३॥
ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥६४॥
आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥२६५॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्ताया संहितायामेकादशोऽध्यायः ॥११॥