राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥१॥
ब्राह्म प्राप्तेन सस्कार क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्याय कर्तव्य परिरक्षणम् ॥२॥
राजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥३॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥४॥
यस्मादेषा सुरेन्द्राणा मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५॥
तपत्यादित्यवच्चैष चक्षूषि च मनासि च । न चैन भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥६॥
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥७॥
बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥८॥
एकमेव दहत्यग्निर्नर दुरुपसर्पिणम् । कुल दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ॥९॥
कार्य सोऽवेक्ष्य शक्ति च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थ विश्वरूप पुनः पुनः ॥१०॥
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥११॥
त यस्तु द्वेष्टि समोहात् स विनश्यत्यसशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥१२॥
तस्माद् धर्म यमिष्टेषु स व्यवस्येन्नराधिपः । निष्ट चाप्यनिष्टेषु त धर्म न विचालयेत् ॥१३॥
तस्यार्थे सर्वभूताना गोप्तार धर्ममात्मजम् । ब्रह्मतेजोमय दण्डमसृजत् पूर्वमीश्वरः ॥१४॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद् भोगाय कल्पन्ते स्वधर्मात्न चलन्ति च ॥१५॥
त देशकालौ शक्ति च विद्या चावेक्ष्य तत्त्वतः । यथार्हतः सप्रणयेन्नरेष्वन्यायवर्तिषु ॥१६॥
स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणा च धर्मस्य प्रतिभूः स्मृतः ॥१७॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्ड धर्म विदुर्बुधाः ॥१८॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । समीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥१९॥
यदि न प्रणयेद् राजा दण्ड दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥२०॥
द्यात् काकः पुरोडाश श्वा च लिह्याद्द् हविस्तथा । स्वाम्य च न स्यात् कस्मिश्चित् प्रवर्तेताधरोत्तरम् ॥२१॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात् सर्व जगद् भोगाय कल्पते ॥२२॥
देवदानवगन्धर्वा रक्षासि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥२३॥
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद् दण्डस्य विभ्रमात् ॥२४॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥२५॥
तस्याहुः सप्रणेतार राजान सत्यवादिनम् । समीक्ष्यकारिण प्राज्ञ धर्मकामार्थकोविदम् ॥२६॥
त राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥२७॥
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद् विचलित हन्ति नृपमेव सबान्धवम् ॥२८॥
ततो दुर्ग च राष्ट्र च लोक च सचराचरम् । न्तरिक्षगताश्चैव मुनीन् देवाश्च पीडयेत् ॥२९॥
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतु सक्तेन विषयेषु च ॥३०॥
शुचिना सत्यसधेन यथाशास्त्रानुसारिणा । प्रणेतु शक्यते दण्डः सुसहायेन धीमता ॥३१॥
स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥३२॥
एववृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥३३॥
तस्तु विपरीतस्य नृपतेरजितात्मनः । सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥३४॥
स्वे स्वे धर्मे निविष्टाना सर्वेषामनुपूर्वशः । वर्णानामाश्रमाणा च राजा सृष्टोऽभिरक्षिता ॥३५॥
तेन यद् यत् सभृत्येन कर्तव्य रक्षता प्रजाः । तत् तद् वोऽह प्रवक्ष्यामि यथावदनुपूर्वशः ॥३६॥
ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान् विदुषस्तिष्ठेत् तेषा च शासने ॥३७॥
वृद्धाश्च नित्य सेवेत विप्रान् वेदविदः शुचीन् । वृद्धसेवी हि सतत रक्षोभिरपि पूज्यते ॥३८॥
तेभ्योऽधिगच्छेद् विनय विनीतात्माऽपि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥३९॥
बहवोऽविनयात्नष्टा राजानः सपरिच्छदाः । वनस्था पि राज्यानि विनयात् प्रतिपेदिरे ॥४०॥
वेनो विनष्टोऽविनयात्नहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥४१॥
पृथुस्तु विनयाद् राज्य प्राप्तवान् मनुरेव च । कुबेरश्च धनैश्वर्य ब्राह्मण्य चैव गाधिजः ॥४२॥
त्रैविद्येभ्यस्त्रयी विद्या दण्डनीति च शाश्वतीम् । आन्वीक्षिकी चात्मविद्या वार्तारम्भाश्च लोकतः ॥४३॥
इन्द्रियाणा जये योग समातिष्ठेद् दिवानिशम् । जितैन्द्रियो हि शक्नोति वशे स्थापयितु प्रजाः ॥४४॥
दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च । व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ॥४५॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्या क्रोधजेष्वात्मनैव तु ॥४६॥
मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिक वृथाट्या च कामजो दशको गणः ॥४७॥
पैशुन्य साहस द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डज च पारुष्य क्रोधजोऽपि गणोऽष्टकः ॥४८॥
द्वयोरप्येतयोर्मूल य सर्वे कवयो विदुः । त यत्नेन जयेत्लोभ तज्जावेतावुभौ गणौ ॥४९॥
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत् कष्टतम विद्यात्चतुष्क कामजे गणे ॥५०॥
दण्डस्य पातन चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत् त्रिक सदा ॥५१॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्व पूर्व गुरुतर विद्याद् व्यसनमात्मवान् ॥५२॥
व्यसनस्य च मृत्योश्च व्यसन कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥५३॥
मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥५४॥
पि यत् सुकर कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन कि तु राज्य महोदयम् ॥५५॥
तैः सार्ध चिन्तयेन्नित्य सामान्य सधिविग्रहम् । स्थान समुदय गुप्ति लब्धप्रशमनानि च ॥५६॥
तेषा स्व स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्ताना च कार्येषु विदध्याद्द् हितमात्मनः ॥५७॥
सर्वेषा तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत् परम मन्त्र राजा षाड्गुण्यसयुतम् ॥५८॥
नित्य तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन सार्ध विनिश्चित्य ततः कर्म समारभेत् ॥५९॥
न्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥६०॥
निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥६१॥
तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥६२॥
दूत चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञ शुचि दक्ष कुलोद्गतम् ॥६३॥
नुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥६४॥
मात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते सधिविपर्ययौ ॥६५॥
दूत एव हि सधत्ते भिनत्त्येव च सहतान् । दूतस्तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥६६॥
स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । आकारमिङ्गित चेष्टा भृत्येषु च चिकीर्षितम् ॥६७॥
बुद्ध्वा च सर्व तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद् यथाऽत्मान न पीडयेत् ॥६८॥
जाङ्गल सस्यसपन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्त स्वाजीव्य देशमावसेत् ॥६९॥
धन्वदुर्ग महीदुर्गमब्दुर्ग वार्क्षमेव वा । नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत् पुरम् ॥७०॥
सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत् । एषा हि बाहुगुण्येन गिरिदुर्ग विशिष्यते ॥७१॥
त्रीण्याद्यान्याश्रितास्त्वेषा मृगगर्ताश्रयाप्चराः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥७२॥
यथा दुर्गाश्रितानेतान्नोपहिसन्ति शत्रवः । तथाऽरयो न हिसन्ति नृप दुर्गसमाश्रितम् ॥७३॥
एकः शत योधयति प्राकारस्थो धनुर्धरः । शत दशसहस्राणि तस्माद् दुर्ग विधीयते ॥७४॥
तत् स्यादायुधसपन्न धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥७५॥
तस्य मध्ये सुपर्याप्त कारयेद् गृहमात्मनः । गुप्त सर्वऋतुक शुभ्र जलवृक्षसमन्वितम् ॥७६॥
तदध्यास्योद्वहेद् भार्या सवर्णा लक्षणान्विताम् । कुले महति सभूता हृद्या रूपगुणान्विताम् ॥७७॥
पुरोहित च कुर्वीत वृणुयादेव चर्त्विजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥७८॥
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थ चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥७९॥
सावत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् । स्याच्चाम्नायपरो लोके वर्तेत पितृवत्नृषु ॥८०॥
ध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणा कार्याणि कुर्वताम् ॥८१॥
आवृत्ताना गुरुकुलाद् विप्राणा पूजको भवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥८२॥
न त स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥८३॥
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥८४॥
सममब्राह्मणे दान द्विगुण ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्त वेदपारगे ॥८५॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च । ल्प वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥८६॥
समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः । न निवर्तेत सङ्ग्रामात् क्षात्र धर्ममनुस्मरन् ॥८७॥
सङ्ग्रामेष्वनिवर्तित्व प्रजाना चैव पालनम् । शुश्रूषा ब्राह्मणाना च राज्ञा श्रेयस्कर परम् ॥८८॥
आहवेषु मिथोऽन्योन्य जिघासन्तो महीक्षितः । युध्यमानाः पर शक्त्या स्वर्ग यान्त्यपराङ्मुखाः ॥८९॥
न कूटैरायुधैर्हन्याद् युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥९०॥
न च हन्यात् स्थलारूढ न क्लीब न कृताञ्जलिम् । न मुक्तकेश नासीन न तवास्मीति वादिनम् ॥९१॥
न सुप्त न विसनाह न नग्न न निरायुधम् । नायुध्यमान पश्यन्त न परेण समागतम् ॥९२॥
नायुधव्यसनप्राप्त नार्त नातिपरिक्षतम् । न भीत न परावृत्त सता धर्ममनुस्मरन् ॥९३॥
यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुर्यद् दुष्कृत कि चित् तत् सर्व प्रतिपद्यते ॥९४॥
यत्चास्य सुकृत कि चिदमुत्रार्थमुपार्जितम् । भर्ता तत् सर्वमादत्ते परावृत्तहतस्य तु ॥९५॥
रथाश्व हस्तिन छत्र धन धान्य पशून् स्त्रियः । सर्वद्रव्याणि कुप्य च यो यज् जयति तस्य तत् ॥९६॥
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥९७॥
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । स्माद् धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥९८॥
लब्ध चैव लिप्सेत लब्ध रक्षेत् प्रयत्नतः । रक्षित वर्धयेच्चैव वृद्ध पात्रेषु निक्षिपेत् ॥९९॥
एतच्चतुर्विध विद्यात् पुरुषार्थप्रयोजनम् । स्य नित्यमनुष्ठान सम्यक् कुर्यादतन्द्रितः ॥१००॥
लब्धमिच्छेद् दण्डेन लब्ध रक्षेदवेक्षया । रक्षित वर्धयेद् वृद्ध्या वृद्ध पात्रेषु निक्षिपेत् ॥१॥
नित्यमुद्यतदण्डः स्यान्नित्य विवृतपौरुषः । नित्य सवृतसवार्यो नित्य छिद्रानुसार्यरेः ॥२॥
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥३॥
माययैव वर्तेत न कथ चन मायया । बुध्येतारिप्रयुक्ता च माया नित्य सुसवृतः ॥४॥
नास्य छिद्र परो विद्याद् विद्यात्छिद्र परस्य च । गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः ॥५॥
बकवत्चिन्तयेदर्थान् सिहवत्च पराक्रमे । वृकवत्चावलुम्पेत शशवत्च विनिष्पतेत् ॥६॥
एव विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद् वश सर्वान् सामादिभिरुपक्रमैः ॥७॥
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनैव प्रसह्यैताशनकैर्वशमानयेत् ॥८॥
सामादीनामुपायाना चतुर्णामपि पण्डिताः । सामदण्डौ प्रशसन्ति नित्य राष्ट्राभिवृद्धये ॥९॥
यथोद्धरति निर्दाता कक्ष धान्य च रक्षति । तथा रक्षेन्नृपो राष्ट्र हन्याच्च परिपन्थिनः ॥११०॥
मोहाद् राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराद् भ्रश्यते राज्यात्जीवितात्च सबान्धवः ॥११॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिना यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥१२॥
राष्ट्रस्य सङ्ग्रहे नित्य विधानमिदमाचरेत् । सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखमेधते ॥१३॥
द्वयोस्त्रयाणा पञ्चाना मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशताना च कुर्याद् राष्ट्रस्य सङ्ग्रहम् ॥१४॥
ग्रामस्याधिपति कुर्याद् दशग्रामपति तथा । विशतीश शतेश च सहस्रपतिमेव च ॥१५॥
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शसेद् ग्रामदशेशाय दशेशो विशतीशिने ॥१६॥
विशतीशस्तु तत् सर्व शतेशाय निवेदयेत् । शसेद् ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥१७॥
यानि राजप्रदेयानि प्रत्यह ग्रामवासिभिः । न्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥१८॥
दशी कुल तु भुञ्जीत विशी पञ्च कुलानि च । ग्राम ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥१९॥
तेषा ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥१२०॥
नगरे नगरे चैक कुर्यात् सर्वार्थचिन्तकम् । उच्चैःस्थान घोररूप नक्षत्राणामिव ग्रहम् ॥२१॥
स ताननुपरिक्रामेत् सर्वानेव सदा स्वयम् । तेषा वृत्त परिणयेत् सम्यग् राष्ट्रेषु तत्चरैः ॥२२॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥२३॥
ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेषा सर्वस्वमादाय राजा कुर्यात् प्रवासनम् ॥२४॥
राजा कर्मसु युक्ताना स्त्रीणा प्रेष्यजनस्य च । प्रत्यह कल्पयेद् वृत्ति स्थान कर्मानुरूपतः ॥२५॥
पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाऽच्छादो धान्यद्रोणस्तु मासिकः ॥२६॥
क्रयविक्रयमध्वान भक्त च सपरिव्ययम् । योगक्षेम च सप्रेक्ष्य वणिजो दापयेत् करान् ॥२७॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेत् सतत करान् ॥२८॥
यथाऽल्पाल्पमदन्त्याद्य वार्योकोवत्सषट्पदाः । तथाऽल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥२९॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥१३०॥
आददीताथ षड्भाग द्रुमान् समधुसर्पिषाम् । गन्धौषधिरसाना च पुष्पमूलफलस्य च ॥३१॥
पत्रशाकतृणाना च चर्मणा वैदलस्य च । मृन्मयाना च भाण्डाना सर्वस्याश्ममयस्य च ॥३२॥
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् । न च क्षुधाऽस्य ससीदेत्श्रोत्रियो विषये वसन् ॥३३॥
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत् क्षुधा राष्ट्रमचिरेणैव सीदति ॥३४॥
श्रुतवृत्ते विदित्वाऽस्य वृत्ति धर्म्या प्रकल्पयेत् । सरक्षेत् सर्वतश्चैन पिता पुत्रमिवौरसम् ॥३५॥
सरक्ष्यमाणो राज्ञा य कुरुते धर्ममन्वहम् । तेनायुर्वर्धते राज्ञो द्रविण राष्ट्रमेव च ॥३६॥
यत् कि चिदपि वर्षस्य दापयेत् करसज्ञितम् । व्यवहारेण जीवन्त राजा राष्ट्रे पृथग्जनम् ॥३७॥
कारुकान् शिल्पिनश्चैव शूद्राश्चात्मोपजीविनः । एकैक कारयेत् कर्म मासि मासि महीपतिः ॥३८॥
नोच्छिन्द्यादात्मनो मूल परेषा चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मान ताश्च पीडयेत् ॥३९॥
तीक्ष्णश्चैव मृदुश्च स्यात् कार्य वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ॥१४०॥
मात्यमुख्य धर्मज्ञ प्राज्ञ दान्त कुलोद्गतम् । स्थापयेदासने तस्मिन् खिन्नः कार्यैक्षणे नृणाम् ॥४१॥
एव सर्व विधायैदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥४२॥
विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः । सपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥४३॥
क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥४४॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणाश्चार्च्य प्रविशेत् स शुभा सभाम् ॥४५॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥४६॥
गिरिपृष्ठ समारुह्य प्रासाद वा रहोगतः । रण्ये निःशलाके वा मन्त्रयेदविभावितः ॥४७॥
यस्य मन्त्र न जानन्ति समागम्य पृथग्जनाः । स कृत्स्ना पृथिवी भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥४८॥
जडमूकान्धबधिरास्तैर्यग्योनान् वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥४९॥
भिन्दन्त्यवमता मन्त्र तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥१५०॥
मध्यदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद् धर्मकामार्थान् सार्ध तैरेक एव वा ॥५१॥
परस्परविरुद्धाना तेषा च समुपार्जनम् । कन्याना सप्रदान च कुमाराणा च रक्षणम् ॥५२॥
दूतसप्रेषण चैव कार्यशेष तथैव च । न्तःपुरप्रचार च प्रणिधीना च चेष्टितम् ॥५३॥
कृत्स्न चाष्टविध कर्म पञ्चवर्ग च तत्त्वतः । नुरागापरागौ च प्रचार मण्डलस्य च ॥५४॥
मध्यमस्य प्रचार च विजिगीषोश्च चेष्टितम् । उदासीनप्रचार च शत्रोश्चैव प्रयत्नतः ॥५५॥
एताः प्रकृतयो मूल मण्डलस्य समासतः । ष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥५६॥
मात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । प्रत्येक कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः ॥५७॥
नन्तरमरि विद्यादरिसेविनमेव च । रेरनन्तर मित्रमुदासीन तयोः परम् ॥५८॥
तान् सर्वानभिसदध्यात् सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥५९॥
सधि च विग्रह चैव यानमासनमेव च । द्वैधीभाव सश्रय च षड्गुणाश्चिन्तयेत् सदा ॥१६०॥
आसन चैव यान च सधि विग्रहमेव च । कार्य वीक्ष्य प्रयुञ्जीत द्वैध सश्रयमेव च ॥६१॥
सधि तु द्विविध विद्याद् राजा विग्रहमेव च । उभे यानासने चैव द्विविधः सश्रयः स्मृतः ॥६२॥
समानयानकर्मा च विपरीतस्तथैव च । तदा त्वायतिसयुक्तः सधिर्ज्ञेयो द्विलक्षणः ॥६३॥
स्वयङ्कृतश्च कार्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥६४॥
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । सहतस्य च मित्रेण द्विविध यानमुच्यते ॥६५॥
क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविध स्मृतमासनम् ॥६६॥
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविध कीर्त्यते द्वैध षाड्गुण्यगुणवेदिभिः ॥६७॥
र्थसपादनार्थ च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशश्च द्विविधः सश्रयः स्मृतः ॥६८॥
यदाऽवगच्छेदायत्यामाधिक्य ध्रुवमात्मनः । तदात्वे चाल्पिका पीडा तदा सधि समाश्रयेत् ॥६९॥
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् । त्युच्छ्रित तथात्मान तदा कुर्वीत विग्रहम् ॥१७०॥
यदा मन्येत भावेन हृष्ट पुष्ट बल स्वकम् । परस्य विपरीत च तदा यायाद् रिपु प्रति ॥७१॥
यदा तु स्यात् परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥७२॥
मन्येतारि यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बल कृत्वा साधयेत् कार्यमात्मनः ॥७३॥
यदा परबलाना तु गमनीयतमो भवेत् । तदा तु सश्रयेत् क्षिप्र धार्मिक बलिन नृपम् ॥७४॥
निग्रह प्रकृतीना च कुर्याद् योऽरिबलस्य च । उपसेवेत त नित्य सर्वयत्नैर्गुरु यथा ॥७५॥
यदि तत्रापि सपश्येद् दोष सश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥७६॥
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥७७॥
आयति सर्वकार्याणा तदात्व च विचारयेत् । तीताना च सर्वेषा गुणदोषौ च तत्त्वतः ॥७८॥
आयत्या गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । तीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥७९॥
यथैन नाभिसदध्युर्मित्रोदासीनशत्रवः । तथा सर्व सविदध्यादेष सामासिको नयः ॥१८०॥
तदा तु यानमातिष्ठेदरिराष्ट्र प्रति प्रभुः । तदानेन विधानेन यायादरिपुर शनैः ॥८१॥
मार्गशीर्षे शुभे मासि यायाद् यात्रा महीपतिः । फाल्गुन वाथ चैत्र वा मासौ प्रति यथाबलम् ॥८२॥
न्येष्वपि तु कालेषु यदा पश्येद् ध्रुव जयम् । तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥८३॥
कृत्वा विधान मूले तु यात्रिक च यथाविधि । उपगृह्यास्पद चैव चारान् सम्यग् विधाय च ॥८४॥
सशोध्य त्रिविध मार्ग षड्विध च बल स्वकम् । सापरायिककल्पेन यायादरिपुर प्रति ॥८५॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥८६॥
दण्डव्यूहेन तन् मार्ग यायात् तु शकटेन वा । वराहमकराभ्या वा सूच्या वा गरुडेन वा ॥८७॥
यतश्च भयमाशङ्केत् ततो विस्तारयेद् बलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥८८॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत् प्राची ता कल्पयेद् दिशम् ॥८९॥
गुल्माश्च स्थापयेदाप्तान् कृतसज्ञान् समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥१९०॥
सहतान् योधयेदल्पान् काम विस्तारयेद् बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥९१॥
स्यन्दनाश्वैः समे युध्येदनूपेनोद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥९२॥
कुरुक्षेत्राश्च मत्स्याश्च पञ्चालाशूरसेनजान् । दीर्घाल्लघूश्चैव नरानग्रानीकेषु योजयेत् ॥९३॥
प्रहर्षयेद् बल व्यूह्य ताश्च सम्यक् परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥९४॥
उपरुध्यारिमासीत राष्ट्र चास्योपपीडयेत् । दूषयेच्चास्य सतत यवसान्नोदकैन्धनम् ॥९५॥
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैन रात्रौ वित्रासयेत् तथा ॥९६॥
उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥९७॥
साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतु प्रयतेतारीन्न युद्धेन कदा चन ॥९८॥
नित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद् युद्ध विवर्जयेत् ॥९९॥
त्रयाणामप्युपायाना पूर्वोक्तानामसभवे । तथा युध्येत सपन्नो विजयेत रिपून् यथा ॥२००॥
जित्वा सपूजयेद् देवान् ब्राह्मणाश्चैव धार्मिकान् । प्रदद्यात् परिहारार्थ ख्यापयेदभयानि च ॥१॥
सर्वेषा तु विदित्वैषा समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्वश्य कुर्याच्च समयक्रियाम् ॥२॥
प्रमाणानि च कुर्वीत तेषा धर्मान् यथोदितान् । रत्नैश्च पूजयेदेन प्रधानपुरुषैः सह ॥३॥
आदानमप्रियकर दान च प्रियकारकम् । भीप्सितानामर्थाना काले युक्तम् ॥४॥
सर्व कर्मैदमायत्त विधाने दैवमानुषे । तयोर्दैवमचिन्त्य तु मानुषे विद्यते क्रिया ॥५॥
सह वाऽपि व्रजेद् युक्तः सधि कृत्वा प्रयत्नतः । मित्र हिरण्य भूमि वा सपश्यस्त्रिविध फलम् ॥६॥
पार्ष्णिग्राह च सप्रेक्ष्य तथाक्रन्द च मण्डले । मित्रादथाप्यमित्राद् वा यात्राफलमवाप्नुयात् ॥७॥
हिरण्यभूमिसप्राप्त्या पार्थिवो न तथैधते । यथा मित्र ध्रुव लब्ध्वा कृशमप्यायतिक्षमम् ॥८॥
धर्मज्ञ च कृतज्ञ च तुष्टप्रकृतिमेव च । नुरक्त स्थिरारम्भ लघुमित्र प्रशस्यते ॥९॥
प्राज्ञ कुलीन शूर च दक्ष दातारमेव च । कृतज्ञ धृतिमन्त च कष्टमाहुररि बुधाः ॥२१०॥
आर्यता पुरुषज्ञान शौर्य करुणवेदिता । स्थौललक्ष्य च सततमुदासीनगुणौदयः ॥११॥
क्षेम्या सस्यप्रदा नित्य पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥१२॥
आपदर्थ धन रक्षेद् दारान् रक्षेद् धनैरपि । आत्मान सतत रक्षेद् दारैरपि धनैरपि ॥१३॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । सयुक्ताश्च वियुक्ताश्च सर्वोपायान् सृजेद् बुधः ॥१४॥
उपेतारमुपेय च सर्वोपायाश्च कृत्स्नशः । एतत् त्रय समाश्रित्य प्रयतेतार्थसिद्धये ॥१५॥
एव सर्वमिद राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुर विशेत् ॥१६॥
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान् मन्त्रैर्विषापहैः ॥१७॥
विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥१८॥
परीक्षिताः स्त्रियश्चैन व्यजनोदकधूपनैः । वेषाभरणसशुद्धाः स्पृशेयुः सुसमाहिताः ॥१९॥
एव प्रयत्न कुर्वीत यानशय्याऽऽसनाशने । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥२२०॥
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकाल पुनः कार्याणि चिन्तयेत् ॥२१॥
लङ्कृतश्च सपश्येदायुधीय पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥२२॥
सध्या चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिना चैव प्रणिधीना च चेष्टितम् ॥२३॥
गत्वा कक्षान्तर त्वन्यत् समनुज्ञाप्य त जनम् । प्रविशेद् भोजनार्थ च स्त्रीवृतोऽन्तःपुर पुनः ॥२४॥
तत्र भुक्त्वा पुनः कि चित् तूर्यघोषैः प्रहर्षितः । सविशेत् त यथाकालमुत्तिष्ठेच्च गतक्लमः ॥२५॥
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । स्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ॥२२६॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां सप्तमोऽध्यायः ॥७॥