मनुस्मृतिः - पञ्चमोऽध्यायः

मनुस्मृती हे धर्मशास्त्र आहे. वर्णधर्म, आश्रमधर्म, वर्णाश्रमधर्म, राजधर्म, व्यवहारनिर्णय, स्त्रीधर्म व पुरूषधर्म यांच्या या स्मृतीमध्ये व्याख्या सांगून त्यांची निष्कृती कोणत्या उपायांनी करावी हे सुचविले आहे.


श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् । इदमूचुर्महात्मानमनलप्रभव भृगुम् ॥१॥

एव यथोक्त विप्राणा स्वधर्ममनुतिष्ठताम् । कथ मृत्युः प्रभवति वेदशास्त्रविदा प्रभो ॥२॥

स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः । श्रूयता येन दोषेण मृत्युर्विप्रान् जिघासति ॥३॥

नभ्यासेन वेदानामाचारस्य च वर्जनात् । आलस्यादन्नदोषाच मृत्युर्विप्राञ्जिघासति ॥४॥

लशुन गृञ्जन चैव पलाण्डु कवकानि च । भक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥५॥

लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवास्तथा । शेलु गव्य च पेयूष प्रयत्नेन विवर्जयेत् ॥६॥

वृथा कृसरसयाव पायसापूपमेव च । नुपाकृतमासानि देवान्नानि हवीषि च ॥७॥

निर्दशाया गोः क्षीरमौष्ट्रमैकशफ तथा । आविक सधिनीक्षीर विवत्सायाश्च गोः पयः ॥८॥

आरण्याना च सर्वेषा मृगाणा माहिष विना । स्त्रीक्षीर चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥९॥

दधि भक्ष्य च शुक्तेषु सर्व च दधिसभवम् । यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥१०॥

क्रव्यादान् शकुनान् सर्वान्तथा ग्रामनिवासिनः । निर्दिष्टाश्चेकशफान् टिट्टिभ च विवर्जयेत् ॥११॥

कलविङ्क प्लव हस चक्राह्व ग्रामकुक्कुटम् । सारस रज्जुवाल च दात्यूह शुकसारिके ॥१२॥

प्रतुदाञ्जालपादाश्च कोयष्टिनखविष्किरान् । निमज्जतश्च मत्स्यादान् सौन वल्लूरमेव च ॥१३॥

बक चैव बलाका च काकोल खञ्जरीटकम् । मत्स्यादान् विड्वराहाश्च मत्स्यानेव च सर्वशः ॥१४॥

यो यस्य मासमश्नाति स तन्मासाद उयते । मत्स्यादः सर्वमासादस्तस्मान् मत्स्यान् विवर्जयेत् ॥१५॥

पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिहतुण्डाश्च सशल्काश्चैव सर्वशः ॥१६॥

न भक्षयेदेकचरानज्ञाताश्च मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखास्तथा ॥१७॥

श्वाविध शल्यक गोधा खड्गकूर्मशशास्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्राश्चैकतोदतः ॥१८॥

छत्राक विड्वराह च लशुन ग्रामकुक्कुटम् । पलाण्डु गृञ्जन चैव मत्या जग्ध्वा पतेद् द्विजः ॥१९॥

मत्यैतानि षड् जग्ध्वा कृछ्र सान्तपन चरेत् । यतिचान्द्रायाण वाऽपि शेषेषूपवसेदहः ॥२०॥

सवत्सरस्यैकमपि चरेत् कृछ्र द्विजोत्तमः । ज्ञातभुक्तशुद्ध्यर्थ ज्ञातस्य तु विशेषतः ॥२१॥

यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्याना चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥२२॥

बभूवुर्हि पुरोडाशा भक्ष्याणा मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥२३॥

यत् कि चित् स्नेहसयुक्त भक्ष्य भोज्यमगर्हितम् । तत् पर्युषितमप्याद्य हविःशेष च यद् भवेत् ॥२४॥

चिरस्थितमपि त्वाद्यमस्नेहाक्त द्विजातिभिः । यवगोधूमज सर्व पयसश्चैव विक्रिया ॥२५॥

एतदुक्त द्विजातीना भक्ष्याभक्ष्यमशेषतः । मासस्यातः प्रवक्ष्यामि विधि भक्षणवर्जने ॥२६॥

प्रोक्षित भक्षयेन् मास ब्राह्मणाना च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥२७॥

प्राणस्यान्नमिद सर्व प्रजापतिरकल्पयत् । स्थावर जङ्गम चैव सर्व प्राणस्य भोजनम् ॥२८॥

चराणामन्नमचरा दष्ट्रिणामप्यदष्ट्रिणः । हस्ताश्च सहस्ताना शूराणा चैव भीरवः ॥२९॥

नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्य्ऽहन्यपि । धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥३०॥

यज्ञाय जग्धिर्मासस्येत्येष दैवो विधिः स्मृतः । तोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुयते ॥३१॥

क्रीत्वा स्वय वाऽप्युत्पाद्य परोपकृतमेव वा । देवान् पितॄश्चार्चयित्वा खादन् मास न दुष्यति ॥३२॥

नाद्यादविधिना मास विधिज्ञोऽनापदि द्विजः । जग्ध्वा ह्यविधिना मास प्रेतस्तैरद्यतेऽवशः ॥३३॥

न तादृश भवत्येनो मृगहन्तुर्धनार्थिनः । यादृश भवति प्रेत्य वृथामासानि खादतः ॥३४॥

नियुक्तस्तु यथान्याय यो मास नात्ति मानवः । स प्रेत्य पशुता याति सभवानेकविशतिम् ॥३५॥

सस्कृतान् पशून् मन्त्रैर्नाद्याद् विप्रः कदा चन । मन्त्रैस्तु सस्कृतानद्यात्शाश्वत विधिमास्थितः ॥३६॥

कुर्याद् घृतपशु सङ्गे कुर्यात् पिष्टपशु तथा । न त्वेव तु वृथा हन्तु पशुमिछेत् कदा चन ॥३७॥

यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥३८॥

यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥३९॥

ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थ निधन प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ॥४०॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि । त्रैव पशवो हिस्या नान्यत्रैत्यब्रवीन् मनुः ॥४१॥

एष्वर्थेषु पशून् हिसन् वेदतत्त्वार्थविद् द्विजः । आत्मान च पशु चैव गमयत्युत्तम गतिम् ॥४२॥

गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः । नावेदविहिता हिसामापद्यपि समाचरेत् ॥४३॥

या वेदविहिता हिसा नियताऽस्मिश्चराचरे । हिसामेव ता विद्याद् वेदाद् धर्मो हि निर्बभौ ॥४४॥

योऽहिसकानि भूतानि हिनस्त्यात्मसुखैछया । स जीवाश्च मृतश्चैव न क्व चित् सुखमेधते ॥४५॥

यो बन्धनवधक्लेशान् प्राणिना न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥४६॥

यद् ध्यायति यत् कुरुते रति बध्नाति यत्र च । तदवाप्नोत्ययत्नेन यो हिनस्ति न कि चन ॥४७॥

नाकृत्वा प्राणिना हिसा मासमुत्पद्यते क्व चित् । न च प्राणिवधः स्वर्ग्यस्तस्मान् मास विवर्जयेत् ॥४८॥

समुत्पत्ति च मासस्य वधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमासस्य भक्षणात् ॥४९॥

न भक्षयति यो मास विधि हित्वा पिशाचवत् । न लोके प्रियता याति व्याधिभिश्च न पीड्यते ॥५०॥

नुमन्ता विशसिता निहन्ता क्रयविक्रयी । सस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥५१॥

स्वमास परमासेन यो वर्धयितुमिछति । नभ्यर्य पितॄन् देवास्ततोऽन्यो नास्त्यपुण्यकृत् ॥५२॥

वर्षे वर्षेऽश्वमेधेन यो यजेत शत समाः । मासानि च न खादेद् यस्तयोः पुण्यफल समम् ॥५३॥

फलमूलाशनैर्मेध्यैर्मुन्यन्नाना च भोजनैः । न तत् फलमवाप्नोति यत्मासपरिवर्जनात् ॥५४॥

मा स भक्षयिताऽमुत्र यस्य मासमिहाद् म्यहम् । एतत्मासस्य मासत्व प्रवदन्ति मनीषिणः ॥५५॥

न मासभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूताना निवृत्तिस्तु महाफला ॥५६॥

प्रेतशुद्धि प्रवक्ष्यामि द्रव्यशुद्धि तथैव च । चतुर्णामपि वर्णाना यथावदनुपूर्वशः ॥५७॥

दन्तजातेऽनुजाते च कृतचूडे च सस्थिते । शुद्धा बान्धवाः सर्वे सूतके च तथौयते ॥५८॥

दशाह शावमाशौच सपिण्डेषु विधीयते । र्वाक् सञ्चयनादस्थ्ना त्र्यहमेकाहमेव वा ॥५९॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥६०॥

यथैद शावमाशौच सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यात्निपुण शुद्धिमिछताम् ॥६१॥

सर्वेषा शावमाशौच मातापित्रोस्तु सूतकम् । सूतक मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥६२॥

निरस्य तु पुमाशुक्रमुपस्पृस्यैव शुध्यति । बैजिकादभिसबन्धादनुरुन्ध्यादघ त्र्यहम् ॥६३॥

ह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः । शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥६४॥

गुरोः प्रेतस्य शिष्यस्तु पितृमेध समाचरन् । प्रेतहारैः सम तत्र दशरात्रेण शुध्यति ॥६५॥

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥६६॥

नृणामकृतचूडाना विशुद्धिर्नैशिकी स्मृता । निर्वृत्तचूडकाना तु त्रिरात्रात्शुद्धिरिष्यते ॥६७॥

ऊनद्विवार्षिक प्रेत निदध्युर्बान्धवा बहिः । लङ्कृत्य शुचौ भूमावस्थिसञ्चयनाद् ऋते ॥६८॥

नास्य कार्योऽग्निसस्कारो न च कार्यौदकक्रिया । रण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव तु ॥६९॥

नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥७०॥

सब्रह्मचारिण्येकाहमतीते क्षपण स्मृतम् । जन्मन्येकौदकाना तु त्रिरात्रात्शुद्धिरिष्यते ॥७१॥

स्त्रीणामसस्कृताना तु त्र्यहात्शुध्यन्ति बान्धवाः । यथौक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥७२॥

क्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मासाशन च नाश्नीयुः शयीरश्च पृथक् क्षितौ ॥७३॥

सनिधावेष वै कल्पः शावाशौचस्य कीर्तितः । सनिधावय ज्ञेयो विधिः सबन्धिबान्धवैः ॥७४॥

विगत तु विदेशस्थ शृणुयाद् यो ह्यनिर्दशम् । यत्शेष दशरात्रस्य तावदेवाशुचिर्भवेत् ॥७५॥

तिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् । सवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥७६॥

निर्दश ज्ञातिमरण श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥७७॥

बाले देशान्तरस्थे च पृथक्पिण्डे च सस्थिते । सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥७८॥

न्तर्दशाहे स्याता चेत् पुनर्मरणजन्मनी । तावत् स्यादशुचिर्विप्रो यावत् तत् स्यादनिर्दशम् ॥७९॥

त्रिरात्रमाहुराशौचमाचार्ये सस्थिते सति । तस्य पुत्रे च पत्न्या च दिवारात्रमिति स्थितिः ॥८०॥

श्रोत्रिये तूपसपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणी रात्रि शिष्यर्त्विग्बान्धवेषु च ॥८१॥

प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितः । श्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥८२॥

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥८३॥

न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः । न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥८४॥

दिवाकीर्तिमुदक्या च पतित सूतिका तथा । शव तत्स्पृष्टिन चैव स्पृष्ट्वा स्नानेन शुध्यति ॥८५॥

आचम्य प्रयतो नित्य जपेदशुचिदर्शने । सौरान् मन्त्रान् यथोत्साह पावमानीश्च शक्तितः ॥८६॥

नार स्पृष्ट्वाऽस्थि सस्नेह स्नात्वा विप्रो विशुध्यति । आचम्यैव तु निःस्नेह गामालभ्यार्कमीक्ष्य वा ॥८७॥

आदिष्टी नोदक कुर्यादा व्रतस्य समापनात् । समाप्ते तूदक कृत्वा त्रिरात्रेणैव शुध्यति ॥८८॥

वृथासङ्करजाताना प्रव्रज्यासु च तिष्ठताम् ॥॥ आत्मनस्त्यागिना चैव निवर्तेतोदकक्रिया ॥८९॥

पाषण्डमाश्रिताना च चरन्तीना च कामतः । गर्भभर्तृद्रुहा चैव सुरापीना च योषिताम् ॥९०॥

आचार्य स्वमुपाध्याय पितर मातर गुरुम् । निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥९१॥

दक्षिणेन मृत शूद्र पुरद्वारेण निर्हरेत् । पश्चिमौत्तरपूर्वैस्तु यथायोग द्विजन्मनः ॥९२॥

न राज्ञामघदोषोऽस्ति व्रतिना न च सत्त्रिणाम् । ऐन्द्र स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥९३॥

राज्ञो महात्मिके स्थाने सद्यःशौच विधीयते । प्रजाना परिरक्षार्थमासन चात्र कारणम् ॥९४॥

डिम्भाहवहताना च विद्युता पार्थिवेन च । गोब्राह्मणस्य चेवार्थे यस्य चैछति पार्थिवः ॥९५॥

सोमाग्न्यर्कानिलेन्द्राणा वित्ताप्पत्योर्यमस्य च । ष्टाना लोकपालाना वपुर्धारयते नृपः ॥९६॥

लोकेशाधिष्ठितो राजा नास्याशौच विधीयते । शौचाशौच हि मर्त्याना लोकेभ्यः प्रभवाप्ययौ ॥९७॥

उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः सतिष्ठते यज्ञस्तथाऽशौचमिति स्थितिः ॥९८॥

विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोद रश्मीन् वा यष्टि शूद्रः कृतक्रियः ॥९९॥

एतद् वोऽभिहित शौच सपिण्डेषु द्विजोत्तमाः । सपिण्डेषु सर्वेषु प्रेतशुद्धि निबोधत ॥१००॥

सपिण्ड द्विज प्रेत विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्ताश्च बान्धवान् ॥१॥

यद्यन्नमत्ति तेषा तु दशाहेनैव शुध्यति । नदन्नन्नमह्नैव न चेत् तस्मिन् गृहे वसेत् ॥२॥

नुगम्येछया प्रेत ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाऽग्नि घृत प्राश्य विशुध्यति ॥३॥

न विप्र स्वेषु तिष्ठत्सु मृत शूद्रेण नाययेत् । स्वर्ग्या ह्याहुतिः सा स्यात्शूद्रसस्पर्शदूषिता ॥४॥

ज्ञान तपोऽग्निराहारो मृत्मनो वार्युपाञ्जनम् । वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥५॥

सर्वेषामेव शौचानामर्थशौच पर स्मृतम् । योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥६॥

क्षान्त्या शुध्यन्ति विद्वासो दानेनाकार्यकारिणः । प्रछन्नपापा जप्येन तपसा वेदवित्तमाः ॥७॥

मृत्तोयैः शुध्यते शोध्य नदी वेगेन शुध्यति । रजसा स्त्री मनोदुष्टा सन्यासेन द्विजोत्तमाः ॥८॥

द्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्या भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥९॥

एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । नानाविधाना द्रव्याणा शुद्धेः शृणुत निर्णयम् ॥११०॥

तैजसाना मणीना च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥११॥

निर्लेप काञ्चन भाण्डमद्भिरेव विशुध्यति । ब्जमश्ममय चैव राजत चानुपस्कृतम् ॥१२॥

पामग्नेश्च सयोगाद् हैम रौप्य च निर्बभौ । तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥१३॥

ताम्रायस्कास्यरैत्याना त्रपुणः सीसकस्य च । शौच यथार्ह कर्तव्य क्षाराम्लोदकवारिभिः ॥१४॥

द्रवाणा चैव सर्वेषा शुद्धिरुत्पवन स्मृतम् । प्रोक्षण सहताना च दारवाणा च तक्षणम् ॥१५॥

मार्जन यज्ञपात्राणा पाणिना यज्ञकर्मणि । चमसाना ग्रहाणा च शुद्धिः प्रक्षालनेन तु ॥१६॥

चरूणा स्रुक्स्रुवाणा च शुद्धिरुष्णेन वारिणा । स्फ्यशूर्पशकटाना च मुसलौलूखलस्य च ॥१७॥

द्भिस्तु प्रोक्षण शौच बहूना धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच विधीयते ॥१८॥

चैलवत्चर्मणा शुद्धिर्वैदलाना तथैव च । शाकमूलफलाना च धान्यवत्शुद्धिरिष्यते ॥१९॥

कौशेयाविकयोरूषैः कुतपानामरिष्टकैः । श्रीफलैरशुपट्टाना क्षौमाणा गौरसर्षपैः ॥१२०॥

क्षौमवत्शङ्खशृङ्गाणामस्थिदन्तमयस्य च । शुद्धिर्विजानता कार्या गोमूत्रेणौदकेन वा ॥२१॥

प्रोक्षणात् तृणकाष्ठ च पलाल चैव शुध्यति । मार्जनौपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् ॥२२॥

मयैर्मूत्रैह पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृन्मयम्‍ ॥२३॥

समार्जनौपाञ्जनेन सेकेनौल्लेखनेन च । गवा च परिवासेन भूमिः शुध्यति पञ्चभिः ॥२४॥

पक्षिजग्ध गवा घ्रातमवधूतमवक्षुतम् । दूषित केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥२५॥

यावन्नापेत्यमेध्याक्ताद् गन्धो लेपश्च तत्कृतः । तावन् मृद्वारि चादेय सर्वासु द्रव्यशुद्धिषु ॥२६॥

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । दृष्टमद्भिर्निर्णिक्त यच वाचा प्रशस्यते ॥२७॥

आपः शुद्धा भूमिगता वैतृष्ण्य यासु गोर्भवेत् । व्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥२८॥

नित्य शुद्धः कारुहस्तः पण्ये यच प्रसारितम् । ब्रह्मचारिगत भैक्ष्य नित्य मेध्यमिति स्थितिः ॥२२९॥

नित्यमास्य शुचि स्त्रीणा शकुनिः फलपातने । प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥१३०॥

श्वभिर्हतस्य यन् मास शुचि तन् मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥३१॥

ऊर्ध्व नाभेर्यानि खानि तानि मेध्यानि सर्वशः । यान्यधस्तान्यमेध्यानि देहाचैव मलाश्युताः ॥३२॥

मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥३३॥

विण्मूत्रोत्सर्गशुद्ध्यर्थ मृद्वार्यादेयमर्थवत् । दैहिकाना मलाना च शुद्धिषु द्वादशस्वपि ॥३४॥

वसा शुक्रमसृग्मज्जा मूत्रविड्घ्राणकर्णविट् । श्लेश्माश्रु दूषिका स्वेदो द्वादशैते नृणा मलाः ॥३५॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥३६॥

एतत्शौच गृहस्थाना द्विगुण ब्रह्मचारिणाम् । त्रिगुण स्याद् वनस्थाना यतीना तु चतुर्गुणम् ॥३७॥

कृत्वा मूत्र पुरीष वा खान्याचान्त उपस्पृशेत् । वेदमध्येष्यमाणश्च न्नमश्नश्च सर्वदा ॥३८॥

त्रिराचामेदपः पूर्व द्विः प्रमृज्यात् ततो मुखम् । शरीर शौचमिछन् हि स्त्री शूद्रस्तु सकृत् सकृत् ॥३९॥

शूद्राणा मासिक कार्य वपन न्यायवर्तिनाम् । वैश्यवत्शौचकल्पश्च द्विजोछिष्ट च भोजनम् ॥१४०॥

नोछिष्ट कुर्वते मुख्या विप्रुषोऽङ्ग न यान्ति याः । न श्मश्रूणि गतान्यास्य न दन्तान्तरधिष्ठितम् ॥४१॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥४२॥

उछिष्टेन तु सस्पृष्टो द्रव्यहस्तः कथ चन । निधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥४३॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वाऽन्न स्नान मैथुनिनः स्मृतम् ॥४४॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्यौक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन् ॥४५॥

एषा शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । उक्तो वः सर्ववर्णाना स्त्रीणा धर्मान्निबोधत ॥४६॥

बालया वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्तव्य कि चिद् कार्य गृहेष्वपि ॥४७॥

बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने । पुत्राणा भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥४८॥

पित्रा भर्त्रा सुतैर्वाऽपि नेछेद् विरहमात्मनः । एषा हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥४९॥

सदा प्रहृष्टया भाव्य गृहकार्ये च दक्षया । सुसस्कृतोपस्करया व्यये चामुक्तहस्तया ॥१५०॥

यस्मै दद्यात् पिता त्वेना भ्राता वाऽनुमते पितुः । त शुश्रूषेत जीवन्त सस्थित च न लङ्घयेत् ॥५१॥

मङ्गलार्थ स्वस्त्ययन यज्ञश्चासा प्रजापतेः । प्रयुज्यते विवाहे तु प्रदान स्वाम्यकारणम् ॥५२॥

नृतावृतुकाले च मन्त्रसस्कारकृत् पतिः । सुखस्य नित्य दातैह परलोके च योषितः ॥५३॥

विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । उपचार्यः स्त्रिया साध्व्या सतत देववत् पतिः ॥५४॥

नास्ति स्त्रीणा पृथग् यज्ञो न व्रत नाप्युपोषणम् । पति शुश्रूषते येन तेन स्वर्गे महीयते ॥५५॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकमभीप्सन्ती नाचरेत् कि चिदप्रियम् ॥५६॥

काम तु क्षपयेद् देह पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥५७॥

आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीना काङ्क्षन्ती तमनुत्तमम् ॥५८॥

नेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिव गतानि विप्राणामकृत्वा कुलसततिम् ॥५९॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गछत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥१६०॥

पत्यलोभाद् या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच हीयते ॥६१॥

नान्योत्पन्ना प्रजाऽस्तीह न चाप्यन्यपरिग्रहे । न द्वितीयश्च साध्वीना क्व चिद् भर्तोपदिश्यते ॥६२॥

पति हित्वाऽपकृष्ट स्वमुत्कृष्ट या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्वैति चौयते ॥६३॥

व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यते ॥६४॥

पति या नाभिचरति मनोवाग्देहसयुता । सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोयते ॥६५॥

नेन नारी वृत्तेन मनोवाग्देहसयता । इहाग्र्या कीर्तिमाप्नोति पतिलोक परत्र च ॥६६॥

एव वृत्ता सवर्णा स्त्री द्विजातिः पूर्वमारिणीम् । दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥६७॥

भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि । पुनर्दारक्रिया कुर्यात् पुनराधानमेव च ॥६८॥

नेन विधिना नित्य पञ्चयज्ञान्न हापयेत् । द्वितीयमायुषो भाग कृतदारो गृहे वसेत् ॥६९॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : April 03, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP