मनुस्मृतिः - अष्टमोध्यायः

मनुस्मृती हे धर्मशास्त्र आहे. वर्णधर्म, आश्रमधर्म, वर्णाश्रमधर्म, राजधर्म, व्यवहारनिर्णय, स्त्रीधर्म व पुरूषधर्म यांच्या या स्मृतीमध्ये व्याख्या सांगून त्यांची निष्कृती कोणत्या उपायांनी करावी हे सुचविले आहे.


व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ॥१॥

तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥२॥

प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥३॥

तेषामाद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥४॥

वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥५॥

सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥६॥

स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥७॥

एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्मं शाश्वतमाश्रित्य कुर्यात् कार्यविनिर्णयम् ॥८॥

यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् । तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥९॥

सोऽस्य कार्याणि संपश्येत् सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥१०॥

यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥११॥

धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥१२॥

सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी ॥१३॥

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥१४॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥१५॥

वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद् धर्मं न लोपयेत् ॥१६॥

एक एव सुहृद् धर्मो निधानेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥१७॥

पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥१८॥

राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दाऽर्हो यत्र निन्द्यते ॥१९॥

जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न शूद्रः कथं चन ॥२०॥

यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद् राष्ट्रं पङ्के गौरिव पश्यतः ॥२१॥

यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥२२॥

धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥२३॥

अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥२४॥

बाह्यैर्विभावयेत्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥२५॥

आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥२६॥

बालदायादिकं रिक्थं तावद् राजाऽनुपालयेत् । यावत् स स्यात् समावृत्तो यावत्चातीतशैशवः ॥२७॥

वशाऽपुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥२८॥

जीवन्तीनां तु तासां ये तद् हरेयुः स्वबान्धवाः । तांशिष्यात्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥२९॥

प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्द् हरेत् स्वामी परेण नृपतिर्हरेत् ॥३०॥

ममैदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधि । संवाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति ॥३१॥

अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥३२॥

आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥३३॥

प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैरधिष्ठितम् । यांस्तत्र चौरान् गृह्णीयात् तान् राजैभेन घातयेत् ॥३४॥

ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥३५॥

अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य सङ्ख्ययाऽल्पीयसीं कलाम् ॥३६॥

विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥३७॥

यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद् द्विजेभ्यो दत्त्वाऽर्धमर्धं कोशे प्रवेशयेत् ॥३८॥

निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभाग् रक्षणाद् राजा भूमेरधिपतिर्हि सः ॥३९॥

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥४०॥

जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥४१॥

स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥४२॥

नोत्पादयेत् स्वयं कार्यं राजा नाप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेदर्थं कथं चन ॥४३॥

यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । नयेत् तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥४४॥

सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥४५॥

सद्भिराचरितं यत् स्याद् धार्मिकैश्च द्विजातिभिः । तद् देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥४६॥

अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम् ॥४७॥

यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम् ॥४८॥

धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥४९॥

यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन् धनम् ॥५०॥

अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥५१॥

अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद् देश्यं करणं वाऽन्यदुद्दिशेत् ॥५२॥

अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः । यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ॥५३॥

अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥५४॥

असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद् यश्चापि निष्पतेत् ॥५५॥

ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात् तस्मादर्थात् स हीयते ॥५६॥

साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥५७॥

अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्ड्यश्च धर्मतः । न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥५८॥

यो यावद् निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥५९॥

पृष्टोऽपव्ययमानस्तु कृतावस्थो धनेषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥६०॥

यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान् संप्रवक्ष्यामि यथा वाच्यं ऋतं च तैः ॥६१॥

गृहिणः पुत्रिणो मौलाः क्षत्रविद् शूद्रयोनयः । अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ॥६२॥

आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥६३॥

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥६४॥

न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥६५॥

नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥६६॥

नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥६७॥

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणां अन्त्यानामन्त्ययोनयः ॥६८॥

अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥६९॥

स्त्रियाऽप्यसंभावे कार्यं बालेन स्थविरेण वा । शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥७०॥

बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥७१॥

साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥७२॥

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥७३॥

समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥७४॥

साक्षी दृष्टश्रुतादन्यद् विब्रुवन्नार्यसंसदि । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥७५॥

यत्रानिबद्धोऽपीक्षेत शृणुयाद् वाऽपि किं चन । पृष्टस्तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥७६॥

एकोऽलुब्धस्तु साक्षी स्याद् बह्व्यः शुच्योऽपि न स्त्रियः । स्त्रीबुद्धेरस्थिरत्वात् तु दोषैश्चान्येऽपि ये वृताः ॥७७॥

स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् । अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ॥७८॥

सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ । प्राड् विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥७९॥

यद् द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥८०॥

सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् । इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥८१॥

साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् । विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेद् ऋतम् ॥८२॥

सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥८३॥

आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥८४॥

मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥८५॥

द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥८६॥

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥८७॥

ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥८८॥

ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ॥८९॥

जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम् । तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास्त्वमन्यथा ॥९०॥

एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्येष पुण्यपापैक्षिता मुनिः ॥९१॥

यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥९२॥

नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यमनृतं वदेत् ॥९३॥

अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥९४॥

अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥९५॥

यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥९६॥

यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥९७॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥९८॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्वं भूमिअनृते हन्ति मा स्म भूमिअनृतं वदीः ॥९९॥

अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥१००॥

एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥१॥

गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥२॥

तद् वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः । न स्वर्गाच्च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥३॥

शूद्रविड् क्षत्रविप्राणां यत्रऋतोक्तौ भवेद् वधः । तत्र वक्तव्यमनृतं तद् हि सत्याद् विशिष्यते ॥४॥

वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥५॥

कूष्माण्डैर्वाऽपि जुहुयाद् घृतमग्नौ यथाविधि । उदित्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥६॥

त्रिपक्षादब्रुवन् साक्ष्यं ऋणादिषु नरोऽगदः । तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥७॥

यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥८॥

असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥९॥

महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥११०॥

न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन् प्रेत्य चैह च नश्यति ॥११॥

कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥१२॥

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥१३॥

अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् ॥१४॥

यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥१५॥

वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥१६॥

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥१७॥

लोभान्मोहाद् भयात्मैत्रात् कामात् क्रोधात् तथैव च । अज्ञानाद् बालभावात्च साक्ष्यं वितथमुच्यते ॥१८॥

एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥१९॥

लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥१२०॥

कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे बालिश्यात्शतमेव तु ॥२१॥

एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः । धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥२२॥

कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥२३॥

दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥२४॥

उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥२५॥

अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥२६॥

अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥२७॥

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥२८॥

वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥२९॥

वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदेषु सर्वमप्येतत् प्रयुञ्जीत चतुष्टयम् ॥१३०॥

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥३१॥

जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥३२॥

त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥३३॥

सर्षपाः षड् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥३४॥

पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥३५॥

ते षोडश स्याद् धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥३६॥

धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥३७॥

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥३८॥

ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद् द्विगुणं तन् मनोरनुशासनम् ॥३९॥

वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥४०॥

द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥४१॥

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ॥४२॥

न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधात्निसर्गोऽस्ति न विक्रयः ॥४३॥

न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥४४॥

आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः । अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥४५॥

संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥४६॥

यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तत्लब्धुमर्हति ॥४७॥

अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यमर्हति ॥४८॥

आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥४९॥

यः स्वामिनाऽननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः । तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥१५०॥

कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥५१॥

कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥५२॥

नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥५३॥

ऋणं दातुमशक्तो यः कर्तुमिच्छेत् पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥५४॥

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद् वृद्धिस्तावतीं दातुमर्हति ॥५५॥

चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥५६॥

समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥५७॥

यो यस्य प्रतिभूस्तिष्ठेद् दर्शनायैह मानवः । अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥५८॥

प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥५९॥

दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥१६०॥

अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥६१॥

निरादिष्टधनश्चेत् तु प्रतिभूः स्यादलंधनः । स्वधनादेव तद् दद्यान्निरादिष्ट इति स्थितिः ॥६२॥

मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥६३॥

सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता । बहिश्चेद् भाष्यते धर्मात्नियताद् व्यवहारिकात् ॥६४॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥६५॥

ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ॥६६॥

कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥६७॥

बलाद् दत्तं बलाद् भुक्तं बलाद् यच्चापि लेखितम् । सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥६८॥

त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ॥६९॥

अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥१७०॥

अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्यैह च नश्यति ॥७१॥

स्वादानाद् वर्णसंसर्गात् त्वबलानां च रक्षणात् । बलं सञ्जायते राज्ञः स प्रेत्यैह च वर्धते ॥७२॥

तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥७३॥

यस्त्वधर्मेण कार्याणि मोहात् कुर्यान्नराधिपः । अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥७४॥

कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥७५॥

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे । स राज्ञा तत्चतुर्भागं दाप्यस्तस्य च तद् धनम् ॥७६॥

कर्मणाऽपि समं कुर्याद् धनिकायाधमर्णिकः । समोऽवकृष्टजातिस्तु दद्यात्श्रेयांस्तु तत्शनैः ॥७७॥

अनेन विधिना राजा मिथो विवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥७८॥

कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद् बुधः ॥७९॥

यो यथा निक्षिपेद्द् हस्ते यमर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥१८०॥

यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । स याच्यः प्राड्विवाकेन तत्निक्षेप्तुरसंनिधौ ॥८१॥

साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥८२॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । न तत्र विद्यते किं चिद् यत् परैरभियुज्यते ॥८३॥

तेषां न दद्याद् यदि तु तद् हिरण्यं यथाविधि । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥८४॥

निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥८५॥

स्वयमेव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे । न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥८६॥

अच्छलेनैव चान्विच्छेत् तमर्थं प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥८७॥

निक्षेपेष्वेषु सर्वेषु विधिः स्यात् परिसाधने । समुद्रे नाप्नुयात् किं चिद् यदि तस्मान्न संहरेत् ॥८८॥

चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा । न दद्याद् यदि तस्मात् स न संहरति किं चन ॥८९॥

निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च । सर्वैरुपायैरन्विच्छेत्शपथैश्चैव वैदिकैः ॥९०॥

यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवत्शास्यौ दाप्यौ वा तत्समं दमम् ॥९१॥

निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् । तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥९२॥

उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥९३॥

निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥९४॥

मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥९५॥

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥९६॥

विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥९७॥

अवहार्यो भवेत्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ॥९८॥

अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥९९॥

संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । आगमः कारणं तत्र न संभोग इति स्थितिः ॥२००॥

विक्रयाद् यो धनं किं चिद् गृह्णीयात् कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥१॥

अथ मूलमनाहार्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥२॥

नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥३॥

अन्यां चेद् दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यब्रवीन् मनुः ॥४॥

नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना । पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥५॥

ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोंशः सहकर्तृभिः ॥६॥

दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥७॥

यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आददीत भजेरन् सर्व एव वा ॥८॥

रथं हरेत् चाध्वर्युर्ब्रह्माऽधाने च वाजिनम् । होता वाऽपि हरेदश्वमुद्गाता चाप्यनः क्रये ॥९॥

सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥२१०॥

संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥११॥

धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम् । पश्चाच्च न तथा तत् स्यान्न देयं तस्य तद् भवेत् ॥१२॥

यदि संसाधयेत् तत् तु दर्पात्लोभेन वा पुनः । राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥१३॥

दत्तस्यैषौदिता धर्म्या यथावदनपक्रिया । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥१४॥

भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥१५॥

आर्तस्तु कुर्यात् स्वस्थः सन् यथाभाषितमादितः । स दीर्घस्यापि कालस्य तत्लभेतेव वेतनम् ॥१६॥

यथोक्तमार्तः सुस्थो वा यस्तत् कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥१७॥

एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥१८॥

यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥१९॥

निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । चतुःसुवर्णान् षण्निष्कांश्शतमानं च राजकम् ॥२२०॥

एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥२१॥

क्रीत्वा विक्रीय वा किं चिद् यस्यैहानुशयो भवेत् । सोऽन्तर्दशाहात् तद् द्रव्यं दद्याच्चैवाददीत वा ॥२२॥

परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ॥२३॥

यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥२४॥

अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः । स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥२५॥

पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥२६॥

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥२७॥

यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥२८॥

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥२९॥

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत् तु पालो वक्तव्यतामियात् ॥२३०॥

गोपः क्षीरभृतो यस्तु स दुह्याद् दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः ॥३१॥

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥३२॥

विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥३३॥

कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् । पशुषु स्वामिनां दद्यान् मृतेष्वङ्कानि दर्शयेत् ॥३४॥

अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥३५॥

तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥३६॥

धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः । शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥३७॥

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥३८॥

वृतिं तत्र प्रकुर्वीत यामुष्त्रो न विलोकयेत् । छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥३९॥

पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः । सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥२४०॥

क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्यैति धारणा ॥४१॥

अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा । सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत् ॥४२॥

क्षेत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात् क्षेत्रिकस्य तु ॥४२॥

एतद् विधानमातिष्ठेद् धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥४४॥

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥४५॥

सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ॥४६॥

गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च । शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥४७॥

तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥४८॥

उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥४९॥

अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः । करीषमिष्टकाऽङ्गारां शर्करा वालुकास्तथा ॥२५०॥

यानि चैवंप्रकाराणि कालाद् भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥५१॥

एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥५२॥

यदि संशय एव स्यात्लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥५३॥

ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥५४॥

ते पृष्तास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । निबध्नीयात् तथा सीमां सर्वांस्तांश्चैव नामतः ॥५५॥

शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥५६॥

यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥५७॥

साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥५८॥

सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥५९॥

व्याधांशाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥२६०॥

ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर्द्वयोः ॥६१॥

क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥६२॥

सामन्ताश्चेत्मृषा ब्रूयुः सेतौ विवादतां नृणाम् । सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥६३॥

गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ॥६४॥

सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद् भूमिमेकेषामुपकारादिति स्थितिः ॥६५॥

एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥६६॥

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥६७॥

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ॥६८॥

समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥६९॥

एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥२७०॥

नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः । निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥७१॥

धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः । तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥७२॥

श्रुतं देशं च जातिं च कर्म शरीरमेव च ? ? । वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥७३॥

काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥७४॥

मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयंशतं दाप्यः पन्थानं चाददद् गुरोः ॥७५॥

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥७६॥

विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ॥७७॥

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥७८॥

येन केन चिदङ्गेन हिंस्याच्चेत्श्रेष्ठमन्त्यजः । छेत्तव्यं तद् तदेवास्य तन् मनोरनुशासनम् ॥७९॥

पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ॥२८०॥

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥८१॥

अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥८२॥

केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥८३॥

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु षट् निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥८४॥

वनस्पतीनां सर्वेषामुपभोगो यथा यथा । यथा तथा दमः कार्यो हिंसायामिति धारणा ॥८५॥

मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥८६॥

अङ्गावपीडनायां च व्रणशोणितयोस्तथा । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥८७॥

द्रव्याणि हिंस्याद् यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच्च तत्समम् ॥८८॥

चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु । मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥८९॥

यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥२९०॥

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥९१॥

छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥९२॥

यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥९३॥

प्राजकश्चेद् भवेदाप्तः प्राजको दण्डमर्हति । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥९४॥

स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ॥९५॥

मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् । प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥९६॥

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥९७॥

गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः । माषिकस्तु भवेद् दण्डः श्वसूकरनिपातने ॥९८॥

भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सौदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥९९॥

पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन । अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥३००॥

एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥१॥

परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥२॥

अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥३॥

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥४॥

यदधीते यद् यजते यद् ददाति यदर्चति । तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥५॥

रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥६॥

योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥७॥

अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥८॥

अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥९॥

अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥३१०॥

निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च । द्विजातय इवैज्याभिः पूयन्ते सततं नृपाः ॥११॥

क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥१२॥

यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥१३॥

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत् स्तेयमेवङ्कर्माऽस्मि शाधि माम् ॥१४॥

स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥१५॥

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥१६॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥१७॥

राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥१८॥

यस्तु रज्जुं घटं कूपाद्द् हरेद् भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान् माषं तच्च तस्मिन् समाहरेत् ॥१९॥

धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद् धनम् ॥३२०॥

तथा धरिममेयानां शतादभ्यधिके वधः । सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥२१॥

पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥२२॥

पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥२३॥

महापशूनां हरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥२४॥

गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥२५॥

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥२६॥

वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च ॥२७॥

मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत् पशुसंभवम् ॥२८॥

अन्येषां चैवमादीनां मद्यानामोदनस्य च । पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ॥२९॥

पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥३३०॥

परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥३१॥

स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम् । निरन्वयं भवेत् स्तेयं हृत्वाऽपव्ययते च यत् ॥३२॥

यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः । तमाद्यं दण्डयेद् राजा यश्चाग्निं चोरयेद् गृहात् ॥३३॥

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत् तदेव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥३४॥

पिताऽचार्यः सुहृत्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥३५॥

कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद् दण्ड्यः सहस्रमिति धारणा ॥३६॥

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥३७॥

ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्द् हि सः ॥३८॥

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥३९॥

योऽदत्तादायिनो हस्तात्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥३४०॥

द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः परक्षेत्रात्न दण्डं दातुमर्हति ॥४१॥

असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥४२॥

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । यशोऽस्मिन् प्राप्नुयात्लोके प्रेत्य चानुत्तमं सुखम् ॥४३॥

ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥४४॥

वाग्दुष्टात् तस्कराच्चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥४५॥

साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥४६॥

न मित्रकारणाद् राजा विपुलाद् वा धनागमात् । समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥४७॥

शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥४८॥

आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥४९॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥३५०॥

नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥५१॥

परदाराभिमर्शेषु प्रवृत्तान्नॄन् महीपतिः । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥५२॥

तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥५३॥

परस्य पत्न्या पुरुषः संभाषां योजयन् रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥५४॥

यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् । न दोषं प्राप्नुयात् किं चिन्न हि तस्य व्यतिक्रमः ॥५५॥

परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा । नदीनां वाऽपि संभेदे स सङ्ग्रहणमाप्नुयात् ॥५६॥

उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । सह खट्वाऽसनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥५७॥

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया । परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥५८॥

अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥५९॥

भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥३६०॥

न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥६१॥

नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥६२॥

किं चिदेव तु दाप्यः स्यात् संभाषां ताभिराचरन् । प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥६३॥

योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥६४॥

कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥६५॥

उत्तमां सेवमानस्तु जघन्यो वधमर्हति । शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि ॥६६॥

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥६७॥

सकामां दूषयंस्तुल्यो नाङ्गुलिछेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥६८॥

कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः । शुल्कं च द्विगुणं दद्यात्शिफाश्चैवाप्नुयाद् दश ॥६९॥

या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥३७०॥

भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥७१॥

पुमांसं दाहयेत् पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥७२॥

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥७३॥

शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥७४॥

वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः । सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥७५॥

ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥७६॥

उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥७७॥

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥७८॥

मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥७९॥

न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ॥३८०॥

न ब्राह्मणवधाद् भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥८१॥

वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥८२॥

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥८३॥

क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यमिच्छेत् तु क्षत्रियो दण्डमेव वा ॥८४॥

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्वन्त्यजस्त्रियम् ॥८५॥

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥८६॥

एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ॥८७॥

ऋत्विजं यस्त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥८८॥

न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥८९॥

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥३९०॥

यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥९१॥

प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥९२॥

श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥९३॥

अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित् करम् ॥९४॥

श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् । महाकुलीनमार्यं च राजा संपूजयेत् सदा ॥९५॥

शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥९६॥

तन्तुवायो दशपलं दद्यादेकपलाधिकम् । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥९७॥

शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥९८॥

राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । ताणि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ॥९९॥

शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥४००॥

आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥१॥

पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥२॥

तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥३॥

पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । पादं पशुश्च योषित्च पादार्धं रिक्तकः पुमान् ॥४॥

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत् किं चित् पुमांसश्चपरिच्छदाः ॥५॥

दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥६॥

गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥७॥

यन्नावि किं चिद् दाशानां विशीर्येतापराधतः । तद् दाशैरेव दातव्यं समागम्य स्वतोऽशतः ॥८॥

एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥९॥

वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिमेव च । पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥४१०॥

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥११॥

दास्यं तु कारयन्लोभाद् ब्राह्मणः संस्कृतान् द्विजान् । अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥१२॥

शूद्रं तु कारयेद् दास्यं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥१३॥

न स्वामिना निसृष्टोऽपि शूद्रो दास्याद् विमुच्यते । निसर्गजं हि तत् तस्य कस्तस्मात् तदपोहति ॥१४॥

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥१५॥

भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥१६॥

विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानमाचरेत् । न हि तस्यास्ति किं चित् स्वं भर्तृहार्यधनो हि सः ॥१७॥

वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥१८॥

अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययौ च नियतावाकरान् कोशमेव च ॥१९॥

एवं सर्वानिमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥४२०॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्ताया संहितायामष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : April 03, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP